वैशम्पायन उवाच 09050001
यत्रेजिवानुडुपती राजसूयेन भारत 09050001a
तस्मिन्वृत्ते महानासीत्सङ्ग्रामस्तारकामयः 09050001c
तत्राप्युपस्पृश्य बलो दत्त्वा दानानि चात्मवान् 09050002a
सारस्वतस्य धर्मात्मा मुनेस्तीर्थं जगाम ह 09050002c
यत्र द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान् 09050003a
वेदानध्यापयामास पुरा सारस्वतो मुनिः 09050003c
जनमेजय उवाच 09050004
कथं द्वादशवार्षिक्यामनावृष्ट्यां तपोधनः 09050004a
वेदानध्यापयामास पुरा सारस्वतो मुनिः 09050004c
वैशम्पायन उवाच 09050005
आसीत्पूर्वं महाराज मुनिर्धीमान्महातपाः 09050005a
दधीच इति विख्यातो ब्रह्मचारी जितेन्द्रियः 09050005c
तस्यातितपसः शक्रो बिभेति सततं विभो 09050006a
न स लोभयितुं शक्यः फलैर्बहुविधैरपि 09050006c
प्रलोभनार्थं तस्याथ प्राहिणोत्पाकशासनः 09050007a
दिव्यामप्सरसं पुण्यां दर्शनीयामलम्बुसाम् 09050007c
तस्य तर्पयतो देवान्सरस्वत्यां महात्मनः 09050008a
समीपतो महाराज सोपातिष्ठत भामिनी 09050008c
तां दिव्यवपुषं दृष्ट्वा तस्यर्षेर्भावितात्मनः 09050009a
रेतः स्कन्नं सरस्वत्यां तत्सा जग्राह निम्नगा 09050009c
कुक्षौ चाप्यदधद्दृष्ट्वा तद्रेतः पुरुषर्षभ 09050010a
सा दधार च तं गर्भं पुत्रहेतोर्महानदी 09050010c
सुषुवे चापि समये पुत्रं सा सरितां वरा 09050011a
जगाम पुत्रमादाय तमृषिं प्रति च प्रभो 09050011c
ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम् 09050012a
ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य तम् 09050012c
ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया 09050012e
दृष्ट्वा तेऽप्सरसं रेतो यत्स्कन्नं प्रागलम्बुसाम् 09050013a
तत्कुक्षिणा वै ब्रह्मर्षे त्वद्भक्त्या धृतवत्यहम् 09050013c
न विनाशमिदं गच्छेत्त्वत्तेज इति निश्चयात् 09050014a
प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तमनिन्दितम् 09050014c
इत्युक्तः प्रतिजग्राह प्रीतिं चावाप उत्तमाम् 09050015a
मन्त्रवच्चोपजिघ्रत्तं मूर्ध्नि प्रेम्णा द्विजोत्तमः 09050015c
परिष्वज्य चिरं कालं तदा भरतसत्तम 09050016a
सरस्वत्यै वरं प्रादात्प्रीयमाणो महामुनिः 09050016c
विश्वे देवाः सपितरो गन्धर्वाप्सरसां गणाः 09050017a
तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास्तवाम्भसा 09050017c
इत्युक्त्वा स तु तुष्टाव वचोभिर्वै महानदीम् 09050018a
प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव 09050018c
प्रसृतासि महाभागे सरसो ब्रह्मणः पुरा 09050019a
जानन्ति त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः 09050019c
मम प्रियकरी चापि सततं प्रियदर्शने 09050020a
तस्मात्सारस्वतः पुत्रो महांस्ते वरवर्णिनि 09050020c
तवैव नाम्ना प्रथितः पुत्रस्ते लोकभावनः 09050021a
सारस्वत इति ख्यातो भविष्यति महातपाः 09050021c
एष द्वादशवार्षिक्यामनावृष्ट्यां द्विजर्षभान् 09050022a
सारस्वतो महाभागे वेदानध्यापयिष्यति 09050022c
पुण्याभ्यश्च सरिद्भ्यस्त्वं सदा पुण्यतमा शुभे 09050023a
भविष्यसि महाभागे मत्प्रसादात्सरस्वति 09050023c
एवं सा संस्तुता तेन वरं लब्ध्वा महानदी 09050024a
पुत्रमादाय मुदिता जगाम भरतर्षभ 09050024c
एतस्मिन्नेव काले तु विरोधे देवदानवैः 09050025a
शक्रः प्रहरणान्वेषी लोकांस्त्रीन्विचचार ह 09050025c
न चोपलेभे भगवाञ्शक्रः प्रहरणं तदा 09050026a
