वैशम्पायन उवाच 001
उषित्वा तत्र रामस्तु सम्पूज्याश्रमवासिनः 001a
तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः 001c
दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य च 002a
पूजितो मुनिसङ्घैश्च प्रातरुत्थाय लाङ्गली 002c
अनुज्ञाप्य मुनीन्सर्वान्स्पृष्ट्वा तोयं च भारत 003a
प्रययौ त्वरितो रामस्तीर्थहेतोर्महाबलः 003c
तत औशनसं तीर्थमाजगाम हलायुधः 004a
कपालमोचनं नाम यत्र मुक्तो महामुनिः 004c
महता शिरसा राजन्ग्रस्तजङ्घो महोदरः 005a
राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा 005c
तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मना 006a
यत्रास्य नीतिरखिला प्रादुर्भूता महात्मनः 006c
तत्रस्थश्चिन्तयामास दैत्यदानवविग्रहम् 006e
तत्प्राप्य च बलो राजंस्तीर्थप्रवरमुत्तमम् 007a
विधिवद्धि ददौ वित्तं ब्राह्मणानां महात्मनाम् 007c
जनमेजय उवाच 008
कपालमोचनं ब्रह्मन्कथं यत्र महामुनिः 008a
मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना 008c
वैशम्पायन उवाच 009
पुरा वै दण्डकारण्ये राघवेण महात्मना 009a
वसता राजशार्दूल राक्षसास्तत्र हिंसिताः 009c
जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः 010a
क्षुरेण शितधारेण तत्पपात महावने 010c
महोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया 011a
वने विचरतो राजन्नस्थि भित्त्वास्फुरत्तदा 011c
स तेन लग्नेन तदा द्विजातिर्न शशाक ह 012a
अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च 012c
स पूतिना विस्रवता वेदनार्तो महामुनिः 013a
जगाम सर्वतीर्थानि पृथिव्यामिति नः श्रुतम् 013c
स गत्वा सरितः सर्वाः समुद्रांश्च महातपाः 014a
कथयामास तत्सर्वमृषीणां भावितात्मनाम् 014c
आप्लुतः सर्वतीर्थेषु न च मोक्षमवाप्तवान् 015a
स तु शुश्राव विप्रेन्द्रो मुनीनां वचनं महत् 015c
सरस्वत्यास्तीर्थवरं ख्यातमौशनसं तदा 016a
सर्वपापप्रशमनं सिद्धक्षेत्रमनुत्तमम् 016c
स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजः 017a
तत औशनसे तीर्थे तस्योपस्पृशतस्तदा 017c
तच्छिरश्चरणं मुक्त्वा पपातान्तर्जले तदा 017e
ततः स विरुजो राजन्पूतात्मा वीतकल्मषः 018a
आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः 018c
सोऽथ गत्वाश्रमं पुण्यं विप्रमुक्तो महातपाः 019a
कथयामास तत्सर्वमृषीणां भावितात्मनाम् 019c
ते श्रुत्वा वचनं तस्य ततस्तीर्थस्य मानद 020a
कपालमोचनमिति नाम चक्रुः समागताः 020c
तत्र दत्त्वा बहून्दायान्विप्रान्सम्पूज्य माधवः 021a
जगाम वृष्णिप्रवरो रुषङ्गोराश्रमं तदा 021c
यत्र तप्तं तपो घोरमार्ष्टिषेणेन भारत 022a
ब्राह्मण्यं लब्धवांस्तत्र विश्वामित्रो महामुनिः 022c
ततो हलधरः श्रीमान्ब्राह्मणैः परिवारितः 023a
जगाम यत्र राजेन्द्र रुषङ्गुस्तनुमत्यजत् 023c
रुषङ्गुर्ब्राह्मणो वृद्धस्तपोनित्यश्च भारत 024a
देहन्यासे कृतमना विचिन्त्य बहुधा बहु 024c
ततः सर्वानुपादाय तनयान्वै महातपाः 025a
रुषङ्गुरब्रवीत्तत्र नयध्वं मा पृथूदकम् 025c
विज्ञायातीतवयसं रुषङ्गुं ते तपोधनाः 026a
तं वै तीर्थमुपानिन्युः सरस्वत्यास्तपोधनम् 026c
स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम् 027a
पुण्यां तीर्थशतोपेतां विप्रसङ्घैर्निषेविताम् 027c
स तत्र विधिना राजन्नाप्लुतः सुमहातपाः 028a
ज्ञात्वा तीर्थगुणांश्चैव प्राहेदमृषिसत्तमः 028c
सुप्रीतः पुरुषव्याघ्र सर्वान्पुत्रानुपासतः 028e
सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम् 029a
पृथूदके जप्यपरो नैनं श्वोमरणं तपेत् 029c
तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः 030a
दत्त्वा चैव बहून्दायान्विप्राणां विप्रवत्सलः 030c
ससर्ज यत्र भगवाल्ँलोकाल्ँलोकपितामहः 031a
यत्रार्ष्टिषेणः कौरव्य ब्राह्मण्यं संशितव्रतः 031c
तपसा महता राजन्प्राप्तवानृषिसत्तमः 031e
सिन्धुद्वीपश्च राजर्षिर्देवापिश्च महातपाः 032a
ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रो महामुनिः 032c
महातपस्वी भगवानुग्रतेजा महातपाः 032e
तत्राजगाम बलवान्बलभद्रः प्रतापवान् 033a