वैशम्पायन उवाच 09047001
ततस्तीर्थवरं रामो ययौ बदरपाचनम् 09047001a
तपस्विसिद्धचरितं यत्र कन्या धृतव्रता 09047001c
भरद्वाजस्य दुहिता रूपेणाप्रतिमा भुवि 09047002a
स्रुचावती नाम विभो कुमारी ब्रह्मचारिणी 09047002c
तपश्चचार सात्युग्रं नियमैर्बहुभिर्नृप 09047003a
भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी 09047003c
समास्तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह 09047004a
चरन्त्या नियमांस्तांस्तान्स्त्रीभिस्तीव्रान्सुदुश्चरान् 09047004c
तस्यास्तु तेन वृत्तेन तपसा च विशां पते 09047005a
भक्त्या च भगवान्प्रीतः परया पाकशासनः 09047005c
आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः 09047006a
आस्थाय रूपं विप्रर्षेर्वसिष्ठस्य महात्मनः 09047006c
सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम् 09047007a
आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत 09047007c
उवाच नियमज्ञा च कल्याणी सा प्रियंवदा 09047008a
भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो 09047008c
सर्वमद्य यथाशक्ति तव दास्यामि सुव्रत 09047009a
शक्रभक्त्या तु ते पाणिं न दास्यामि कथञ्चन 09047009c
व्रतैश्च नियमैश्चैव तपसा च तपोधन 09047010a
शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः 09047010c
इत्युक्तो भगवान्देवः स्मयन्निव निरीक्ष्य ताम् 09047011a
उवाच नियमज्ञां तां सान्त्वयन्निव भारत 09047011c
उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते 09047012a
यदर्थमयमारम्भस्तव कल्याणि हृद्गतः 09047012c
तच्च सर्वं यथाभूतं भविष्यति वरानने 09047013a
तपसा लभ्यते सर्वं सर्वं तपसि तिष्ठति 09047013c
यानि स्थानानि दिव्यानि विबुधानां शुभानने 09047014a
तपसा तानि प्राप्यानि तपोमूलं महत्सुखम् 09047014c
इह कृत्वा तपो घोरं देहं सन्न्यस्य मानवाः 09047015a
देवत्वं यान्ति कल्याणि शृणु चेदं वचो मम 09047015c
पचस्वैतानि सुभगे बदराणि शुभव्रते 09047016a
पचेत्युक्त्वा स भगवाञ्जगाम बलसूदनः 09047016c
आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः 09047017a
अविदूरे ततस्तस्मादाश्रमात्तीर्थ उत्तमे 09047017c
इन्द्रतीर्थे महाराज त्रिषु लोकेषु विश्रुते 09047017e
तस्या जिज्ञासनार्थं स भगवान्पाकशासनः 09047018a
बदराणामपचनं चकार विबुधाधिपः 09047018c
ततः स प्रयता राजन्वाग्यता विगतक्लमा 09047019a
तत्परा शुचिसंवीता पावके समधिश्रयत् 09047019c
अपचद्राजशार्दूल बदराणि महाव्रता 09047019e
तस्याः पचन्त्याः सुमहान्कालोऽगात्पुरुषर्षभ 09047020a
न च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात् 09047020c
हुताशनेन दग्धश्च यस्तस्याः काष्ठसञ्चयः 09047021a
अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत् 09047021c
पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना 09047022a
दग्धौ दग्धौ पुनः पादावुपावर्तयतानघा 09047022c
चरणौ दह्यमानौ च नाचिन्तयदनिन्दिता 09047023a
दुःखं कमलपत्राक्षी महर्षेः प्रियकाम्यया 09047023c
अथ तत्कर्म दृष्ट्वास्याः प्रीतस्त्रिभुवनेश्वरः 09047024a
ततः सन्दर्शयामास कन्यायै रूपमात्मनः 09047024c
उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम् 09047025a
प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च 09047025c
तस्माद्योऽभिमतः कामः स ते सम्पत्स्यते शुभे 09047026a
देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि 09047026c
इदं च ते तीर्थवरं स्थिरं लोके भविष्यति 09047027a
सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम् 09047027c
विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम् 09047027e
अस्मिन्खलु महाभागे शुभे तीर्थवरे पुरा 09047028a
त्यक्त्वा सप्तर्षयो जग्मुर्हिमवन्तमरुन्धतीम् 09047028c
ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः 09047029a
वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल 09047029c
तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने 09047030a
अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी 09047030c
ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः 09047031a
