वैशम्पायन उवाच 09049001
तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनः 09049001a
गार्हस्थ्यं धर्ममास्थाय असितो देवलः पुरा 09049001c
धर्मनित्यः शुचिर्दान्तो न्यस्तदण्डो महातपाः 09049002a
कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु 09049002c
अक्रोधनो महाराज तुल्यनिन्दाप्रियाप्रियः 09049003a
काञ्चने लोष्टके चैव समदर्शी महातपाः 09049003c
देवताः पूजयन्नित्यमतिथींश्च द्विजैः सह 09049004a
ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः 09049004c
ततोऽभ्येत्य महाराज योगमास्थाय भिक्षुकः 09049005a
जैगीषव्यो मुनिर्धीमांस्तस्मिंस्तीर्थे समाहितः 09049005c
देवलस्याश्रमे राजन्न्यवसत्स महाद्युतिः 09049006a
योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः 09049006c
तं तत्र वसमानं तु जैगीषव्यं महामुनिम् 09049007a
देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः 09049007c
एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत् 09049008a
जैगीषव्यं मुनिं चैव न ददर्शाथ देवलः 09049008c
आहारकाले मतिमान्परिव्राड्जनमेजय 09049009a
उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम् 09049009c
स दृष्ट्वा भिक्षुरूपेण प्राप्तं तत्र महामुनिम् 09049010a
गौरवं परमं चक्रे प्रीतिं च विपुलां तथा 09049010c
देवलस्तु यथाशक्ति पूजयामास भारत 09049011a
ऋषिदृष्टेन विधिना समा बह्व्यः समाहितः 09049011c
कदाचित्तस्य नृपते देवलस्य महात्मनः 09049012a
चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम् 09049012c
समास्तु समतिक्रान्ता बह्व्यः पूजयतो मम 09049013a
न चायमलसो भिक्षुरभ्यभाषत किञ्चन 09049013c
एवं विगणयन्नेव स जगाम महोदधिम् 09049014a
अन्तरिक्षचरः श्रीमान्कलशं गृह्य देवलः 09049014c
गच्छन्नेव स धर्मात्मा समुद्रं सरितां पतिम् 09049015a
जैगीषव्यं ततोऽपश्यद्गतं प्रागेव भारत 09049015c
ततः सविस्मयश्चिन्तां जगामाथासितः प्रभुः 09049016a
कथं भिक्षुरयं प्राप्तः समुद्रे स्नात एव च 09049016c
इत्येवं चिन्तयामास महर्षिरसितस्तदा 09049017a
स्नात्वा समुद्रे विधिवच्छुचिर्जप्यं जजाप ह 09049017c
कृतजप्याह्निकः श्रीमानाश्रमं च जगाम ह 09049018a
कलशं जलपूर्णं वै गृहीत्वा जनमेजय 09049018c
ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः 09049019a
आसीनमाश्रमे तत्र जैगीषव्यमपश्यत 09049019c
न व्याहरति चैवैनं जैगीषव्यः कथञ्चन 09049020a
काष्ठभूतोऽऽश्रमपदे वसति स्म महातपाः 09049020c
तं दृष्ट्वा चाप्लुतं तोये सागरे सागरोपमम् 09049021a
प्रविष्टमाश्रमं चापि पूर्वमेव ददर्श सः 09049021c
असितो देवलो राजंश्चिन्तयामास बुद्धिमान् 09049022a
दृष्टः प्रभावं तपसो जैगीषव्यस्य योगजम् 09049022c
चिन्तयामास राजेन्द्र तदा स मुनिसत्तमः 09049023a
मया दृष्टः समुद्रे च आश्रमे च कथं त्वयम् 09049023c
एवं विगणयन्नेव स मुनिर्मन्त्रपारगः 09049024a
उत्पपाताश्रमात्तस्मादन्तरिक्षं विशां पते 09049024c
जिज्ञासार्थं तदा भिक्षोर्जैगीषव्यस्य देवलः 09049024e
सोऽन्तरिक्षचरान्सिद्धान्समपश्यत्समाहितान् 09049025a
जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत 09049025c
ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतः 09049026a
अपश्यद्वै दिवं यान्तं जैगीषव्यं स देवलः 09049026c
तस्माच्च पितृलोकं तं व्रजन्तं सोऽन्वपश्यत 09049027a
पितृलोकाच्च तं यान्तं याम्यं लोकमपश्यत 09049027c
तस्मादपि समुत्पत्य सोमलोकमभिष्टुतम् 09049028a
व्रजन्तमन्वपश्यत्स जैगीषव्यं महामुनिम् 09049028c
लोकान्समुत्पतन्तं च शुभानेकान्तयाजिनाम् 09049029a
ततोऽग्निहोत्रिणां लोकांस्तेभ्यश्चाप्युत्पपात ह 09049029c
दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः 09049030a
तेभ्यः स ददृशे धीमाल्ँलोकेभ्यः पशुयाजिनाम् 09049030c
व्रजन्तं लोकममलमपश्यद्देवपूजितम् 09049030e
चातुर्मास्यैर्बहुविधैर्यजन्ते ये तपोधनाः 09049031a
तेषां स्थानं तथा यान्तं तथाग्निष्टोमयाजिनाम् 09049031c
अग्निष्टुतेन च तथा ये यजन्ति तपोधनाः 09049032a
तत्स्थानमनुसम्प्राप्तमन्वपश्यत देवलः 09049032c
वाजपेयं क्रतुवरं तथा बहुसुवर्णकम् 09049033a
आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत 09049033c
यजन्ते पुण्डरीकेण राजसूयेन चैव ये 09049034a
