वैशम्पायन उवाच 001
शृणु मातृगणान्राजन्कुमारानुचरानिमान् 001a
कीर्त्यमानान्मया वीर सपत्नगणसूदनान् 001c
यशस्विनीनां मातॄणां शृणु नामानि भारत 002a
याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिश्चराचराः 002c
प्रभावती विशालाक्षी पलिता गोनसी तथा 003a
श्रीमती बहुला चैव तथैव बहुपुत्रिका 003c
अप्सुजाता च गोपाली बृहदम्बालिका तथा 004a
जयावती मालतिका ध्रुवरत्ना भयङ्करी 004c
वसुदामा सुदामा च विशोका नन्दिनी तथा 005a
एकचूडा महाचूडा चक्रनेमिश्च भारत 005c
उत्तेजनी जयत्सेना कमलाक्ष्यथ शोभना 006a
शत्रुञ्जया तथा चैव क्रोधना शलभी खरी 006c
माधवी शुभवक्त्रा च तीर्थनेमिश्च भारत 007a
गीतप्रिया च कल्याणी कद्रुला चामिताशना 007c
मेघस्वना भोगवती सुभ्रूश्च कनकावती 008a
अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत 008c
पद्मावती सुनक्षत्रा कन्दरा बहुयोजना 009a
सन्तानिका च कौरव्य कमला च महाबला 009c
सुदामा बहुदामा च सुप्रभा च यशस्विनी 010a
नृत्यप्रिया च राजेन्द्र शतोलूखलमेखला 010c
शतघण्टा शतानन्दा भगनन्दा च भामिनी 011a
वपुष्मती चन्द्रशीता भद्रकाली च भारत 011c
सङ्कारिका निष्कुटिका भ्रमा चत्वरवासिनी 012a
सुमङ्गला स्वस्तिमती वृद्धिकामा जयप्रिया 012c
धनदा सुप्रसादा च भवदा च जलेश्वरी 013a
एडी भेडी समेडी च वेतालजननी तथा 013c
कण्डूतिः कालिका चैव देवमित्रा च भारत 013e
लम्बसी केतकी चैव चित्रसेना तथा बला 014a
कुक्कुटिका शङ्खनिका तथा जर्जरिका नृप 014c
कुण्डारिका कोकलिका कण्डरा च शतोदरी 015a
उत्क्राथिनी जरेणा च महावेगा च कङ्कणा 015c
मनोजवा कण्टकिनी प्रघसा पूतना तथा 016a
खशया चुर्व्युटिर्वामा क्रोशनाथ तडित्प्रभा 016c
मण्डोदरी च तुण्डा च कोटरा मेघवासिनी 017a
सुभगा लम्बिनी लम्बा वसुचूडा विकत्थनी 017c
ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी लोहमेखला 018a
पृथुवक्त्रा मधुरिका मधुकुम्भा तथैव च 018c
पक्षालिका मन्थनिका जरायुर्जर्जरानना 019a
ख्याता दहदहा चैव तथा धमधमा नृप 019c
खण्डखण्डा च राजेन्द्र पूषणा मणिकुण्डला 020a
अमोचा चैव कौरव्य तथा लम्बपयोधरा 020c
वेणुवीणाधरा चैव पिङ्गाक्षी लोहमेखला 021a
शशोलूकमुखी कृष्णा खरजङ्घा महाजवा 021c
शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा 022a
जटालिका कामचरी दीर्घजिह्वा बलोत्कटा 022c
कालेडिका वामनिका मुकुटा चैव भारत 023a
लोहिताक्षी महाकाया हरिपिण्डी च भूमिप 023c
एकाक्षरा सुकुसुमा कृष्णकर्णी च भारत 024a
क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा 024c
चतुष्पथनिकेता च गोकर्णी महिषानना 025a
खरकर्णी महाकर्णी भेरीस्वनमहास्वना 025c
शङ्खकुम्भस्वना चैव भङ्गदा च महाबला 026a
