जनमेजय उवाच 001
कथमार्ष्टिषेणो भगवान्विपुलं तप्तवांस्तपः 001a
सिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस्तदा 001c
देवापिश्च कथं ब्रह्मन्विश्वामित्रश्च सत्तम 002a
तन्ममाचक्ष्व भगवन्परं कौतूहलं हि मे 002c
वैशम्पायन उवाच 003
पुरा कृतयुगे राजन्नार्ष्टिषेणो द्विजोत्तमः 003a
वसन्गुरुकुले नित्यं नित्यमध्ययने रतः 003c
तस्य राजन्गुरुकुले वसतो नित्यमेव ह 004a
समाप्तिं नागमद्विद्या नापि वेदा विशां पते 004c
स निर्विण्णस्ततो राजंस्तपस्तेपे महातपाः 005a
ततो वै तपसा तेन प्राप्य वेदाननुत्तमान् 005c
स विद्वान्वेदयुक्तश्च सिद्धश्चाप्यृषिसत्तमः 006a
तत्र तीर्थे वरान्प्रादात्त्रीनेव सुमहातपाः 006c
अस्मिंस्तीर्थे महानद्या अद्यप्रभृति मानवः 007a
आप्लुतो वाजिमेधस्य फलं प्राप्नोति पुष्कलम् 007c
अद्यप्रभृति नैवात्र भयं व्यालाद्भविष्यति 008a
अपि चाल्पेन यत्नेन फलं प्राप्स्यति पुष्कलम् 008c
एवमुक्त्वा महातेजा जगाम त्रिदिवं मुनिः 009a
एवं सिद्धः स भगवानार्ष्टिषेणः प्रतापवान् 009c
तस्मिन्नेव तदा तीर्थे सिन्धुद्वीपः प्रतापवान् 010a
देवापिश्च महाराज ब्राह्मण्यं प्रापतुर्महत् 010c
तथा च कौशिकस्तात तपोनित्यो जितेन्द्रियः 011a
तपसा वै सुतप्तेन ब्राह्मणत्वमवाप्तवान् 011c
गाधिर्नाम महानासीत्क्षत्रियः प्रथितो भुवि 012a
तस्य पुत्रोऽभवद्राजन्विश्वामित्रः प्रतापवान् 012c
स राजा कौशिकस्तात महायोग्यभवत्किल 013a
स पुत्रमभिषिच्याथ विश्वामित्रं महातपाः 013c
देहन्यासे मनश्चक्रे तमूचुः प्रणताः प्रजाः 014a
न गन्तव्यं महाप्राज्ञ त्राहि चास्मान्महाभयात् 014c
एवमुक्तः प्रत्युवाच ततो गाधिः प्रजास्तदा 015a
विश्वस्य जगतो गोप्ता भविष्यति सुतो मम 015c
इत्युक्त्वा तु ततो गाधिर्विश्वामित्रं निवेश्य च 016a
जगाम त्रिदिवं राजन्विश्वामित्रोऽभवन्नृपः 016c
न च शक्नोति पृथिवीं यत्नवानपि रक्षितुम् 016e
ततः शुश्राव राजा स राक्षसेभ्यो महाभयम् 017a
निर्ययौ नगराच्चापि चतुरङ्गबलान्वितः 017c
स गत्वा दूरमध्वानं वसिष्ठाश्रममभ्ययात् 018a
तस्य ते सैनिका राजंश्चक्रुस्तत्रानयान्बहून् 018c
ततस्तु भगवान्विप्रो वसिष्ठोऽऽश्रममभ्ययात् 019a
ददृशे च ततः सर्वं भज्यमानं महावनम् 019c
तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः 020a
सृजस्व शबरान्घोरानिति स्वां गामुवाच ह 020c
तथोक्ता सासृजद्धेनुः पुरुषान्घोरदर्शनान् 021a
ते च तद्बलमासाद्य बभञ्जुः सर्वतोदिशम् 021c
तद्दृष्ट्वा विद्रुतं सैन्यं विश्वामित्रस्तु गाधिजः 022a
तपः परं मन्यमानस्तपस्येव मनो दधे 022c
सोऽस्मिंस्तीर्थवरे राजन्सरस्वत्याः समाहितः 023a
नियमैश्चोपवासैश्च कर्शयन्देहमात्मनः 023c
जलाहारो वायुभक्षः पर्णाहारश्च सोऽभवत् 024a
तथा स्थण्डिलशायी च ये चान्ये नियमाः पृथक् 024c
असकृत्तस्य देवास्तु व्रतविघ्नं प्रचक्रिरे 025a
न चास्य नियमाद्बुद्धिरपयाति महात्मनः 025c
ततः परेण यत्नेन तप्त्वा बहुविधं तपः 026a
तेजसा भास्कराकारो गाधिजः समपद्यत 026c
तपसा तु तथा युक्तं विश्वामित्रं पितामहः 027a
अमन्यत महातेजा वरदो वरमस्य तत् 027c
स तु वव्रे वरं राजन्स्यामहं ब्राह्मणस्त्विति 028a
तथेति चाब्रवीद्ब्रह्मा सर्वलोकपितामहः 028c
स लब्ध्वा तपसोग्रेण ब्राह्मणत्वं महायशाः 029a
विचचार महीं कृत्स्नां कृतकामः सुरोपमः 029c
तस्मिंस्तीर्थवरे रामः प्रदाय विविधं वसु 030a
पयस्विनीस्तथा धेनूर्यानानि शयनानि च 030c
तथा वस्त्राण्यलङ्कारं भक्ष्यं पेयं च शोभनम् 031a
अददान्मुदितो राजन्पूजयित्वा द्विजोत्तमान् 031c
ययौ राजंस्ततो रामो बकस्याश्रममन्तिकात् 032a
यत्र तेपे तपस्तीव्रं दाल्भ्यो बक इति श्रुतिः 032c