वैशम्पायन उवाच 001
ब्रह्मयोनिभिराकीर्णं जगाम यदुनन्दनः 001a
यत्र दाल्भ्यो बको राजन्पश्वर्थं सुमहातपाः 001c
जुहाव धृतराष्ट्रस्य राष्ट्रं वैचित्रवीर्यिणः 001e
तपसा घोररूपेण कर्शयन्देहमात्मनः 002a
क्रोधेन महताविष्टो धर्मात्मा वै प्रतापवान् 002c
पुरा हि नैमिषेयाणां सत्रे द्वादशवार्षिके 003a
वृत्ते विश्वजितोऽन्ते वै पाञ्चालानृषयोऽगमन् 003c
तत्रेश्वरमयाचन्त दक्षिणार्थं मनीषिणः 004a
बलान्वितान्वत्सतरान्निर्व्याधीनेकविंशतिम् 004c
तानब्रवीद्बको वृद्धो विभजध्वं पशूनिति 005a
पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम् 005c
एवमुक्त्वा ततो राजन्नृषीन्सर्वान्प्रतापवान् 006a
जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः 006c
स समीपगतो भूत्वा धृतराष्ट्रं जनेश्वरम् 007a
अयाचत पशून्दाल्भ्यः स चैनं रुषितोऽब्रवीत् 007c
यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तम 008a
एतान्पशून्नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि 008c
ऋषिस्त्वथ वचः श्रुत्वा चिन्तयामास धर्मवित् 009a
अहो बत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि 009c
चिन्तयित्वा मुहूर्तं च रोषाविष्टो द्विजोत्तमः 010a
मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः 010c
स उत्कृत्य मृतानां वै मांसानि द्विजसत्तमः 011a
जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा 011c
अवकीर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम् 012a
बको दाल्भ्यो महाराज नियमं परमास्थितः 012c
स तैरेव जुहावास्य राष्ट्रं मांसैर्महातपाः 012e
तस्मिंस्तु विधिवत्सत्रे सम्प्रवृत्ते सुदारुणे 013a
अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव 013c
छिद्यमानं यथानन्तं वनं परशुना विभो 014a
बभूवापहतं तच्चाप्यवकीर्णमचेतनम् 014c
दृष्ट्वा तदवकीर्णं तु राष्ट्रं स मनुजाधिपः 015a
बभूव दुर्मना राजंश्चिन्तयामास च प्रभुः 015c
मोक्षार्थमकरोद्यत्नं ब्राह्मणैः सहितः पुरा 016a
अथासौ पार्थिवः खिन्नस्ते च विप्रास्तदा नृप 016c
यदा चापि न शक्नोति राष्ट्रं मोचयितुं नृप 017a
अथ वैप्राश्निकांस्तत्र पप्रच्छ जनमेजय 017c
ततो वैप्राश्निकाः प्राहुः पशुविप्रकृतस्त्वया 018a
मांसैरभिजुहोतीति तव राष्ट्रं मुनिर्बकः 018c
तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान् 019a
तस्यैतत्तपसः कर्म येन ते ह्यनयो महान् 019c
अपां कुञ्जे सरस्वत्यास्तं प्रसादय पार्थिव 019e
सरस्वतीं ततो गत्वा स राजा बकमब्रवीत् 020a
निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ 020c
प्रसादये त्वा भगवन्नपराधं क्षमस्व मे 021a
मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः 021c
त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि 021e
तं तथा विलपन्तं तु शोकोपहतचेतसम् 022a
दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तच्च व्यमोचयत् 022c
ऋषिः प्रसन्नस्तस्याभूत्संरम्भं च विहाय सः 023a
मोक्षार्थं तस्य राष्ट्रस्य जुहाव पुनराहुतिम् 023c
मोक्षयित्वा ततो राष्ट्रं प्रतिगृह्य पशून्बहून् 024a
हृष्टात्मा नैमिषारण्यं जगाम पुनरेव हि 024c
धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः 025a
स्वमेव नगरं राजा प्रतिपेदे महर्द्धिमत् 025c
तत्र तीर्थे महाराज बृहस्पतिरुदारधीः 026a
असुराणामभावाय भावाय च दिवौकसाम् 026c
मांसैरपि जुहावेष्टिमक्षीयन्त ततोऽसुराः 027a
दैवतैरपि सम्भग्ना जितकाशिभिराहवे 027c
तत्रापि विधिवद्दत्त्वा ब्राह्मणेभ्यो महायशाः 028a
वाजिनः कुञ्जरांश्चैव रथांश्चाश्वतरीयुतान् 028c
रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम् 029a
ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते 029c
यत्र यज्ञे ययातेस्तु महाराज सरस्वती 030a
सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः 030c
तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः 031a
आक्रामदूर्ध्वं मुदितो लेभे लोकांश्च पुष्कलान् 031c
ययातेर्यजमानस्य यत्र राजन्सरस्वती 032a
प्रसृता प्रददौ कामान्ब्राह्मणानां महात्मनाम् 032c
यत्र यत्र हि यो विप्रो यान्यान्कामानभीप्सति 033a
तत्र तत्र सरिच्छ्रेष्ठा ससर्ज सुबहून्रसान् 033c
तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य सम्पदा 034a
विस्मिता मानुषाश्चासन्दृष्ट्वा तां यज्ञसम्पदम् 034c
ततस्तालकेतुर्महाधर्मसेतुर्महात्मा कृतात्मा महादाननित्यः 035a
वसिष्ठापवाहं महाभीमवेगं धृतात्मा जितात्मा समभ्याजगाम 035c