वैशम्पायन उवाच 001
ततो विनशनं राजन्नाजगाम हलायुधः 001a
शूद्राभीरान्प्रति द्वेषाद्यत्र नष्टा सरस्वती 001c
यस्मात्सा भरतश्रेष्ठ द्वेषान्नष्टा सरस्वती 002a
तस्मात्तदृषयो नित्यं प्राहुर्विनशनेति ह 002c
तच्चाप्युपस्पृश्य बलः सरस्वत्यां महाबलः 003a
सुभूमिकं ततोऽगच्छत्सरस्वत्यास्तटे वरे 003c
तत्र चाप्सरसः शुभ्रा नित्यकालमतन्द्रिताः 004a
क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः 004c
तत्र देवाः सगन्धर्वा मासि मासि जनेश्वर 005a
अभिगच्छन्ति तत्तीर्थं पुण्यं ब्राह्मणसेवितम् 005c
तत्रादृश्यन्त गन्धर्वास्तथैवाप्सरसां गणाः 006a
समेत्य सहिता राजन्यथाप्राप्तं यथासुखम् 006c
तत्र मोदन्ति देवाश्च पितरश्च सवीरुधः 007a
पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः 007c
आक्रीडभूमिः सा राजंस्तासामप्सरसां शुभा 008a
सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे 008c
तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः 009a
श्रुत्वा गीतं च तद्दिव्यं वादित्राणां च निःस्वनम् 009c
छायाश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम् 010a
गन्धर्वाणां ततस्तीर्थमागच्छद्रोहिणीसुतः 010c
विश्वावसुमुखास्तत्र गन्धर्वास्तपसान्विताः 011a
नृत्तवादित्रगीतं च कुर्वन्ति सुमनोरमम् 011c
तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु 012a
अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा 012c
भोजयित्वा द्विजान्कामैः सन्तर्प्य च महाधनैः 013a
प्रययौ सहितो विप्रैः स्तूयमानश्च माधवः 013c
तस्माद्गन्धर्वतीर्थाच्च महाबाहुररिन्दमः 014a
गर्गस्रोतो महातीर्थमाजगामैककुण्डली 014c
यत्र गर्गेण वृद्धेन तपसा भावितात्मना 015a
कालज्ञानगतिश्चैव ज्योतिषां च व्यतिक्रमः 015c
उत्पाता दारुणाश्चैव शुभाश्च जनमेजय 016a
सरस्वत्याः शुभे तीर्थे विहिता वै महात्मना 016c
तस्य नाम्ना च तत्तीर्थं गर्गस्रोत इति स्मृतम् 016e
तत्र गर्गं महाभागमृषयः सुव्रता नृप 017a
उपासां चक्रिरे नित्यं कालज्ञानं प्रति प्रभो 017c
तत्र गत्वा महाराज बलः श्वेतानुलेपनः 018a
विधिवद्धि धनं दत्त्वा मुनीनां भावितात्मनाम् 018c
उच्चावचांस्तथा भक्ष्यान्द्विजेभ्यो विप्रदाय सः 019a
नीलवासास्ततोऽगच्छच्छङ्खतीर्थं महायशाः 019c
तत्रापश्यन्महाशङ्खं महामेरुमिवोच्छ्रितम् 020a
श्वेतपर्वतसङ्काशमृषिसङ्घैर्निषेवितम् 020c
सरस्वत्यास्तटे जातं नगं तालध्वजो बली 020e
यक्षा विद्याधराश्चैव राक्षसाश्चामितौजसः 021a
