जनमेजय उवाच 001
वसिष्ठस्यापवाहो वै भीमवेगः कथं नु सः 001a
किमर्थं च सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत् 001c
केन चास्याभवद्वैरं कारणं किं च तत्प्रभो 002a
शंस पृष्टो महाप्राज्ञ न हि तृप्यामि कथ्यताम् 002c
वैशम्पायन उवाच 003
विश्वामित्रस्य चैवर्षेर्वसिष्ठस्य च भारत 003a
भृशं वैरमभूद्राजंस्तपःस्पर्धाकृतं महत् 003c
आश्रमो वै वसिष्ठस्य स्थाणुतीर्थेऽभवन्महान् 004a
पूर्वतः पश्चिमश्चासीद्विश्वामित्रस्य धीमतः 004c
यत्र स्थाणुर्महाराज तप्तवान्सुमहत्तपः 005a
यत्रास्य कर्म तद्घोरं प्रवदन्ति मनीषिणः 005c
यत्रेष्ट्वा भगवान्स्थाणुः पूजयित्वा सरस्वतीम् 006a
स्थापयामास तत्तीर्थं स्थाणुतीर्थमिति प्रभो 006c
तत्र सर्वे सुराः स्कन्दमभ्यषिञ्चन्नराधिप 007a
सेनापत्येन महता सुरारिविनिबर्हणम् 007c
तस्मिन्सरस्वतीतीर्थे विश्वामित्रो महामुनिः 008a
वसिष्ठं चालयामास तपसोग्रेण तच्छृणु 008c
विश्वामित्रवसिष्ठौ तावहन्यहनि भारत 009a
स्पर्धां तपःकृतां तीव्रां चक्रतुस्तौ तपोधनौ 009c
तत्राप्यधिकसन्तापो विश्वामित्रो महामुनिः 010a
दृष्ट्वा तेजो वसिष्ठस्य चिन्तामभिजगाम ह 010c
तस्य बुद्धिरियं ह्यासीद्धर्मनित्यस्य भारत 010e
इयं सरस्वती तूर्णं मत्समीपं तपोधनम् 011a
आनयिष्यति वेगेन वसिष्ठं जपतां वरम् 011c
इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः 011e
एवं निश्चित्य भगवान्विश्वामित्रो महामुनिः 012a
सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः 012c
सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह 013a
जज्ञे चैनं महावीर्यं महाकोपं च भामिनी 013c
तत एनं वेपमाना विवर्णा प्राञ्जलिस्तदा 014a
उपतस्थे मुनिवरं विश्वामित्रं सरस्वती 014c
हतवीरा यथा नारी साभवद्दुःखिता भृशम् 015a
ब्रूहि किं करवाणीति प्रोवाच मुनिसत्तमम् 015c
तामुवाच मुनिः क्रुद्धो वसिष्ठं शीघ्रमानय 016a
यावदेनं निहन्म्यद्य तच्छ्रुत्वा व्यथिता नदी 016c
साञ्जलिं तु ततः कृत्वा पुण्डरीकनिभेक्षणा 017a
विव्यथे सुविरूढेव लता वायुसमीरिता 017c
तथागतां तु तां दृष्ट्वा वेपमानां कृताञ्जलिम् 018a
विश्वामित्रोऽब्रवीत्क्रुद्धो वसिष्ठं शीघ्रमानय 018c
ततो भीता सरिच्छ्रेष्ठा चिन्तयामास भारत 019a
उभयोः शापयोर्भीता कथमेतद्भविष्यति 019c
साभिगम्य वसिष्ठं तु इममर्थमचोदयत् 020a
यदुक्ता सरितां श्रेष्ठा विश्वामित्रेण धीमता 020c
उभयोः शापयोर्भीता वेपमाना पुनः पुनः 021a
चिन्तयित्वा महाशापमृषिवित्रासिता भृशम् 021c
तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम् 022a
उवाच राजन्धर्मात्मा वसिष्ठो द्विपदां वरः 022c
त्राह्यात्मानं सरिच्छ्रेष्ठे वह मां शीघ्रगामिनी 023a
विश्वामित्रः शपेद्धि त्वां मा कृथास्त्वं विचारणाम् 023c
तस्य तद्वचनं श्रुत्वा कृपाशीलस्य सा सरित् 024a
चिन्तयामास कौरव्य किं कृतं सुकृतं भवेत् 024c
तस्याश्चिन्ता समुत्पन्ना वसिष्ठो मय्यतीव हि 025a
कृतवान्हि दयां नित्यं तस्य कार्यं हितं मया 025c
अथ कूले स्वके राजञ्जपन्तमृषिसत्तमम् 026a
जुह्वानं कौशिकं प्रेक्ष्य सरस्वत्यभ्यचिन्तयत् 026c
इदमन्तरमित्येव ततः सा सरितां वरा 027a
कूलापहारमकरोत्स्वेन वेगेन सा सरित् 027c
तेन कूलापहारेण मैत्रावरुणिरौह्यत 028a
उह्यमानश्च तुष्टाव तदा राजन्सरस्वतीम् 028c
पितामहस्य सरसः प्रवृत्तासि सरस्वति 029a
व्याप्तं चेदं जगत्सर्वं तवैवाम्भोभिरुत्तमैः 029c
त्वमेवाकाशगा देवि मेघेषूत्सृजसे पयः 030a
सर्वाश्चापस्त्वमेवेति त्वत्तो वयमधीमहे 030c
पुष्टिर्द्युतिस्तथा कीर्तिः सिद्धिर्वृद्धिरुमा तथा 031a
त्वमेव वाणी स्वाहा त्वं त्वय्यायत्तमिदं जगत् 031c
त्वमेव सर्वभूतेषु वससीह चतुर्विधा 031e
एवं सरस्वती राजन्स्तूयमाना महर्षिणा 032a
वेगेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति 032c
न्यवेदयत चाभीक्ष्णं विश्वामित्राय तं मुनिम् 032e
तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः 033a
अथान्वेषत्प्रहरणं वसिष्ठान्तकरं तदा 033c
तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्महत्याभयान्नदी 034a
अपोवाह वसिष्ठं तु प्राचीं दिशमतन्द्रिता 034c
उभयोः कुर्वती वाक्यं वञ्चयित्वा तु गाधिजम् 034e
ततोऽपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम् 035a
अब्रवीदथ सङ्क्रुद्धो विश्वामित्रो ह्यमर्षणः 035c
यस्मान्मा त्वं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर्गता 036a
शोणितं वह कल्याणि रक्षोग्रामणिसम्मतम् 036c
ततः सरस्वती शप्ता विश्वामित्रेण धीमता 037a
अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा 037c
अथर्षयश्च देवाश्च गन्धर्वाप्सरसस्तथा 038a
सरस्वतीं तथा दृष्ट्वा बभूवुर्भृशदुःखिताः 038c
एवं वसिष्ठापवाहो लोके ख्यातो जनाधिप 039a
आगच्छच्च पुनर्मार्गं स्वमेव सरितां वरा 039c