जनमेजय उवाच 001
सप्तसारस्वतं कस्मात्कश्च मङ्कणको मुनिः 001a
कथं सिद्धश्च भगवान्कश्चास्य नियमोऽभवत् 001c
कस्य वंशे समुत्पन्नः किं चाधीतं द्विजोत्तम 002a
एतदिच्छाम्यहं श्रोतुं विधिवद्द्विजसत्तम 002c
वैशम्पायन उवाच 003
राजन्सप्त सरस्वत्यो याभिर्व्याप्तमिदं जगत् 003a
आहूता बलवद्भिर्हि तत्र तत्र सरस्वती 003c
सुप्रभा काञ्चनाक्षी च विशाला मानसह्रदा 004a
सरस्वती ओघवती सुवेणुर्विमलोदका 004c
पितामहस्य महतो वर्तमाने महीतले 005a
वितते यज्ञवाटे वै समेतेषु द्विजातिषु 005c
पुण्याहघोषैर्विमलैर्वेदानां निनदैस्तथा 006a
देवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तदा 006c
तत्र चैव महाराज दीक्षिते प्रपितामहे 007a
यजतस्तत्र सत्रेण सर्वकामसमृद्धिना 007c
मनसा चिन्तिता ह्यर्था धर्मार्थकुशलैस्तदा 008a
उपतिष्ठन्ति राजेन्द्र द्विजातींस्तत्र तत्र ह 008c
जगुश्च तत्र गन्धर्वा ननृतुश्चाप्सरोगणाः 009a
वादित्राणि च दिव्यानि वादयामासुरञ्जसा 009c
तस्य यज्ञस्य सम्पत्त्या तुतुषुर्देवता अपि 010a
विस्मयं परमं जग्मुः किमु मानुषयोनयः 010c
वर्तमाने तथा यज्ञे पुष्करस्थे पितामहे 011a
अब्रुवन्नृषयो राजन्नायं यज्ञो महाफलः 011c
न दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती 011e
तच्छ्रुत्वा भगवान्प्रीतः सस्माराथ सरस्वतीम् 012a
पितामहेन यजता आहूता पुष्करेषु वै 012c
सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती 012e
तां दृष्ट्वा मुनयस्तुष्टा वेगयुक्तां सरस्वतीम् 013a
पितामहं मानयन्तीं क्रतुं ते बहु मेनिरे 013c
एवमेषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती 014a
पितामहार्थं सम्भूता तुष्ट्यर्थं च मनीषिणाम् 014c
नैमिषे मुनयो राजन्समागम्य समासते 015a
तत्र चित्राः कथा ह्यासन्वेदं प्रति जनेश्वर 015c
तत्र ते मुनयो ह्यासन्नानास्वाध्यायवेदिनः 016a
ते समागम्य मुनयः सस्मरुर्वै सरस्वतीम् 016c
सा तु ध्याता महाराज ऋषिभिः सत्रयाजिभिः 017a
समागतानां राजेन्द्र सहायार्थं महात्मनाम् 017c
आजगाम महाभागा तत्र पुण्या सरस्वती 017e
नैमिषे काञ्चनाक्षी तु मुनीनां सत्रयाजिनाम् 018a
आगता सरितां श्रेष्ठा तत्र भारत पूजिता 018c
गयस्य यजमानस्य गयेष्वेव महाक्रतुम् 019a
आहूता सरितां श्रेष्ठा गययज्ञे सरस्वती 019c
विशालां तु गयेष्वाहुरृषयः संशितव्रताः 020a
सरित्सा हिमवत्पार्श्वात्प्रसूता शीघ्रगामिनी 020c
औद्दालकेस्तथा यज्ञे यजतस्तत्र भारत 021a
समेते सर्वतः स्फीते मुनीनां मण्डले तदा 021c
उत्तरे कोसलाभागे पुण्ये राजन्महात्मनः 022a
औद्दालकेन यजता पूर्वं ध्याता सरस्वती 022c
आजगाम सरिच्छ्रेष्ठा तं देशमृषिकारणात् 023a
पूज्यमाना मुनिगणैर्वल्कलाजिनसंवृतैः 023c
मनोह्रदेति विख्याता सा हि तैर्मनसा हृता 023e
सुवेणुरृषभद्वीपे पुण्ये राजर्षिसेविते 024a
कुरोश्च यजमानस्य कुरुक्षेत्रे महात्मनः 024c
आजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती 024e
ओघवत्यपि राजेन्द्र वसिष्ठेन महात्मना 025a
समाहूता कुरुक्षेत्रे दिव्यतोया सरस्वती 025c
दक्षेण यजता चापि गङ्गाद्वारे सरस्वती 026a
विमलोदा भगवती ब्रह्मणा यजता पुनः 026c
समाहूता ययौ तत्र पुण्ये हैमवते गिरौ 026e
एकीभूतास्ततस्तास्तु तस्मिंस्तीर्थे समागताः 027a
सप्तसारस्वतं तीर्थं ततस्तत्प्रथितं भुवि 027c