यद्वै तेषां भवेद्योग्यं वधाय विबुधद्विषाम् 09050026c
ततोऽब्रवीत्सुराञ्शक्रो न मे शक्या महासुराः 09050027a
ऋतेऽस्थिभिर्दधीचस्य निहन्तुं त्रिदशद्विषः 09050027c
तस्माद्गत्वा ऋषिश्रेष्ठो याच्यतां सुरसत्तमाः 09050028a
दधीचास्थीनि देहीति तैर्वधिष्यामहे रिपून् 09050028c
स देवैर्याचितोऽस्थीनि यत्नादृषिवरस्तदा 09050029a
प्राणत्यागं कुरुष्वेति चकारैवाविचारयन् 09050029c
स लोकानक्षयान्प्राप्तो देवप्रियकरस्तदा 09050029e
तस्यास्थिभिरथो शक्रः सम्प्रहृष्टमनास्तदा 09050030a
कारयामास दिव्यानि नानाप्रहरणान्युत 09050030c
वज्राणि चक्राणि गदा गुरुदण्डांश्च पुष्कलान् 09050030e
स हि तीव्रेण तपसा सम्भृतः परमर्षिणा 09050031a
प्रजापतिसुतेनाथ भृगुणा लोकभावनः 09050031c
अतिकायः स तेजस्वी लोकसारविनिर्मितः 09050032a
जज्ञे शैलगुरुः प्रांशुर्महिम्ना प्रथितः प्रभुः 09050032c
नित्यमुद्विजते चास्य तेजसा पाकशासनः 09050032e
तेन वज्रेण भगवान्मन्त्रयुक्तेन भारत 09050033a
भृशं क्रोधविसृष्टेन ब्रह्मतेजोभवेन च 09050033c
दैत्यदानववीराणां जघान नवतीर्नव 09050033e
अथ काले व्यतिक्रान्ते महत्यतिभयङ्करे 09050034a
अनावृष्टिरनुप्राप्ता राजन्द्वादशवार्षिकी 09050034c
तस्यां द्वादशवार्षिक्यामनावृष्ट्यां महर्षयः 09050035a
वृत्त्यर्थं प्राद्रवन्राजन्क्षुधार्ताः सर्वतोदिशम् 09050035c
दिग्भ्यस्तान्प्रद्रुतान्दृष्ट्वा मुनिः सारस्वतस्तदा 09050036a
गमनाय मतिं चक्रे तं प्रोवाच सरस्वती 09050036c
न गन्तव्यमितः पुत्र तवाहारमहं सदा 09050037a
दास्यामि मत्स्यप्रवरानुष्यतामिह भारत 09050037c
इत्युक्तस्तर्पयामास स पितॄन्देवतास्तथा 09050038a
आहारमकरोन्नित्यं प्राणान्वेदांश्च धारयन् 09050038c
अथ तस्यामतीतायामनावृष्ट्यां महर्षयः 09050039a
अन्योन्यं परिपप्रच्छुः पुनः स्वाध्यायकारणात् 09050039c
तेषां क्षुधापरीतानां नष्टा वेदा विधावताम् 09050040a
सर्वेषामेव राजेन्द्र न कश्चित्प्रतिभानवान् 09050040c
अथ कश्चिदृषिस्तेषां सारस्वतमुपेयिवान् 09050041a
कुर्वाणं संशितात्मानं स्वाध्यायमृषिसत्तमम् 09050041c
स गत्वाचष्ट तेभ्यश्च सारस्वतमतिप्रभम् 09050042a
स्वाध्यायममरप्रख्यं कुर्वाणं विजने जने 09050042c
ततः सर्वे समाजग्मुस्तत्र राजन्महर्षयः 09050043a
सारस्वतं मुनिश्रेष्ठमिदमूचुः समागताः 09050043c
अस्मानध्यापयस्वेति तानुवाच ततो मुनिः 09050044a
शिष्यत्वमुपगच्छध्वं विधिवद्भो ममेत्युत 09050044c
ततोऽब्रवीदृषिगणो बालस्त्वमसि पुत्रक 09050045a
स तानाह न मे धर्मो नश्येदिति पुनर्मुनीन् 09050045c
यो ह्यधर्मेण विब्रूयाद्गृह्णीयाद्वाप्यधर्मतः 09050046a
म्रियतां तावुभौ क्षिप्रं स्यातां वा वैरिणावुभौ 09050046c
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः 09050047a
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् 09050047c
एतच्छ्रुत्वा वचस्तस्य मुनयस्ते विधानतः 09050048a
तस्माद्वेदाननुप्राप्य पुनर्धर्मं प्रचक्रिरे 09050048c
षष्टिर्मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे 09050049a
सारस्वतस्य विप्रर्षेर्वेदस्वाध्यायकारणात् 09050049c
मुष्टिं मुष्टिं ततः सर्वे दर्भाणां तेऽभ्युपाहरन् 09050050a
तस्यासनार्थं विप्रर्षेर्बालस्यापि वशे स्थिताः 09050050c
तत्रापि दत्त्वा वसु रौहिणेयो महाबलः केशवपूर्वजोऽथ 09050051a
जगाम तीर्थं मुदितः क्रमेण ख्यातं महद्वृद्धकन्या स्म यत्र 09050051c