पिशाचाश्चामितबला यत्र सिद्धाः सहस्रशः 021c
ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः 022a
व्रतैश्च नियमैश्चैव काले काले स्म भुञ्जते 022c
प्राप्तैश्च नियमैस्तैस्तैर्विचरन्तः पृथक्पृथक् 023a
अदृश्यमाना मनुजैर्व्यचरन्पुरुषर्षभ 023c
एवं ख्यातो नरपते लोकेऽस्मिन्स वनस्पतिः 024a
तत्र तीर्थं सरस्वत्याः पावनं लोकविश्रुतम् 024c
तस्मिंश्च यदुशार्दूलो दत्त्वा तीर्थे यशस्विनाम् 025a
ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च 025c
पूजयित्वा द्विजांश्चैव पूजितश्च तपोधनैः 026a
पुण्यं द्वैतवनं राजन्नाजगाम हलायुधः 026c
तत्र गत्वा मुनीन्दृष्ट्वा नानावेषधरान्बलः 027a
आप्लुत्य सलिले चापि पूजयामास वै द्विजान् 027c
तथैव दत्त्वा विप्रेभ्यः परिभोगान्सुपुष्कलान् 028a
ततः प्रायाद्बलो राजन्दक्षिणेन सरस्वतीम् 028c
गत्वा चैव महाबाहुर्नातिदूरं महायशाः 029a
धर्मात्मा नागधन्वानं तीर्थमागमदच्युतः 029c
यत्र पन्नगराजस्य वासुकेः सन्निवेशनम् 030a
महाद्युतेर्महाराज बहुभिः पन्नगैर्वृतम् 030c
यत्रासन्नृषयः सिद्धाः सहस्राणि चतुर्दश 030e
यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम् 031a
सर्वपन्नगराजानमभ्यषिञ्चन्यथाविधि 031c
पन्नगेभ्यो भयं तत्र विद्यते न स्म कौरव 031e
तत्रापि विधिवद्दत्त्वा विप्रेभ्यो रत्नसञ्चयान् 032a
प्रायात्प्राचीं दिशं राजन्दीप्यमानः स्वतेजसा 032c
आप्लुत्य बहुशो हृष्टस्तेषु तीर्थेषु लाङ्गली 033a
दत्त्वा वसु द्विजातिभ्यो जगामाति तपस्विनः 033c
तत्रस्थानृषिसङ्घांस्तानभिवाद्य हलायुधः 034a
ततो रामोऽगमत्तीर्थमृषिभिः सेवितं महत् 034c
यत्र भूयो निववृते प्राङ्मुखा वै सरस्वती 035a
ऋषीणां नैमिषेयाणामवेक्षार्थं महात्मनाम् 035c
निवृत्तां तां सरिच्छ्रेष्ठां तत्र दृष्ट्वा तु लाङ्गली 036a
बभूव विस्मितो राजन्बलः श्वेतानुलेपनः 036c
जनमेजय उवाच 037
कस्मात्सरस्वती ब्रह्मन्निवृत्ता प्राङ्मुखी ततः 037a
व्याख्यातुमेतदिच्छामि सर्वमध्वर्युसत्तम 037c
कस्मिंश्च कारणे तत्र विस्मितो यदुनन्दनः 038a
विनिवृत्ता सरिच्छ्रेष्ठा कथमेतद्द्विजोत्तम 038c
वैशम्पायन उवाच 039
पूर्वं कृतयुगे राजन्नैमिषेयास्तपस्विनः 039a
वर्तमाने सुबहुले सत्रे द्वादशवार्षिके 039c
ऋषयो बहवो राजंस्तत्र सम्प्रतिपेदिरे 039e
उषित्वा च महाभागास्तस्मिन्सत्रे यथाविधि 040a
निवृत्ते नैमिषेये वै सत्रे द्वादशवार्षिके 040c
आजग्मुरृषयस्तत्र बहवस्तीर्थकारणात् 040e
ऋषीणां बहुलत्वात्तु सरस्वत्या विशां पते 041a