गणा च सुगणा चैव तथाभीत्यथ कामदा 026c
चतुष्पथरता चैव भूतितीर्थान्यगोचरा 027a
पशुदा वित्तदा चैव सुखदा च महायशाः 027c
पयोदा गोमहिषदा सुविषाणा च भारत 027e
प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुरोचना 028a
गोकर्णी च सुकर्णी च ससिरा स्थेरिका तथा 028c
एकचक्रा मेघरवा मेघमाला विरोचना 028e
एताश्चान्याश्च बहवो मातरो भरतर्षभ 029a
कार्त्तिकेयानुयायिन्यो नानारूपाः सहस्रशः 029c
दीर्घनख्यो दीर्घदन्त्यो दीर्घतुण्ड्यश्च भारत 030a
सरला मधुराश्चैव यौवनस्थाः स्वलङ्कृताः 030c
माहात्म्येन च संयुक्ताः कामरूपधरास्तथा 031a
निर्मांसगात्र्यः श्वेताश्च तथा काञ्चनसन्निभाः 031c
कृष्णमेघनिभाश्चान्या धूम्राश्च भरतर्षभ 032a
अरुणाभा महाभागा दीर्घकेश्यः सिताम्बराः 032c
ऊर्ध्ववेणीधराश्चैव पिङ्गाक्ष्यो लम्बमेखलाः 033a
लम्बोदर्यो लम्बकर्णास्तथा लम्बपयोधराः 033c
ताम्राक्ष्यस्ताम्रवर्णाश्च हर्यक्ष्यश्च तथापराः 034a
वरदाः कामचारिण्यो नित्यप्रमुदितास्तथा 034c
याम्यो रौद्र्यस्तथा सौम्याः कौबेर्योऽथ महाबलाः 035a
वारुण्योऽथ च माहेन्द्र्यस्तथाग्नेय्यः परन्तप 035c
वायव्यश्चाथ कौमार्यो ब्राह्म्यश्च भरतर्षभ 036a
रूपेणाप्सरसां तुल्या जवे वायुसमास्तथा 036c
परपुष्टोपमा वाक्ये तथर्द्ध्या धनदोपमाः 037a
शक्रवीर्योपमाश्चैव दीप्त्या वह्निसमास्तथा 037c
वृक्षचत्वरवासिन्यश्चतुष्पथनिकेतनाः 038a
गुहाश्मशानवासिन्यः शैलप्रस्रवणालयाः 038c
नानाभरणधारिण्यो नानामाल्याम्बरास्तथा 039a
नानाविचित्रवेषाश्च नानाभाषास्तथैव च 039c
एते चान्ये च बहवो गणाः शत्रुभयङ्कराः 040a
अनुजग्मुर्महात्मानं त्रिदशेन्द्रस्य सम्मते 040c
ततः शक्त्यस्त्रमददद्भगवान्पाकशासनः 041a
गुहाय राजशार्दूल विनाशाय सुरद्विषाम् 041c
महास्वनां महाघण्टां द्योतमानां सितप्रभाम् 042a
तरुणादित्यवर्णां च पताकां भरतर्षभ 042c
ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम् 043a
उग्रां नानाप्रहरणां तपोवीर्यबलान्विताम् 043c
विष्णुर्ददौ वैजयन्तीं मालां बलविवर्धिनीम् 044a
उमा ददौ चारजसी वाससी सूर्यसप्रभे 044c
गङ्गा कमण्डलुं दिव्यममृतोद्भवमुत्तमम् 045a
ददौ प्रीत्या कुमाराय दण्डं चैव बृहस्पतिः 045c
गरुडो दयितं पुत्रं मयूरं चित्रबर्हिणम् 046a
अरुणस्ताम्रचूडं च प्रददौ चरणायुधम् 046c
पाशं तु वरुणो राजा बलवीर्यसमन्वितम् 047a
कृष्णाजिनं तथा ब्रह्मा ब्रह्मण्याय ददौ प्रभुः 047c
समरेषु जयं चैव प्रददौ लोकभावनः 047e
सेनापत्यमनुप्राप्य स्कन्दो देवगणस्य ह 048a
शुशुभे ज्वलितोऽर्चिष्मान्द्वितीय इव पावकः 048c
ततः पारिषदैश्चैव मातृभिश्च समन्वितः 048e
सा सेना नैरृती भीमा सघण्टोच्छ्रितकेतना 049a
