वैशम्पायन उवाच 001
तस्मान्नदीगतं चापि उदपानं यशस्विनः 001a
त्रितस्य च महाराज जगामाथ हलायुधः 001c
तत्र दत्त्वा बहु द्रव्यं पूजयित्वा तथा द्विजान् 002a
उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः 002c
तत्र धर्मपरो ह्यासीत्त्रितः स सुमहातपाः 003a
कूपे च वसता तेन सोमः पीतो महात्मना 003c
तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्गृहान् 004a
ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः 004c
जनमेजय उवाच 005
उदपानं कथं ब्रह्मन्कथं च सुमहातपाः 005a
पतितः किं च सन्त्यक्तो भ्रातृभ्यां द्विजसत्तमः 005c
कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर्गृहान् 006a
एतदाचक्ष्व मे ब्रह्मन्यदि श्राव्यं हि मन्यसे 006c
वैशम्पायन उवाच 007
आसन्पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः 007a
एकतश्च द्वितश्चैव त्रितश्चादित्यसन्निभाः 007c
सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च 008a
ब्रह्मलोकजितः सर्वे तपसा ब्रह्मवादिनः 008c
तेषां तु तपसा प्रीतो नियमेन दमेन च 009a
अभवद्गौतमो नित्यं पिता धर्मरतः सदा 009c
स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च 010a
जगाम भगवान्स्थानमनुरूपमिवात्मनः 010c
राजानस्तस्य ये पूर्वे याज्या ह्यासन्महात्मनः 011a
ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन् 011c
तेषां तु कर्मणा राजंस्तथैवाध्ययनेन च 012a
त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा 012c
तं स्म सर्वे महाभागा मुनयः पुण्यलक्षणाः 013a
अपूजयन्महाभागं तथा विद्वत्तयैव तु 013c
कदाचिद्धि ततो राजन्भ्रातरावेकतद्वितौ 014a
यज्ञार्थं चक्रतुश्चित्तं धनार्थं च विशेषतः 014c
तयोश्चिन्ता समभवत्त्रितं गृह्य परन्तप 015a
याज्यान्सर्वानुपादाय प्रतिगृह्य पशूंस्ततः 015c
सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम् 016a
चक्रुश्चैव महाराज भ्रातरस्त्रय एव ह 016c
तथा तु ते परिक्रम्य याज्यान्सर्वान्पशून्प्रति 017a
याजयित्वा ततो याज्याल्ँलब्ध्वा च सुबहून्पशून् 017c
याज्येन कर्मणा तेन प्रतिगृह्य विधानतः 018a
प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः 018c
त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत् 019a
एकतश्च द्वितश्चैव पृष्ठतः कालयन्पशून् 019c
तयोश्चिन्ता समभवद्दृष्ट्वा पशुगणं महत् 020a
कथं न स्युरिमा गाव आवाभ्यां वै विना त्रितम् 020c
तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह 021a
यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर 021c
त्रितो यज्ञेषु कुशलस्त्रितो वेदेषु निष्ठितः 022a
अन्यास्त्रितो बहुतरा गावः समुपलप्स्यते 022c
तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे 023a
त्रितोऽपि गच्छतां काममावाभ्यां वै विनाकृतः 023c
तेषामागच्छतां रात्रौ पथिस्थाने वृकोऽभवत् 024a
तथा कूपोऽविदूरेऽभूत्सरस्वत्यास्तटे महान् 024c
अथ त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः 025a
तद्भयादपसर्पन्वै तस्मिन्कूपे पपात ह 025c
अगाधे सुमहाघोरे सर्वभूतभयङ्करे 025e
त्रितस्ततो महाभागः कूपस्थो मुनिसत्तमः 026a
आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी 026c
तं ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ 027a
वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः 027c
भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः 028a
उदपाने महाराज निर्जले पांसुसंवृते 028c
त्रित आत्मानमालक्ष्य कूपे वीरुत्तृणावृते 029a
निमग्नं भरतश्रेष्ठ पापकृन्नरके यथा 029c
बुद्ध्या ह्यगणयत्प्राज्ञो मृत्योर्भीतो ह्यसोमपः 030a
सोमः कथं नु पातव्य इहस्थेन मया भवेत् 030c
स एवमनुसञ्चिन्त्य तस्मिन्कूपे महातपाः 031a
ददर्श वीरुधं तत्र लम्बमानां यदृच्छया 031c
पांसुग्रस्ते ततः कूपे विचिन्त्य सलिलं मुनिः 032a
अग्नीन्सङ्कल्पयामास होत्रे चात्मानमेव च 032c
ततस्तां वीरुधं सोमं सङ्कल्प्य सुमहातपाः 033a
ऋचो यजूंषि सामानि मनसा चिन्तयन्मुनिः 033c
ग्रावाणः शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप 033e
आज्यं च सलिलं चक्रे भागांश्च त्रिदिवौकसाम् 034a
सोमस्याभिषवं कृत्वा चकार तुमुलं ध्वनिम् 034c
स चाविशद्दिवं राजन्स्वरः शैक्षस्त्रितस्य वै 035a
समवाप च तं यज्ञं यथोक्तं ब्रह्मवादिभिः 035c
वर्तमाने तथा यज्ञे त्रितस्य सुमहात्मनः 036a
आविग्नं त्रिदिवं सर्वं कारणं च न बुध्यते 036c
ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः 037a
श्रुत्वा चैवाब्रवीद्देवान्सर्वान्देवपुरोहितः 037c
त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः 038a
स हि क्रुद्धः सृजेदन्यान्देवानपि महातपाः 038c
तच्छ्रुत्वा वचनं तस्य सहिताः सर्वदेवताः 039a
प्रययुस्तत्र यत्रासौ त्रितयज्ञः प्रवर्तते 039c
ते तत्र गत्वा विबुधास्तं कूपं यत्र स त्रितः 040a
ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु 040c
दृष्ट्वा चैनं महात्मानं श्रिया परमया युतम् 041a
ऊचुश्चाथ महाभागं प्राप्ता भागार्थिनो वयम् 041c
अथाब्रवीदृषिर्देवान्पश्यध्वं मां दिवौकसः 042a
अस्मिन्प्रतिभये कूपे निमग्नं नष्टचेतसम् 042c
ततस्त्रितो महाराज भागांस्तेषां यथाविधि 043a
मन्त्रयुक्तान्समददात्ते च प्रीतास्तदाभवन् 043c
ततो यथाविधि प्राप्तान्भागान्प्राप्य दिवौकसः 044a
प्रीतात्मानो ददुस्तस्मै वरान्यान्मनसेच्छति 044c
स तु वव्रे वरं देवांस्त्रातुमर्हथ मामितः 045a
यश्चेहोपस्पृशेत्कूपे स सोमपगतिं लभेत् 045c
तत्र चोर्मिमती राजन्नुत्पपात सरस्वती 046a
तयोत्क्षिप्तस्त्रितस्तस्थौ पूजयंस्त्रिदिवौकसः 046c
तथेति चोक्त्वा विबुधा जग्मू राजन्यथागतम् 047a
त्रितश्चाप्यगमत्प्रीतः स्वमेव निलयं तदा 047c
क्रुद्धः स तु समासाद्य तावृषी भ्रातरौ तदा 048a
उवाच परुषं वाक्यं शशाप च महातपाः 048c
पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ 049a
तस्माद्रूपेण तेषां वै दंष्ट्रिणामभितश्चरौ 049c
भवितारौ मया शप्तौ पापेनानेन कर्मणा 050a
प्रसवश्चैव युवयोर्गोलाङ्गूलर्क्षवानराः 050c
इत्युक्ते तु तदा तेन क्षणादेव विशां पते 051a
तथाभूतावदृश्येतां वचनात्सत्यवादिनः 051c
तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः 052a
दत्त्वा च विविधान्दायान्पूजयित्वा च वै द्विजान् 052c
उदपानं च तं दृष्ट्वा प्रशस्य च पुनः पुनः 053a
नदीगतमदीनात्मा प्राप्तो विनशनं तदा 053c