अरुन्धत्यपि कल्याणी तपोनित्याभवत्तदा 09047031c
अरुन्धतीं ततो दृष्ट्वा तीव्रं नियममास्थिताम् 09047032a
अथागमत्त्रिनयनः सुप्रीतो वरदस्तदा 09047032c
ब्राह्मं रूपं ततः कृत्वा महादेवो महायशाः 09047033a
तामभ्येत्याब्रवीद्देवो भिक्षामिच्छाम्यहं शुभे 09047033c
प्रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना 09047034a
क्षीणोऽन्नसञ्चयो विप्र बदराणीह भक्षय 09047034c
ततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते 09047034e
इत्युक्ता सापचत्तानि ब्राह्मणप्रियकाम्यया 09047035a
अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी 09047035c
दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा 09047036a
अतीता सा त्वनावृष्टिर्घोरा द्वादशवार्षिकी 09047036c
अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः 09047037a
अहःसमः स तस्यास्तु कालोऽतीतः सुदारुणः 09047037c
ततस्ते मुनयः प्राप्ताः फलान्यादाय पर्वतात् 09047038a
ततः स भगवान्प्रीतः प्रोवाचारुन्धतीं तदा 09047038c
उपसर्पस्व धर्मज्ञे यथापूर्वमिमानृषीन् 09047039a
प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन च 09047039c
ततः सन्दर्शयामास स्वरूपं भगवान्हरः 09047040a
ततोऽब्रवीत्तदा तेभ्यस्तस्यास्तच्चरितं महत् 09047040c
भवद्भिर्हिमवत्पृष्ठे यत्तपः समुपार्जितम् 09047041a
अस्याश्च यत्तपो विप्रा न समं तन्मतं मम 09047041c
अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम् 09047042a
अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः 09047042c
ततः प्रोवाच भगवांस्तामेवारुन्धतीं पुनः 09047043a
वरं वृणीष्व कल्याणि यत्तेऽभिलषितं हृदि 09047043c
साब्रवीत्पृथुताम्राक्षी देवं सप्तर्षिसंसदि 09047044a
भगवान्यदि मे प्रीतस्तीर्थं स्यादिदमुत्तमम् 09047044c
सिद्धदेवर्षिदयितं नाम्ना बदरपाचनम् 09047044e
तथास्मिन्देवदेवेश त्रिरात्रमुषितः शुचिः 09047045a
प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम् 09047045c
एवमस्त्विति तां चोक्त्वा हरो यातस्तदा दिवम् 09047045e
ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम् 09047046a
अश्रान्तां चाविवर्णां च क्षुत्पिपासासहां सतीम् 09047046c
एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया 09047047a
यथा त्वया महाभागे मदर्थं संशितव्रते 09047047c
विशेषो हि त्वया भद्रे व्रते ह्यस्मिन्समर्पितः 09047048a
तथा चेदं ददाम्यद्य नियमेन सुतोषितः 09047048c
विशेषं तव कल्याणि प्रयच्छामि वरं वरे 09047049a
अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना 09047049c
तस्य चाहं प्रसादेन तव कल्याणि तेजसा 09047050a
प्रवक्ष्याम्यपरं भूयो वरमत्र यथाविधि 09047050c
यस्त्वेकां रजनीं तीर्थे वत्स्यते सुसमाहितः 09047051a
स स्नात्वा प्राप्स्यते लोकान्देहन्यासाच्च दुर्लभान् 09047051c
इत्युक्त्वा भगवान्देवः सहस्राक्षः प्रतापवान् 09047052a
स्रुचावतीं ततः पुण्यां जगाम त्रिदिवं पुनः 09047052c
गते वज्रधरे राजंस्तत्र वर्षं पपात ह 09047053a
पुष्पाणां भरतश्रेष्ठ दिव्यानां दिव्यगन्धिनाम् 09047053c
नेदुर्दुन्दुभयश्चापि समन्तात्सुमहास्वनाः 09047054a
मारुतश्च ववौ युक्त्या पुण्यगन्धो विशां पते 09047054c
उत्सृज्य तु शुभं देहं जगामेन्द्रस्य भार्यताम् 09047055a
तपसोग्रेण सा लब्ध्वा तेन रेमे सहाच्युत 09047055c
जनमेजय उवाच 09047056
का तस्या भगवन्माता क्व संवृद्धा च शोभना 09047056a
श्रोतुमिच्छाम्यहं ब्रह्मन्परं कौतूहलं हि मे 09047056c
वैशम्पायन उवाच 09047057
भारद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः 09047057a
दृष्ट्वाप्सरसमायान्तीं घृताचीं पृथुलोचनाम् 09047057c
स तु जग्राह तद्रेतः करेण जपतां वरः 09047058a
तदावपत्पर्णपुटे तत्र सा सम्भवच्छुभा 09047058c
तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः 09047059a
नाम चास्याः स कृतवान्भारद्वाजो महामुनिः 09047059c
स्रुचावतीति धर्मात्मा तदर्षिगणसंसदि 09047060a
स च तामाश्रमे न्यस्य जगाम हिमवद्वनम् 09047060c
तत्राप्युपस्पृश्य महानुभावो वसूनि दत्त्वा च महाद्विजेभ्यः 09047061a
जगाम तीर्थं सुसमाहितात्मा शक्रस्य वृष्णिप्रवरस्तदानीम् 09047061c