जनमेजय उवाच 09046001
अत्यद्भुतमिदं ब्रह्मञ्श्रुतवानस्मि तत्त्वतः 09046001a
अभिषेकं कुमारस्य विस्तरेण यथाविधि 09046001c
यच्छ्रुत्वा पूतमात्मानं विजानामि तपोधन 09046002a
प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम 09046002c
अभिषेकं कुमारस्य दैत्यानां च वधं तथा 09046003a
श्रुत्वा मे परमा प्रीतिर्भूयः कौतूहलं हि मे 09046003c
अपां पतिः कथं ह्यस्मिन्नभिषिक्तः सुरासुरैः 09046004a
तन्मे ब्रूहि महाप्राज्ञ कुशलो ह्यसि सत्तम 09046004c
वैशम्पायन उवाच 09046005
शृणु राजन्निदं चित्रं पूर्वकल्पे यथातथम् 09046005a
आदौ कृतयुगे तस्मिन्वर्तमाने यथाविधि 09046005c
वरुणं देवताः सर्वाः समेत्येदमथाब्रुवन् 09046005e
यथास्मान्सुरराट्शक्रो भयेभ्यः पाति सर्वदा 09046006a
तथा त्वमपि सर्वासां सरितां वै पतिर्भव 09046006c
वासश्च ते सदा देव सागरे मकरालये 09046007a
समुद्रोऽयं तव वशे भविष्यति नदीपतिः 09046007c
सोमेन सार्धं च तव हानिवृद्धी भविष्यतः 09046008a
एवमस्त्विति तान्देवान्वरुणो वाक्यमब्रवीत् 09046008c
समागम्य ततः सर्वे वरुणं सागरालयम् 09046009a
अपां पतिं प्रचक्रुर्हि विधिदृष्टेन कर्मणा 09046009c
अभिषिच्य ततो देवा वरुणं यादसां पतिम् 09046010a
जग्मुः स्वान्येव स्थानानि पूजयित्वा जलेश्वरम् 09046010c
अभिषिक्तस्ततो देवैर्वरुणोऽपि महायशाः 09046011a
सरितः सागरांश्चैव नदांश्चैव सरांसि च 09046011c
पालयामास विधिना यथा देवाञ्शतक्रतुः 09046011e
ततस्तत्राप्युपस्पृश्य दत्त्वा च विविधं वसु 09046012a
अग्नितीर्थं महाप्राज्ञः स जगाम प्रलम्बहा 09046012c
नष्टो न दृश्यते यत्र शमीगर्भे हुताशनः 09046012e
लोकालोकविनाशे च प्रादुर्भूते तदानघ 09046013a
उपतस्थुर्महात्मानं सर्वलोकपितामहम् 09046013c
अग्निः प्रनष्टो भगवान्कारणं च न विद्महे 09046014a
सर्वलोकक्षयो मा भूत्सम्पादयतु नोऽनलम् 09046014c
जनमेजय उवाच 09046015
किमर्थं भगवानग्निः प्रनष्टो लोकभावनः 09046015a
विज्ञातश्च कथं देवैस्तन्ममाचक्ष्व तत्त्वतः 09046015c
वैशम्पायन उवाच 09046016
भृगोः शापाद्भृशं भीतो जातवेदाः प्रतापवान् 09046016a
शमीगर्भमथासाद्य ननाश भगवांस्ततः 09046016c
प्रनष्टे तु तदा वह्नौ देवाः सर्वे सवासवाः 09046017a
अन्वेषन्त तदा नष्टं ज्वलनं भृशदुःखिताः 09046017c
ततोऽग्नितीर्थमासाद्य शमीगर्भस्थमेव हि 09046018a
ददृशुर्ज्वलनं तत्र वसमानं यथाविधि 09046018c
देवाः सर्वे नरव्याघ्र बृहस्पतिपुरोगमाः 09046019a
ज्वलनं तं समासाद्य प्रीताभूवन्सवासवाः 09046019c
पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत् 09046019e
भृगोः शापान्महीपाल यदुक्तं ब्रह्मवादिना 09046020a
तत्राप्याप्लुत्य मतिमान्ब्रह्मयोनिं जगाम ह 09046020c
ससर्ज भगवान्यत्र सर्वलोकपितामहः 09046021a
तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा 09046021c
ससर्ज चान्नानि तथा देवतानां यथाविधि 09046021e
तत्र स्नात्वा च दत्त्वा च वसूनि विविधानि च 09046022a
कौबेरं प्रययौ तीर्थं तत्र तप्त्वा महत्तपः 09046022c
धनाधिपत्यं सम्प्राप्तो राजन्नैलबिलः प्रभुः 09046022e
तत्रस्थमेव तं राजन्धनानि निधयस्तथा 09046023a
उपतस्थुर्नरश्रेष्ठ तत्तीर्थं लाङ्गली ततः 09046023c
गत्वा स्नात्वा च विधिवद्ब्राह्मणेभ्यो धनं ददौ 09046023e
ददृशे तत्र तत्स्थानं कौबेरे काननोत्तमे 09046024a
पुरा यत्र तपस्तप्तं विपुलं सुमहात्मना 09046024c
यत्र राज्ञा कुबेरेण वरा लब्धाश्च पुष्कलाः 09046025a
धनाधिपत्यं सख्यं च रुद्रेणामिततेजसा 09046025c
सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम् 09046026a
यत्र लेभे महाबाहो धनाधिपतिरञ्जसा 09046026c
अभिषिक्तश्च तत्रैव समागम्य मरुद्गणैः 09046027a
वाहनं चास्य तद्दत्तं हंसयुक्तं मनोरमम् 09046027c
विमानं पुष्पकं दिव्यं नैरृतैश्वर्यमेव च 09046027e
तत्राप्लुत्य बलो राजन्दत्त्वा दायांश्च पुष्कलान् 09046028a
जगाम त्वरितो रामस्तीर्थं श्वेतानुलेपनः 09046028c
निषेवितं सर्वसत्त्वैर्नाम्ना बदरपाचनम् 09046029a
नानर्तुकवनोपेतं सदापुष्पफलं शुभम् 09046029c