वैशम्पायन उवाच 001
ततोऽभिषेकसम्भारान्सर्वान्सम्भृत्य शास्त्रतः 001a
बृहस्पतिः समिद्धेऽग्नौ जुहावाज्यं यथाविधि 001c
ततो हिमवता दत्ते मणिप्रवरशोभिते 002a
दिव्यरत्नाचिते दिव्ये निषण्णः परमासने 002c
सर्वमङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम् 003a
आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः 003c
इन्द्राविष्णू महावीर्यौ सूर्याचन्द्रमसौ तथा 004a
धाता चैव विधाता च तथा चैवानिलानलौ 004c
पूष्णा भगेनार्यम्णा च अंशेन च विवस्वता 005a
रुद्रश्च सहितो धीमान्मित्रेण वरुणेन च 005c
रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः 006a
विश्वेदेवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह 006c
गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः 007a
देवर्षिभिरसङ्ख्येयैस्तथा ब्रह्मर्षिभिर्वरैः 007c
वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः 008a
भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः 008c
सर्वैर्विद्याधरैः पुण्यैर्योगसिद्धैस्तथा वृतः 008e
पितामहः पुलस्त्यश्च पुलहश्च महातपाः 009a
अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च 009c
क्रतुर्हरः प्रचेताश्च मनुर्दक्षस्तथैव च 010a
ऋतवश्च ग्रहाश्चैव ज्योतींषि च विशां पते 010c
मूर्तिमत्यश्च सरितो वेदाश्चैव सनातनाः 011a
समुद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च 011c
पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप 011e
अदितिर्देवमाता च ह्रीः श्रीः स्वाहा सरस्वती 012a
उमा शची सिनीवाली तथा चानुमतिः कुहूः 012c
राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम् 012e
हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकशृङ्गवान् 013a
ऐरावतः सानुचरः कलाः काष्ठास्तथैव च 013c
मासार्धमासा ऋतवस्तथा रात्र्यहनी नृप 013e
उच्चैःश्रवा हयश्रेष्ठो नागराजश्च वामनः 014a
अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह 014c
धर्मश्च भगवान्देवः समाजग्मुर्हि सङ्गताः 015a
कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये 015c
बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः 016a
ते कुमाराभिषेकार्थं समाजग्मुस्ततस्ततः 016c
जगृहुस्ते तदा राजन्सर्व एव दिवौकसः 017a
आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः 017c
दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैर्नृप 018a
सरस्वतीभिः पुण्याभिर्दिव्यतोयाभिरेव तु 018c
अभ्यषिञ्चन्कुमारं वै सम्प्रहृष्टा दिवौकसः 019a
सेनापतिं महात्मानमसुराणां भयावहम् 019c
पुरा यथा महाराज वरुणं वै जलेश्वरम् 020a
तथाभ्यषिञ्चद्भगवान्ब्रह्मा लोकपितामहः 020c
कश्यपश्च महातेजा ये चान्ये नानुकीर्तिताः 020e
तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः 021a
कामवीर्यधरान्सिद्धान्महापारिषदान्प्रभुः 021c
नन्दिषेणं लोहिताक्षं घण्टाकर्णं च सम्मतम् 022a
चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम् 022c
ततः स्थाणुं महावेगं महापारिषदं क्रतुम् 023a
मायाशतधरं कामं कामवीर्यबलान्वितम् 023c
ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम् 023e
स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम् 024a
जघान दोर्भ्यां सङ्क्रुद्धः प्रयुतानि चतुर्दश 024c
