वैशम्पायन उवाच 09048001
इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बली 09048001a
विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि 09048001c
तत्र ह्यमरराजोऽसावीजे क्रतुशतेन ह 09048002a
बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम् 09048002c
निरर्गलान्सजारूथ्यान्सर्वान्विविधदक्षिणान् 09048003a
आजहार क्रतूंस्तत्र यथोक्तान्वेदपारगैः 09048003c
तान्क्रतून्भरतश्रेष्ठ शतकृत्वो महाद्युतिः 09048004a
पूरयामास विधिवत्ततः ख्यातः शतक्रतुः 09048004c
तस्य नाम्ना च तत्तीर्थं शिवं पुण्यं सनातनम् 09048005a
इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम् 09048005c
उपस्पृश्य च तत्रापि विधिवन्मुसलायुधः 09048006a
ब्राह्मणान्पूजयित्वा च पानाच्छादनभोजनैः 09048006c
शुभं तीर्थवरं तस्माद्रामतीर्थं जगाम ह 09048006e
यत्र रामो महाभागो भार्गवः सुमहातपाः 09048007a
असकृत्पृथिवीं सर्वां हतक्षत्रियपुङ्गवाम् 09048007c
उपाध्यायं पुरस्कृत्य कश्यपं मुनिसत्तमम् 09048008a
अयजद्वाजपेयेन सोऽश्वमेधशतेन च 09048008c
प्रददौ दक्षिणार्थं च पृथिवीं वै ससागराम् 09048008e
रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय 09048009a
उपस्पृश्य यथान्यायं पूजयित्वा तथा द्विजान् 09048009c
पुण्ये तीर्थे शुभे देशे वसु दत्त्वा शुभाननः 09048010a
मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत् 09048010c
यत्रानयामास तदा राजसूयं महीपते 09048011a
पुत्रोऽदितेर्महाभागो वरुणो वै सितप्रभः 09048011c
तत्र निर्जित्य सङ्ग्रामे मानुषान्दैवतांस्तथा 09048012a
वरं क्रतुं समाजह्रे वरुणः परवीरहा 09048012c
तस्मिन्क्रतुवरे वृत्ते सङ्ग्रामः समजायत 09048013a
देवानां दानवानां च त्रैलोक्यस्य क्षयावहः 09048013c
राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय 09048014a
जायते सुमहाघोरः सङ्ग्रामः क्षत्रियान्प्रति 09048014c
सीरायुधस्तदा रामस्तस्मिंस्तीर्थवरे तदा 09048015a
तत्र स्नात्वा च दत्त्वा च द्विजेभ्यो वसु माधवः 09048015c
वनमाली ततो हृष्टः स्तूयमानो द्विजातिभिः 09048016a
तस्मादादित्यतीर्थं च जगाम कमलेक्षणः 09048016c
यत्रेष्ट्वा भगवाञ्ज्योतिर्भास्करो राजसत्तम 09048017a
ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत 09048017c
तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः 09048018a
विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह 09048018c
द्वैपायनः शुकश्चैव कृष्णश्च मधुसूदनः 09048019a
यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशां पते 09048019c
एते चान्ये च बहवो योगसिद्धाः सहस्रशः 09048020a
तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परन्तप 09048020c
तत्र हत्वा पुरा विष्णुरसुरौ मधुकैटभौ 09048021a
आप्लुतो भरतश्रेष्ठ तीर्थप्रवर उत्तमे 09048021c
द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत 09048022a
सम्प्राप्तः परमं योगं सिद्धिं च परमां गतः 09048022c
असितो देवलश्चैव तस्मिन्नेव महातपाः 09048023a
परमं योगमास्थाय ऋषिर्योगमवाप्तवान् 09048023c