तीर्थानि नगरायन्ते कूले वै दक्षिणे तदा 041c
समन्तपञ्चकं यावत्तावत्ते द्विजसत्तमाः 042a
तीर्थलोभान्नरव्याघ्र नद्यास्तीरं समाश्रिताः 042c
जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम् 043a
स्वाध्यायेनापि महता बभूवुः पूरिता दिशः 043c
अग्निहोत्रैस्ततस्तेषां हूयमानैर्महात्मनाम् 044a
अशोभत सरिच्छ्रेष्ठा दीप्यमानैः समन्ततः 044c
वालखिल्या महाराज अश्मकुट्टाश्च तापसाः 045a
दन्तोलूखलिनश्चान्ये सम्प्रक्षालास्तथापरे 045c
वायुभक्षा जलाहाराः पर्णभक्षाश्च तापसाः 046a
नानानियमयुक्ताश्च तथा स्थण्डिलशायिनः 046c
आसन्वै मुनयस्तत्र सरस्वत्याः समीपतः 047a
शोभयन्तः सरिच्छ्रेष्ठां गङ्गामिव दिवौकसः 047c
ततः पश्चात्समापेतुरृषयः सत्रयाजिनः 048a
तेऽवकाशं न ददृशुः कुरुक्षेत्रे महाव्रताः 048c
ततो यज्ञोपवीतैस्ते तत्तीर्थं निर्मिमाय वै 049a
जुहुवुश्चाग्निहोत्राणि चक्रुश्च विविधाः क्रियाः 049c
ततस्तमृषिसङ्घातं निराशं चिन्तयान्वितम् 050a
दर्शयामास राजेन्द्र तेषामर्थे सरस्वती 050c
ततः कुञ्जान्बहून्कृत्वा सन्निवृत्ता सरिद्वरा 051a
ऋषीणां पुण्यतपसां कारुण्याज्जनमेजय 051c
ततो निवृत्य राजेन्द्र तेषामर्थे सरस्वती 052a
भूयः प्रतीच्यभिमुखी सुस्राव सरितां वरा 052c
अमोघा गमनं कृत्वा तेषां भूयो व्रजाम्यहम् 053a
इत्यद्भुतं महच्चक्रे ततो राजन्महानदी 053c
एवं स कुञ्जो राजेन्द्र नैमिषेय इति स्मृतः 054a
कुरुक्षेत्रे कुरुश्रेष्ठ कुरुष्व महतीः क्रियाः 054c
तत्र कुञ्जान्बहून्दृष्ट्वा सन्निवृत्तां च तां नदीम् 055a
बभूव विस्मयस्तत्र रामस्याथ महात्मनः 055c
उपस्पृश्य तु तत्रापि विधिवद्यदुनन्दनः 056a
दत्त्वा दायान्द्विजातिभ्यो भाण्डानि विविधानि च 056c
भक्ष्यं पेयं च विविधं ब्राह्मणान्प्रत्यपादयत् 056e
ततः प्रायाद्बलो राजन्पूज्यमानो द्विजातिभिः 057a
सरस्वतीतीर्थवरं नानाद्विजगणायुतम् 057c
बदरेङ्गुदकाश्मर्यप्लक्षाश्वत्थविभीतकैः 058a
पनसैश्च पलाशैश्च करीरैः पीलुभिस्तथा 058c
सरस्वतीतीररुहैर्बन्धनैः स्यन्दनैस्तथा 059a
परूषकवनैश्चैव बिल्वैराम्रातकैस्तथा 059c
अतिमुक्तकषण्डैश्च पारिजातैश्च शोभितम् 060a
कदलीवनभूयिष्ठमिष्टं कान्तं मनोरमम् 060c
वाय्वम्बुफलपर्णादैर्दन्तोलूखलिकैरपि 061a
तथाश्मकुट्टैर्वानेयैर्मुनिभिर्बहुभिर्वृतम् 061c
स्वाध्यायघोषसङ्घुष्टं मृगयूथशताकुलम् 062a
अहिंस्रैर्धर्मपरमैर्नृभिरत्यन्तसेवितम् 062c
सप्तसारस्वतं तीर्थमाजगाम हलायुधः 063a
यत्र मङ्कणकः सिद्धस्तपस्तेपे महामुनिः 063c