तथा देवा ददुस्तस्मै सेनां नैरृतसङ्कुलाम् 025a
देवशत्रुक्षयकरीमजय्यां विश्वरूपिणीम् 025c
जयशब्दं ततश्चक्रुर्देवाः सर्वे सवासवाः 026a
गन्धर्वयक्षरक्षांसि मुनयः पितरस्तथा 026c
यमः प्रादादनुचरौ यमकालोपमावुभौ 027a
उन्माथं च प्रमाथं च महावीर्यौ महाद्युती 027c
सुभ्राजो भास्करश्चैव यौ तौ सूर्यानुयायिनौ 028a
तौ सूर्यः कार्त्तिकेयाय ददौ प्रीतः प्रतापवान् 028c
कैलासशृङ्गसङ्काशौ श्वेतमाल्यानुलेपनौ 029a
सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च 029c
ज्वालाजिह्वं तथा ज्योतिरात्मजाय हुताशनः 030a
ददावनुचरौ शूरौ परसैन्यप्रमाथिनौ 030c
परिघं च वटं चैव भीमं च सुमहाबलम् 031a
दहतिं दहनं चैव प्रचण्डौ वीर्यसम्मतौ 031c
अंशोऽप्यनुचरान्पञ्च ददौ स्कन्दाय धीमते 031e
उत्क्रोशं पङ्कजं चैव वज्रदण्डधरावुभौ 032a
ददावनलपुत्राय वासवः परवीरहा 032c
तौ हि शत्रून्महेन्द्रस्य जघ्नतुः समरे बहून् 032e
चक्रं विक्रमकं चैव सङ्क्रमं च महाबलम् 033a
स्कन्दाय त्रीननुचरान्ददौ विष्णुर्महायशाः 033c
वर्धनं नन्दनं चैव सर्वविद्याविशारदौ 034a
स्कन्दाय ददतुः प्रीतावश्विनौ भरतर्षभ 034c
कुन्दनं कुसुमं चैव कुमुदं च महायशाः 035a
डम्बराडम्बरौ चैव ददौ धाता महात्मने 035c
वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलोत्कटौ 036a
ददौ त्वष्टा महामायौ स्कन्दायानुचरौ वरौ 036c
सुव्रतं सत्यसन्धं च ददौ मित्रो महात्मने 037a
कुमाराय महात्मानौ तपोविद्याधरौ प्रभुः 037c
सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ 038a
सुप्रभं च महात्मानं शुभकर्माणमेव च 038c
कार्त्तिकेयाय सम्प्रादाद्विधाता लोकविश्रुतौ 038e
पालितकं कालिकं च महामायाविनावुभौ 039a
पूषा च पार्षदौ प्रादात्कार्त्तिकेयाय भारत 039c
बलं चातिबलं चैव महावक्त्रौ महाबलौ 040a
प्रददौ कार्त्तिकेयाय वायुर्भरतसत्तम 040c
घसं चातिघसं चैव तिमिवक्त्रौ महाबलौ 041a
प्रददौ कार्त्तिकेयाय वरुणः सत्यसङ्गरः 041c
सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम् 042a
हिमवान्प्रददौ राजन्हुताशनसुताय वै 042c
काञ्चनं च महात्मानं मेघमालिनमेव च 043a
ददावनुचरौ मेरुरग्निपुत्राय भारत 043c
स्थिरं चातिस्थिरं चैव मेरुरेवापरौ ददौ 044a
महात्मनेऽग्निपुत्राय महाबलपराक्रमौ 044c
उच्छ्रितं चातिशृङ्गं च महापाषाणयोधिनौ 045a
प्रददावग्निपुत्राय विन्ध्यः पारिषदावुभौ 045c
सङ्ग्रहं विग्रहं चैव समुद्रोऽपि गदाधरौ 046a
प्रददावग्निपुत्राय महापारिषदावुभौ 046c
उन्मादं पुष्पदन्तं च शङ्कुकर्णं तथैव च 047a
प्रददावग्निपुत्राय पार्वती शुभदर्शना 047c
जयं महाजयं चैव नागौ ज्वलनसूनवे 048a
प्रददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः 048c
एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा 049a
सागराः सरितश्चैव गिरयश्च महाबलाः 049c
ददुः सेनागणाध्यक्षाञ्शूलपट्टिशधारिणः 050a
दिव्यप्रहरणोपेतान्नानावेषविभूषितान् 050c
शृणु नामानि चान्येषां येऽन्ये स्कन्दस्य सैनिकाः 051a
विविधायुधसम्पन्नाश्चित्राभरणवर्मिणः 051c
शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च 052a
अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णकौ 052c
द्रोणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलन्धमः 053a
अक्षसन्तर्जनो राजन्कुनदीकस्तमोभ्रकृत् 053c
