वैशम्पायन उवाच 001
सा शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता 001a
तस्मिंस्तीर्थवरे शुभ्रे शोणितं समुपावहत् 001c
अथाजग्मुस्ततो राजन्राक्षसास्तत्र भारत 002a
तत्र ते शोणितं सर्वे पिबन्तः सुखमासते 002c
तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः 003a
नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा 003c
कस्यचित्त्वथ कालस्य ऋषयः सतपोधनाः 004a
तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते 004c
तेषु सर्वेषु तीर्थेषु आप्लुत्य मुनिपुङ्गवाः 005a
प्राप्य प्रीतिं परां चापि तपोलुब्धा विशारदाः 005c
प्रययुर्हि ततो राजन्येन तीर्थं हि तत्तथा 005e
अथागम्य महाभागास्तत्तीर्थं दारुणं तदा 006a
दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम् 006c
पीयमानं च रक्षोभिर्बहुभिर्नृपसत्तम 006e
तान्दृष्ट्वा राक्षसान्राजन्मुनयः संशितव्रताः 007a
परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे 007c
ते तु सर्वे महाभागाः समागम्य महाव्रताः 008a
आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन् 008c
कारणं ब्रूहि कल्याणि किमर्थं ते ह्रदो ह्ययम् 009a
एवमाकुलतां यातः श्रुत्वा पास्यामहे वयम् 009c
ततः सा सर्वमाचष्ट यथावृत्तं प्रवेपती 010a
दुःखितामथ तां दृष्ट्वा त ऊचुर्वै तपोधनाः 010c
कारणं श्रुतमस्माभिः शापश्चैव श्रुतोऽनघे 011a
करिष्यन्ति तु यत्प्राप्तं सर्व एव तपोधनाः 011c
एवमुक्त्वा सरिच्छ्रेष्ठामूचुस्तेऽथ परस्परम् 012a
विमोचयामहे सर्वे शापादेतां सरस्वतीम् 012c
तेषां तु वचनादेव प्रकृतिस्था सरस्वती 013a
प्रसन्नसलिला जज्ञे यथा पूर्वं तथैव हि 013c
विमुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा 013e
दृष्ट्वा तोयं सरस्वत्या मुनिभिस्तैस्तथा कृतम् 014a
कृताञ्जलीस्ततो राजन्राक्षसाः क्षुधयार्दिताः 014c
ऊचुस्तान्वै मुनीन्सर्वान्कृपायुक्तान्पुनः पुनः 014e
वयं हि क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात् 015a
न च नः कामकारोऽयं यद्वयं पापकारिणः 015c
युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा 016a
पक्षोऽयं वर्धतेऽस्माकं यतः स्म ब्रह्मराक्षसाः 016c
एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च 017a
ये ब्राह्मणान्प्रद्विषन्ति ते भवन्तीह राक्षसाः 017c
आचार्यमृत्विजं चैव गुरुं वृद्धजनं तथा 018a
प्राणिनो येऽवमन्यन्ते ते भवन्तीह राक्षसाः 018c
योषितां चैव पापानां योनिदोषेण वर्धते 018e
तत्कुरुध्वमिहास्माकं कारुण्यं द्विजसत्तमाः 019a
शक्ता भवन्तः सर्वेषां लोकानामपि तारणे 019c
तेषां ते मुनयः श्रुत्वा तुष्टुवुस्तां महानदीम् 020a
मोक्षार्थं रक्षसां तेषामूचुः प्रयतमानसाः 020c
क्षुतकीटावपन्नं च यच्चोच्छिष्टाशितं भवेत् 021a
केशावपन्नमाधूतमारुग्णमपि यद्भवेत् 021c
श्वभिः संस्पृष्टमन्नं च भागोऽसौ रक्षसामिह 021e
तस्माज्ज्ञात्वा सदा विद्वानेतान्यन्नानि वर्जयेत् 022a
राक्षसान्नमसौ भुङ्क्ते यो भुङ्क्ते ह्यन्नमीदृशम् 022c
शोधयित्वा ततस्तीर्थमृषयस्ते तपोधनाः 023a
मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन् 023c
महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा 024a
अरुणामानयामास स्वां तनुं पुरुषर्षभ 024c
तस्यां ते राक्षसाः स्नात्वा तनूस्त्यक्त्वा दिवं गताः 025a
अरुणायां महाराज ब्रह्महत्यापहा हि सा 025c
एतमर्थमभिज्ञाय देवराजः शतक्रतुः 026a
तस्मिंस्तीर्थवरे स्नात्वा विमुक्तः पाप्मना किल 026c
जनमेजय उवाच 027
किमर्थं भगवाञ्शक्रो ब्रह्महत्यामवाप्तवान् 027a
कथमस्मिंश्च तीर्थे वै आप्लुत्याकल्मषोऽभवत् 027c
वैशम्पायन उवाच 028
शृणुष्वैतदुपाख्यानं यथावृत्तं जनेश्वर 028a
यथा बिभेद समयं नमुचेर्वासवः पुरा 028c
नमुचिर्वासवाद्भीतः सूर्यरश्मिं समाविशत् 029a
तेनेन्द्रः सख्यमकरोत्समयं चेदमब्रवीत् 029c
नार्द्रेण त्वा न शुष्केण न रात्रौ नापि वाहनि 030a
वधिष्याम्यसुरश्रेष्ठ सखे सत्येन ते शपे 030c
एवं स कृत्वा समयं सृष्ट्वा नीहारमीश्वरः 031a
चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः 031c
तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वयात् 032a
हे मित्रहन्पाप इति ब्रुवाणं शक्रमन्तिकात् 032c
एवं स शिरसा तेन चोद्यमानः पुनः पुनः 033a
पितामहाय सन्तप्त एवमर्थं न्यवेदयत् 033c
तमब्रवील्लोकगुरुररुणायां यथाविधि 034a
इष्ट्वोपस्पृश देवेन्द्र ब्रह्महत्यापहा हि सा 034c
इत्युक्तः स सरस्वत्याः कुञ्जे वै जनमेजय 035a
इष्ट्वा यथावद्बलभिदरुणायामुपास्पृशत् 035c
स मुक्तः पाप्मना तेन ब्रह्महत्याकृतेन ह 036a
जगाम संहृष्टमनास्त्रिदिवं त्रिदशेश्वरः 036c
शिरस्तच्चापि नमुचेस्तत्रैवाप्लुत्य भारत 037a
लोकान्कामदुघान्प्राप्तमक्षयान्राजसत्तम 037c
तत्राप्युपस्पृश्य बलो महात्मा दत्त्वा च दानानि पृथग्विधानि 038a
अवाप्य धर्मं परमार्यकर्मा जगाम सोमस्य महत्स तीर्थम् 038c
यत्रायजद्राजसूयेन सोमः साक्षात्पुरा विधिवत्पार्थिवेन्द्र 039a
अत्रिर्धीमान्विप्रमुख्यो बभूव होता यस्मिन्क्रतुमुख्ये महात्मा 039c
यस्यान्तेऽभूत्सुमहान्दानवानां दैतेयानां राक्षसानां च देवैः 040a
स सङ्ग्रामस्तारकाख्यः सुतीव्रो यत्र स्कन्दस्तारकाख्यं जघान 040c
सेनापत्यं लब्धवान्देवतानां महासेनो यत्र दैत्यान्तकर्ता 041a
साक्षाच्चात्र न्यवसत्कार्त्तिकेयः सदा कुमारो यत्र स प्लक्षराजः 041c