जनमेजय उवाच 001
सरस्वत्याः प्रभावोऽयमुक्तस्ते द्विजसत्तम 001a
कुमारस्याभिषेकं तु ब्रह्मन्व्याख्यातुमर्हसि 001c
यस्मिन्काले च देशे च यथा च वदतां वर 002a
यैश्चाभिषिक्तो भगवान्विधिना येन च प्रभुः 002c
स्कन्दो यथा च दैत्यानामकरोत्कदनं महत् 003a
तथा मे सर्वमाचक्ष्व परं कौतूहलं हि मे 003c
वैशम्पायन उवाच 004
कुरुवंशस्य सदृशमिदं कौतूहलं तव 004a
हर्षमुत्पादयत्येतद्वचो मे जनमेजय 004c
हन्त ते कथयिष्यामि शृण्वानस्य जनाधिप 005a
अभिषेकं कुमारस्य प्रभावं च महात्मनः 005c
तेजो माहेश्वरं स्कन्नमग्नौ प्रपतितं पुरा 006a
तत्सर्वभक्षो भगवान्नाशकद्दग्धुमक्षयम् 006c
तेनासीदति तेजस्वी दीप्तिमान्हव्यवाहनः 007a
न चैव धारयामास गर्भं तेजोमयं तदा 007c
स गङ्गामभिसङ्गम्य नियोगाद्ब्रह्मणः प्रभुः 008a
गर्भमाहितवान्दिव्यं भास्करोपमतेजसम् 008c
अथ गङ्गापि तं गर्भमसहन्ती विधारणे 009a
उत्ससर्ज गिरौ रम्ये हिमवत्यमरार्चिते 009c
स तत्र ववृधे लोकानावृत्य ज्वलनात्मजः 010a
ददृशुर्ज्वलनाकारं तं गर्भमथ कृत्तिकाः 010c
शरस्तम्बे महात्मानमनलात्मजमीश्वरम् 011a
ममायमिति ताः सर्वाः पुत्रार्थिन्योऽभिचक्रमुः 011c
तासां विदित्वा भावं तं मातॄणां भगवान्प्रभुः 012a
प्रस्नुतानां पयः षड्भिर्वदनैरपिबत्तदा 012c
तं प्रभावं समालक्ष्य तस्य बालस्य कृत्तिकाः 013a
परं विस्मयमापन्ना देव्यो दिव्यवपुर्धराः 013c
यत्रोत्सृष्टः स भगवान्गङ्गया गिरिमूर्धनि 014a
स शैलः काञ्चनः सर्वः सम्बभौ कुरुसत्तम 014c
वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता 015a
अतश्च सर्वे संवृत्ता गिरयः काञ्चनाकराः 015c
कुमारश्च महावीर्यः कार्त्तिकेय इति स्मृतः 016a
गाङ्गेयः पूर्वमभवन्महायोगबलान्वितः 016c
स देवस्तपसा चैव वीर्येण च समन्वितः 017a
ववृधेऽतीव राजेन्द्र चन्द्रवत्प्रियदर्शनः 017c
स तस्मिन्काञ्चने दिव्ये शरस्तम्बे श्रिया वृतः 018a
स्तूयमानस्तदा शेते गन्धर्वैर्मुनिभिस्तथा 018c
तथैनमन्वनृत्यन्त देवकन्याः सहस्रशः 019a
दिव्यवादित्रनृत्तज्ञाः स्तुवन्त्यश्चारुदर्शनाः 019c
अन्वास्ते च नदी देवं गङ्गा वै सरितां वरा 020a
दधार पृथिवी चैनं बिभ्रती रूपमुत्तमम् 020c
जातकर्मादिकास्तस्य क्रियाश्चक्रे बृहस्पतिः 021a
वेदश्चैनं चतुर्मूर्तिरुपतस्थे कृताञ्जलिः 021c
धनुर्वेदश्चतुष्पादः शस्त्रग्रामः ससङ्ग्रहः 022a
तत्रैनं समुपातिष्ठत्साक्षाद्वाणी च केवला 022c
स ददर्श महावीर्यं देवदेवमुमापतिम् 023a
शैलपुत्र्या सहासीनं भूतसङ्घशतैर्वृतम् 023c
निकाया भूतसङ्घानां परमाद्भुतदर्शनाः 024a
विकृता विकृताकारा विकृताभरणध्वजाः 024c
व्याघ्रसिंहर्क्षवदना बिडालमकराननाः 025a
वृषदंशमुखाश्चान्ये गजोष्ट्रवदनास्तथा 025c
उलूकवदनाः केचिद्गृध्रगोमायुदर्शनाः 026a
क्रौञ्चपारावतनिभैर्वदनै राङ्कवैरपि 026c
श्वाविच्छल्यकगोधानां खरैडकगवां तथा 027a