एकाक्षो द्वादशाक्षश्च तथैवैकजटः प्रभुः 054a
सहस्रबाहुर्विकटो व्याघ्राक्षः क्षितिकम्पनः 054c
पुण्यनामा सुनामा च सुवक्त्रः प्रियदर्शनः 055a
परिश्रुतः कोकनदः प्रियमाल्यानुलेपनः 055c
अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः 056a
ज्वालाजिह्वः करालश्च सितकेशो जटी हरिः 056c
चतुर्दंष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः 057a
विद्युदक्षो धनुर्वक्त्रो जठरो मारुताशनः 057c
उदराक्षो झषाक्षश्च वज्रनाभो वसुप्रभः 058a
समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च 058c
पुत्रमेषः प्रवाहश्च तथा नन्दोपनन्दकौ 059a
धूम्रः श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्तथा 059c
प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतापवान् 060a
आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा 060c
क्षेमवापः सुजातश्च सिद्धयात्रश्च भारत 061a
गोव्रजः कनकापीडो महापारिषदेश्वरः 061c
गायनो हसनश्चैव बाणः खड्गश्च वीर्यवान् 062a
वैताली चातिताली च तथा कतिकवातिकौ 062c
हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह 063a
रणोत्कटः प्रहासश्च श्वेतशीर्षश्च नन्दकः 063c
कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोऽपरः 064a
कालकाक्षः सितश्चैव भूतलोन्मथनस्तथा 064c
यज्ञवाहः प्रवाहश्च देवयाजी च सोमपः 065a
सजालश्च महातेजाः क्रथक्राथौ च भारत 065c
तुहनश्च तुहानश्च चित्रदेवश्च वीर्यवान् 066a
मधुरः सुप्रसादश्च किरीटी च महाबलः 066c
वसनो मधुवर्णश्च कलशोदर एव च 067a
धमन्तो मन्मथकरः सूचीवक्त्रश्च वीर्यवान् 067c
श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः 068a
दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा 068c
अचलः कनकाक्षश्च बालानामयिकः प्रभुः 069a
सञ्चारकः कोकनदो गृध्रवक्त्रश्च जम्बुकः 069c
लोहाशवक्त्रो जठरः कुम्भवक्त्रश्च कुण्डकः 070a
मद्गुग्रीवश्च कृष्णौजा हंसवक्त्रश्च चन्द्रभाः 070c
पाणिकूर्मा च शम्बूकः पञ्चवक्त्रश्च शिक्षकः 071a
चाषवक्त्रश्च जम्बूकः शाकवक्त्रश्च कुण्डकः 071c
योगयुक्ता महात्मानः सततं ब्राह्मणप्रियाः 072a
पैतामहा महात्मानो महापारिषदाश्च ह 072c
यौवनस्थाश्च बालाश्च वृद्धाश्च जनमेजय 072e
सहस्रशः पारिषदाः कुमारमुपतस्थिरे 073a
वक्त्रैर्नानाविधैर्ये तु शृणु ताञ्जनमेजय 073c
कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा 074a
खरोष्ट्रवदनाश्चैव वराहवदनास्तथा 074c
मनुष्यमेषवक्त्राश्च सृगालवदनास्तथा 075a
भीमा मकरवक्त्राश्च शिंशुमारमुखास्तथा 075c
मार्जारशशवक्त्राश्च दीर्घवक्त्राश्च भारत 076a
नकुलोलूकवक्त्राश्च श्ववक्त्राश्च तथापरे 076c
आखुबभ्रुकवक्त्राश्च मयूरवदनास्तथा 077a
मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः 077c
ऋक्षशार्दूलवक्त्राश्च द्वीपिसिंहाननास्तथा 078a
भीमा गजाननाश्चैव तथा नक्रमुखाः परे 078c
गरुडाननाः खड्गमुखा वृककाकमुखास्तथा 079a
गोखरोष्ट्रमुखाश्चान्ये वृषदंशमुखास्तथा 079c
महाजठरपादाङ्गास्तारकाक्षाश्च भारत 080a
पारावतमुखाश्चान्ये तथा वृषमुखाः परे 080c
कोकिलावदनाश्चान्ये श्येनतित्तिरिकाननाः 081a
कृकलासमुखाश्चैव विरजोम्बरधारिणः 081c
व्यालवक्त्राः शूलमुखाश्चण्डवक्त्राः शताननाः 082a
आशीविषाश्चीरधरा गोनासावरणास्तथा 082c