सभेरीशङ्खमुरजा सायुधा सपताकिनी 049c
शारदी द्यौरिवाभाति ज्योतिर्भिरुपशोभिता 049e
ततो देवनिकायास्ते भूतसेनागणास्तथा 050a
वादयामासुरव्यग्रा भेरीशङ्खांश्च पुष्कलान् 050c
पटहाञ्झर्झरांश्चैव कृकचान्गोविषाणिकान् 051a
आडम्बरान्गोमुखांश्च डिण्डिमांश्च महास्वनान् 051c
तुष्टुवुस्ते कुमारं च सर्वे देवाः सवासवाः 052a
जगुश्च देवगन्धर्वा ननृतुश्चाप्सरोगणाः 052c
ततः प्रीतो महासेनस्त्रिदशेभ्यो वरं ददौ 053a
रिपून्हन्तास्मि समरे ये वो वधचिकीर्षवः 053c
प्रतिगृह्य वरं देवास्तस्माद्विबुधसत्तमात् 054a
प्रीतात्मानो महात्मानो मेनिरे निहतान्रिपून् 054c
सर्वेषां भूतसङ्घानां हर्षान्नादः समुत्थितः 055a
अपूरयत लोकांस्त्रीन्वरे दत्ते महात्मना 055c
स निर्ययौ महासेनो महत्या सेनया वृतः 056a
वधाय युधि दैत्यानां रक्षार्थं च दिवौकसाम् 056c
व्यवसायो जयो धर्मः सिद्धिर्लक्ष्मीर्धृतिः स्मृतिः 057a
महासेनस्य सैन्यानामग्रे जग्मुर्नराधिप 057c
स तया भीमया देवः शूलमुद्गरहस्तया 058a
गदामुसलनाराचशक्तितोमरहस्तया 058c
दृप्तसिंहनिनादिन्या विनद्य प्रययौ गुहः 058e
तं दृष्ट्वा सर्वदैतेया राक्षसा दानवास्तथा 059a
व्यद्रवन्त दिशः सर्वा भयोद्विग्नाः समन्ततः 059c
अभ्यद्रवन्त देवास्तान्विविधायुधपाणयः 059e
दृष्ट्वा च स ततः क्रुद्धः स्कन्दस्तेजोबलान्वितः 060a
शक्त्यस्त्रं भगवान्भीमं पुनः पुनरवासृजत् 060c
आदधच्चात्मनस्तेजो हविषेद्ध इवानलः 060e
अभ्यस्यमाने शक्त्यस्त्रे स्कन्देनामिततेजसा 061a
उल्काज्वाला महाराज पपात वसुधातले 061c
संह्रादयन्तश्च तथा निर्घाताश्चापतन्क्षितौ 062a
यथान्तकालसमये सुघोराः स्युस्तथा नृप 062c
क्षिप्ता ह्येका तथा शक्तिः सुघोरानलसूनुना 063a
ततः कोट्यो विनिष्पेतुः शक्तीनां भरतर्षभ 063c
स शक्त्यस्त्रेण सङ्ग्रामे जघान भगवान्प्रभुः 064a
दैत्येन्द्रं तारकं नाम महाबलपराक्रमम् 064c
वृतं दैत्यायुतैर्वीरैर्बलिभिर्दशभिर्नृप 064e
महिषं चाष्टभिः पद्मैर्वृतं सङ्ख्ये निजघ्निवान् 065a
त्रिपादं चायुतशतैर्जघान दशभिर्वृतम् 065c
ह्रदोदरं निखर्वैश्च वृतं दशभिरीश्वरः 066a
जघानानुचरैः सार्धं विविधायुधपाणिभिः 066c
तत्राकुर्वन्त विपुलं नादं वध्यत्सु शत्रुषु 067a
कुमारानुचरा राजन्पूरयन्तो दिशो दश 067c
शक्त्यस्त्रस्य तु राजेन्द्र ततोऽर्चिर्भिः समन्ततः 068a
दग्धाः सहस्रशो दैत्या नादैः स्कन्दस्य चापरे 068c
पताकयावधूताश्च हताः केचित्सुरद्विषः 069a
केचिद्घण्टारवत्रस्ता निपेतुर्वसुधातले 069c
केचित्प्रहरणैश्छिन्ना विनिपेतुर्गतासवः 069e
एवं सुरद्विषोऽनेकान्बलवानाततायिनः 070a
जघान समरे वीरः कार्त्तिकेयो महाबलः 070c
बाणो नामाथ दैतेयो बलेः पुत्रो महाबलः 071a