सदृशानि वपूंष्यन्ये तत्र तत्र व्यधारयन् 027c
केचिच्छैलाम्बुदप्रख्याश्चक्रालातगदायुधाः 028a
केचिदञ्जनपुञ्जाभाः केचिच्छ्वेताचलप्रभाः 028c
सप्तमातृगणाश्चैव समाजग्मुर्विशां पते 029a
साध्या विश्वेऽथ मरुतो वसवः पितरस्तथा 029c
रुद्रादित्यास्तथा सिद्धा भुजगा दानवाः खगाः 030a
ब्रह्मा स्वयम्भूर्भगवान्सपुत्रः सह विष्णुना 030c
शक्रस्तथाभ्ययाद्द्रष्टुं कुमारवरमच्युतम् 031a
नारदप्रमुखाश्चापि देवगन्धर्वसत्तमाः 031c
देवर्षयश्च सिद्धाश्च बृहस्पतिपुरोगमाः 032a
ऋभवो नाम वरदा देवानामपि देवताः 032c
तेऽपि तत्र समाजग्मुर्यामा धामाश्च सर्वशः 032e
स तु बालोऽपि भगवान्महायोगबलान्वितः 033a
अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम् 033c
तमाव्रजन्तमालक्ष्य शिवस्यासीन्मनोगतम् 034a
युगपच्छैलपुत्र्याश्च गङ्गायाः पावकस्य च 034c
किं नु पूर्वमयं बालो गौरवादभ्युपैष्यति 035a
अपि मामिति सर्वेषां तेषामासीन्मनोगतम् 035c
तेषामेतमभिप्रायं चतुर्णामुपलक्ष्य सः 036a
युगपद्योगमास्थाय ससर्ज विविधास्तनूः 036c
ततोऽभवच्चतुर्मूर्तिः क्षणेन भगवान्प्रभुः 037a
स्कन्दः शाखो विशाखश्च नैगमेषश्च पृष्ठतः 037c
एवं स कृत्वा ह्यात्मानं चतुर्धा भगवान्प्रभुः 038a
यतो रुद्रस्ततः स्कन्दो जगामाद्भुतदर्शनः 038c
विशाखस्तु ययौ येन देवी गिरिवरात्मजा 039a
शाखो ययौ च भगवान्वायुमूर्तिर्विभावसुम् 039c
नैगमेषोऽगमद्गङ्गां कुमारः पावकप्रभः 039e
सर्वे भास्वरदेहास्ते चत्वारः समरूपिणः 040a
तान्समभ्ययुरव्यग्रास्तदद्भुतमिवाभवत् 040c
हाहाकारो महानासीद्देवदानवरक्षसाम् 041a
तद्दृष्ट्वा महदाश्चर्यमद्भुतं रोमहर्षणम् 041c
ततो रुद्रश्च देवी च पावकश्च पितामहम् 042a
गङ्गया सहिताः सर्वे प्रणिपेतुर्जगत्पतिम् 042c
प्रणिपत्य ततस्ते तु विधिवद्राजपुङ्गव 043a
इदमूचुर्वचो राजन्कार्त्तिकेयप्रियेप्सया 043c
अस्य बालस्य भगवन्नाधिपत्यं यथेप्सितम् 044a
अस्मत्प्रियार्थं देवेश सदृशं दातुमर्हसि 044c
ततः स भगवान्धीमान्सर्वलोकपितामहः 045a
मनसा चिन्तयामास किमयं लभतामिति 045c
ऐश्वर्याणि हि सर्वाणि देवगन्धर्वरक्षसाम् 046a
भूतयक्षविहङ्गानां पन्नगानां च सर्वशः 046c
पूर्वमेवादिदेशासौ निकायेषु महात्मनाम् 047a
समर्थं च तमैश्वर्ये महामतिरमन्यत 047c
ततो मुहूर्तं स ध्यात्वा देवानां श्रेयसि स्थितः 048a
सेनापत्यं ददौ तस्मै सर्वभूतेषु भारत 048c
सर्वदेवनिकायानां ये राजानः परिश्रुताः 049a
तान्सर्वान्व्यादिदेशास्मै सर्वभूतपितामहः 049c
ततः कुमारमादाय देवा ब्रह्मपुरोगमाः 050a
अभिषेकार्थमाजग्मुः शैलेन्द्रं सहितास्ततः 050c
पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम् 051a
समन्तपञ्चके या वै त्रिषु लोकेषु विश्रुता 051c
तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते 052a
निषेदुर्देवगन्धर्वाः सर्वे सम्पूर्णमानसाः 052c