स्थूलोदराः कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः 083a
ह्रस्वग्रीवा महाकर्णा नानाव्यालविभूषिताः 083c
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः 084a
स्कन्धेमुखा महाराज तथा ह्युदरतोमुखाः 084c
पृष्ठेमुखा हनुमुखास्तथा जङ्घामुखा अपि 085a
पार्श्वाननाश्च बहवो नानादेशमुखास्तथा 085c
तथा कीटपतङ्गानां सदृशास्या गणेश्वराः 086a
नानाव्यालमुखाश्चान्ये बहुबाहुशिरोधराः 086c
नानावृक्षभुजाः केचित्कटिशीर्षास्तथापरे 087a
भुजङ्गभोगवदना नानागुल्मनिवासिनः 087c
चीरसंवृतगात्राश्च तथा फलकवाससः 088a
नानावेषधराश्चैव चर्मवासस एव च 088c
उष्णीषिणो मुकुटिनः कम्बुग्रीवाः सुवर्चसः 089a
किरीटिनः पञ्चशिखास्तथा कठिनमूर्धजाः 089c
त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे 090a
शिखण्डिनो मुकुटिनो मुण्डाश्च जटिलास्तथा 090c
चित्रमाल्यधराः केचित्केचिद्रोमाननास्तथा 091a
दिव्यमाल्याम्बरधराः सततं प्रियविग्रहाः 091c
कृष्णा निर्मांसवक्त्राश्च दीर्घपृष्ठा निरूदराः 092a
स्थूलपृष्ठा ह्रस्वपृष्ठाः प्रलम्बोदरमेहनाः 092c
महाभुजा ह्रस्वभुजा ह्रस्वगात्राश्च वामनाः 093a
कुब्जाश्च दीर्घजङ्घाश्च हस्तिकर्णशिरोधराः 093c
हस्तिनासाः कूर्मनासा वृकनासास्तथापरे 094a
दीर्घोष्ठा दीर्घजिह्वाश्च विकराला ह्यधोमुखाः 094c
महादंष्ट्रा ह्रस्वदंष्ट्राश्चतुर्दंष्ट्रास्तथापरे 095a
वारणेन्द्रनिभाश्चान्ये भीमा राजन्सहस्रशः 095c
सुविभक्तशरीराश्च दीप्तिमन्तः स्वलङ्कृताः 096a
पिङ्गाक्षाः शङ्कुकर्णाश्च वक्रनासाश्च भारत 096c
पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः 097a
नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः 097c
नानावर्मभिराच्छन्ना नानाभाषाश्च भारत 097e
कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः 098a
हृष्टाः परिपतन्ति स्म महापारिषदास्तथा 098c
दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः 099a
पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत 099c
वृकोदरनिभाश्चैव केचिदञ्जनसन्निभाः 100a
श्वेताङ्गा लोहितग्रीवाः पिङ्गाक्षाश्च तथापरे 100c
कल्माषा बहवो राजंश्चित्रवर्णाश्च भारत 100e
चामरापीडकनिभाः श्वेतलोहितराजयः 101a
नानावर्णाः सवर्णाश्च मयूरसदृशप्रभाः 101c
पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु 102a
शेषैः कृतं पारिषदैरायुधानां परिग्रहम् 102c
पाशोद्यतकराः केचिद्व्यादितास्याः खराननाः 103a
पृथ्वक्षा नीलकण्ठाश्च तथा परिघबाहवः 103c
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः 104a
शूलासिहस्ताश्च तथा महाकाया महाबलाः 104c
गदाभुशुण्डिहस्ताश्च तथा तोमरपाणयः 105a
असिमुद्गरहस्ताश्च दण्डहस्ताश्च भारत 105c
आयुधैर्विविधैर्घोरैर्महात्मानो महाजवाः 106a
महाबला महावेगा महापारिषदास्तथा 106c
अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः 107a
घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः 107c
एते चान्ये च बहवो महापारिषदा नृप 108a
उपतस्थुर्महात्मानं कार्त्तिकेयं यशस्विनम् 108c
दिव्याश्चाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः 109a
व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचराभवन् 109c
तादृशानां सहस्राणि प्रयुतान्यर्बुदानि च 110a
अभिषिक्तं महात्मानं परिवार्योपतस्थिरे 110c