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः 09049034c
अश्वमेधं क्रतुवरं नरमेधं तथैव च 09049035a
आहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत 09049035c
सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये 09049036a
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः 09049036c
द्वादशाहैश्च सत्रैर्ये यजन्ते विविधैर्नृप 09049037a
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः 09049037c
मित्रावरुणयोर्लोकानादित्यानां तथैव च 09049038a
सलोकतामनुप्राप्तमपश्यत ततोऽसितः 09049038c
रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेः 09049039a
तानि सर्वाण्यतीतं च समपश्यत्ततोऽसितः 09049039c
आरुह्य च गवां लोकं प्रयान्तं ब्रह्मसत्रिणाम् 09049040a
लोकानपश्यद्गच्छन्तं जैगीषव्यं ततोऽसितः 09049040c
त्रील्ँलोकानपरान्विप्रमुत्पतन्तं स्वतेजसा 09049041a
पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत 09049041c
ततो मुनिवरं भूयो जैगीषव्यमथासितः 09049042a
नान्वपश्यत योगस्थमन्तर्हितमरिन्दम 09049042c
सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलः 09049043a
प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम् 09049043c
असितोऽपृच्छत तदा सिद्धाल्ँलोकेषु सत्तमान् 09049044a
प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान्ब्रह्मसत्रिणः 09049044c
जैगीषव्यं न पश्यामि तं शंसत महौजसम् 09049045a
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे 09049045c
सिद्धा ऊचुः 09049046
शृणु देवल भूतार्थं शंसतां नो दृढव्रत 09049046a
जैगीषव्यो गतो लोकं शाश्वतं ब्रह्मणोऽव्ययम् 09049046c
स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मसत्रिणाम् 09049047a
असितो देवलस्तूर्णमुत्पपात पपात च 09049047c
ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव ह 09049048a
न देवल गतिस्तत्र तव गन्तुं तपोधन 09049048c
ब्रह्मणः सदनं विप्र जैगीषव्यो यदाप्तवान् 09049048e
तेषां तद्वचनं श्रुत्वा सिद्धानां देवलः पुनः 09049049a
आनुपूर्व्येण लोकांस्तान्सर्वानवततार ह 09049049c
स्वमाश्रमपदं पुण्यमाजगाम पतङ्गवत् 09049050a
प्रविशन्नेव चापश्यज्जैगीषव्यं स देवलः 09049050c
ततो बुद्ध्या व्यगणयद्देवलो धर्मयुक्तया 09049051a
दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम् 09049051c
ततोऽब्रवीन्महात्मानं जैगीषव्यं स देवलः 09049052a
विनयावनतो राजन्नुपसर्प्य महामुनिम् 09049052c
मोक्षधर्मं समास्थातुमिच्छेयं भगवन्नहम् 09049052e
तस्य तद्वचनं श्रुत्वा उपदेशं चकार सः 09049053a
विधिं च योगस्य परं कार्याकार्यं च शास्त्रतः 09049053c
सन्न्यासकृतबुद्धिं तं ततो दृष्ट्वा महातपाः 09049054a
सर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा 09049054c
सन्न्यासकृतबुद्धिं तं भूतानि पितृभिः सह 09049055a
ततो दृष्ट्वा प्ररुरुदुः कोऽस्मान्संविभजिष्यति 09049055c
देवलस्तु वचः श्रुत्वा भूतानां करुणं तथा 09049056a
दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे 09049056c
ततस्तु फलमूलानि पवित्राणि च भारत 09049057a
पुष्पाण्योषधयश्चैव रोरूयन्ते सहस्रशः 09049057c
पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः 09049058a
अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते 09049058c
ततो भूयो व्यगणयत्स्वबुद्ध्या मुनिसत्तमः 09049059a
मोक्षे गार्हस्थ्यधर्मे वा किं नु श्रेयस्करं भवेत् 09049059c
इति निश्चित्य मनसा देवलो राजसत्तम 09049060a
त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्ममरोचयत् 09049060c
एवमादीनि सञ्चिन्त्य देवलो निश्चयात्ततः 09049061a
प्राप्तवान्परमां सिद्धिं परं योगं च भारत 09049061c
ततो देवाः समागम्य बृहस्पतिपुरोगमाः 09049062a
जैगीषव्यं तपश्चास्य प्रशंसन्ति तपस्विनः 09049062c
अथाब्रवीदृषिवरो देवान्वै नारदस्तदा 09049063a
जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम् 09049063c
तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसः 09049064a
मैवमित्येव शंसन्तो जैगीषव्यं महामुनिम् 09049064c
तत्राप्युपस्पृश्य ततो महात्मा दत्त्वा च वित्तं हलभृद्द्विजेभ्यः 09049065a
अवाप्य धर्मं परमार्यकर्मा जगाम सोमस्य महत्स तीर्थम् 09049065c