क्रौञ्चं पर्वतमासाद्य देवसङ्घानबाधत 071c
तमभ्ययान्महासेनः सुरशत्रुमुदारधीः 072a
स कार्त्तिकेयस्य भयात्क्रौञ्चं शरणमेयिवान् 072c
ततः क्रौञ्चं महामन्युः क्रौञ्चनादनिनादितम् 073a
शक्त्या बिभेद भगवान्कार्त्तिकेयोऽग्निदत्तया 073c
सशालस्कन्धसरलं त्रस्तवानरवारणम् 074a
पुलिनत्रस्तविहगं विनिष्पतितपन्नगम् 074c
गोलाङ्गूलर्क्षसङ्घैश्च द्रवद्भिरनुनादितम् 075a
कुरङ्गगतिनिर्घोषमुद्भ्रान्तसृमराचितम् 075c
विनिष्पतद्भिः शरभैः सिंहैश्च सहसा द्रुतैः 076a
शोच्यामपि दशां प्राप्तो रराजैव स पर्वतः 076c
विद्याधराः समुत्पेतुस्तस्य शृङ्गनिवासिनः 077a
किन्नराश्च समुद्विग्नाः शक्तिपातरवोद्धताः 077c
ततो दैत्या विनिष्पेतुः शतशोऽथ सहस्रशः 078a
प्रदीप्तात्पर्वतश्रेष्ठाद्विचित्राभरणस्रजः 078c
तान्निजघ्नुरतिक्रम्य कुमारानुचरा मृधे 079a
बिभेद शक्त्या क्रौञ्चं च पावकिः परवीरहा 079c
बहुधा चैकधा चैव कृत्वात्मानं महात्मना 080a
शक्तिः क्षिप्ता रणे तस्य पाणिमेति पुनः पुनः 080c
एवम्प्रभावो भगवानतो भूयश्च पावकिः 081a
क्रौञ्चस्तेन विनिर्भिन्नो दैत्याश्च शतशो हताः 081c
ततः स भगवान्देवो निहत्य विबुधद्विषः 082a
सभाज्यमानो विबुधैः परं हर्षमवाप ह 082c
ततो दुन्दुभयो राजन्नेदुः शङ्खाश्च भारत 083a
मुमुचुर्देवयोषाश्च पुष्पवर्षमनुत्तमम् 083c
दिव्यगन्धमुपादाय ववौ पुण्यश्च मारुतः 084a
गन्धर्वास्तुष्टुवुश्चैनं यज्वानश्च महर्षयः 084c
केचिदेनं व्यवस्यन्ति पितामहसुतं प्रभुम् 085a
सनत्कुमारं सर्वेषां ब्रह्मयोनिं तमग्रजम् 085c
केचिन्महेश्वरसुतं केचित्पुत्रं विभावसोः 086a
उमायाः कृत्तिकानां च गङ्गायाश्च वदन्त्युत 086c
एकधा च द्विधा चैव चतुर्धा च महाबलम् 087a
योगिनामीश्वरं देवं शतशोऽथ सहस्रशः 087c
एतत्ते कथितं राजन्कार्त्तिकेयाभिषेचनम् 088a
शृणु चैव सरस्वत्यास्तीर्थवंशस्य पुण्यताम् 088c
बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु 089a
कुमारेण महाराज त्रिविष्टपमिवापरम् 089c
ऐश्वर्याणि च तत्रस्थो ददावीशः पृथक्पृथक् 090a
तदा नैरृतमुख्येभ्यस्त्रैलोक्ये पावकात्मजः 090c
एवं स भगवांस्तस्मिंस्तीर्थे दैत्यकुलान्तकः 091a
अभिषिक्तो महाराज देवसेनापतिः सुरैः 091c
औजसं नाम तत्तीर्थं यत्र पूर्वमपां पतिः 092a
अभिषिक्तः सुरगणैर्वरुणो भरतर्षभ 092c
तस्मिंस्तीर्थवरे स्नात्वा स्कन्दं चाभ्यर्च्य लाङ्गली 093a
ब्राह्मणेभ्यो ददौ रुक्मं वासांस्याभरणानि च 093c
उषित्वा रजनीं तत्र माधवः परवीरहा 094a
पूज्य तीर्थवरं तच्च स्पृष्ट्वा तोयं च लाङ्गली 094c
हृष्टः प्रीतमनाश्चैव ह्यभवन्माधवोत्तमः 094e
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि 095a
यथाभिषिक्तो भगवान्स्कन्दो देवैः समागतैः 095c