इति सप्त सरस्वत्यो नामतः परिकीर्तिताः 028a
सप्तसारस्वतं चैव तीर्थं पुण्यं तथा स्मृतम् 028c
शृणु मङ्कणकस्यापि कौमारब्रह्मचारिणः 029a
आपगामवगाढस्य राजन्प्रक्रीडितं महत् 029c
दृष्ट्वा यदृच्छया तत्र स्त्रियमम्भसि भारत 030a
स्नायन्तीं रुचिरापाङ्गीं दिग्वाससमनिन्दिताम् 030c
सरस्वत्यां महाराज चस्कन्दे वीर्यमम्भसि 030e
तद्रेतः स तु जग्राह कलशे वै महातपाः 031a
सप्तधा प्रविभागं तु कलशस्थं जगाम ह 031c
तत्रर्षयः सप्त जाता जज्ञिरे मरुतां गणाः 031e
वायुवेगो वायुबलो वायुहा वायुमण्डलः 032a
वायुज्वालो वायुरेता वायुचक्रश्च वीर्यवान् 032c
एवमेते समुत्पन्ना मरुतां जनयिष्णवः 032e
इदमन्यच्च राजेन्द्र शृण्वाश्चर्यतरं भुवि 033a
महर्षेश्चरितं यादृक्त्रिषु लोकेषु विश्रुतम् 033c
पुरा मङ्कणकः सिद्धः कुशाग्रेणेति नः श्रुतम् 034a
क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् 034c
स वि शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् 034e
ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत् 035a
प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् 035c
ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः 036a
विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप 036c
नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि 036e
ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव ह 037a
सुराणां हितकामार्थं महादेवोऽभ्यभाषत 037c
भो भो ब्राह्मण धर्मज्ञ किमर्थं नरिनर्त्सि वै 038a
हर्षस्थानं किमर्थं वै तवेदं मुनिसत्तम 038c
तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम 038e
ऋषिरुवाच 039
किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम् 039a
यं दृष्ट्वा वै प्रनृत्तोऽहं हर्षेण महता विभो 039c
तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम् 040a
अहं न विस्मयं विप्र गच्छामीति प्रपश्य माम् 040c
एवमुक्त्वा मुनिश्रेष्ठं महादेवेन धीमता 041a
अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽभवत् 041c
ततो भस्म क्षताद्राजन्निर्गतं हिमसन्निभम् 042a
तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः 042c
ऋषिरुवाच 043
नान्यं देवादहं मन्ये रुद्रात्परतरं महत् 043a
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् 043c
त्वया सृष्टमिदं विश्वं वदन्तीह मनीषिणः 044a
त्वामेव सर्वं विशति पुनरेव युगक्षये 044c
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया 045a
त्वयि सर्वे स्म दृश्यन्ते सुरा ब्रह्मादयोऽनघ 045c
सर्वस्त्वमसि देवानां कर्ता कारयिता च ह 046a
त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः 046c
एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽब्रवीत् 047a
भगवंस्त्वत्प्रसादाद्वै तपो मे न क्षरेदिति 047c
ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत् 048a
तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा 048c
आश्रमे चेह वत्स्यामि त्वया सार्धमहं सदा 048e
सप्तसारस्वते चास्मिन्यो मामर्चिष्यते नरः 049a
न तस्य दुर्लभं किञ्चिद्भवितेह परत्र च 049c
सारस्वतं च लोकं ते गमिष्यन्ति न संशयः 049e
एतन्मङ्कणकस्यापि चरितं भूरितेजसः 050a
स हि पुत्रः सजन्यायामुत्पन्नो मातरिश्वना 050c