जनमेजय उवाच 001
पूर्वमेव यदा रामस्तस्मिन्युद्ध उपस्थिते 001a
आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः 001c
साहाय्यं धार्तराष्ट्रस्य न च कर्तास्मि केशव 002a
न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम् 002c
एवमुक्त्वा तदा रामो यातः शत्रुनिबर्हणः 003a
तस्य चागमनं भूयो ब्रह्मञ्शंसितुमर्हसि 003c
आख्याहि मे विस्तरतः कथं राम उपस्थितः 004a
कथं च दृष्टवान्युद्धं कुशलो ह्यसि सत्तम 004c
वैशम्पायन उवाच 005
उपप्लव्ये निविष्टेषु पाण्डवेषु महात्मसु 005a
प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः 005c
शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम् 005e
स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च 006a
उक्तवान्वचनं तथ्यं हितं चैव विशेषतः 006c
न च तत्कृतवान्राजा यथाख्यातं हि ते पुरा 006e
अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः 007a
आगच्छत महाबाहुरुपप्लव्यं जनाधिप 007c
ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः 008a
अक्रियायां नरव्याघ्र पाण्डवानिदमब्रवीत् 008c
न कुर्वन्ति वचो मह्यं कुरवः कालचोदिताः 009a
निर्गच्छध्वं पाण्डवेयाः पुष्येण सहिता मया 009c
ततो विभज्यमानेषु बलेषु बलिनां वरः 010a
प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः 010c
तेषामपि महाबाहो साहाय्यं मधुसूदन 011a
क्रियतामिति तत्कृष्णो नास्य चक्रे वचस्तदा 011c
ततो मन्युपरीतात्मा जगाम यदुनन्दनः 012a
तीर्थयात्रां हलधरः सरस्वत्यां महायशाः 012c
मैत्रे नक्षत्रयोगे स्म सहितः सर्वयादवैः 012e
आश्रयामास भोजस्तु दुर्योधनमरिन्दमः 013a
युयुधानेन सहितो वासुदेवस्तु पाण्डवान् 013c
रौहिणेये गते शूरे पुष्येण मधुसूदनः 014a
पाण्डवेयान्पुरस्कृत्य ययावभिमुखः कुरून् 014c
गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह 015a
सम्भारांस्तीर्थयात्रायां सर्वोपकरणानि च 015c
आनयध्वं द्वारकाया अग्नीन्वै याजकांस्तथा 015e
सुवर्णं रजतं चैव धेनूर्वासांसि वाजिनः 016a
कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च 016c
क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम् 016e
प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः 017a
ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान् 017c
एवं सन्दिश्य तु प्रेष्यान्बलदेवो महाबलः 018a
तीर्थयात्रां ययौ राजन्कुरूणां वैशसे तदा 018c
सरस्वतीं प्रतिस्रोतः समुद्रादभिजग्मिवान् 018e
ऋत्विग्भिश्च सुहृद्भिश्च तथान्यैर्द्विजसत्तमैः 019a
रथैर्गजैस्तथाश्वैश्च प्रेष्यैश्च भरतर्षभ 019c
गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः 019e
श्रान्तानां क्लान्तवपुषां शिशूनां विपुलायुषाम् 020a
तानि यानानि देशेषु प्रतीक्ष्यन्ते स्म भारत 020c
बुभुक्षितानामर्थाय कॢप्तमन्नं समन्ततः 020e
यो यो यत्र द्विजो भोक्तुं कामं कामयते तदा 021a
तस्य तस्य तु तत्रैवमुपजह्रुस्तदा नृप 021c
तत्र स्थिता नरा राजन्रौहिणेयस्य शासनात् 022a
भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः 022c
वासांसि च महार्हाणि पर्यङ्कास्तरणानि च 023a
पूजार्थं तत्र कॢप्तानि विप्राणां सुखमिच्छताम् 023c
यत्र यः स्वपते विप्रः क्षत्रियो वापि भारत 024a
तत्र तत्र तु तस्यैव सर्वं कॢप्तमदृश्यत 024c
यथासुखं जनः सर्वस्तिष्ठते याति वा तदा 025a
यातुकामस्य यानानि पानानि तृषितस्य च 025c
बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ 026a
उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च 026c
स पन्थाः प्रबभौ राजन्सर्वस्यैव सुखावहः 027a
स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम् 027c
नित्यप्रमुदितोपेतः स्वादुभक्षः शुभान्वितः 028a
विपण्यापणपण्यानां नानाजनशतैर्वृतः 028c
नानाद्रुमलतोपेतो नानारत्नविभूषितः 028e
ततो महात्मा नियमे स्थितात्मा पुण्येषु तीर्थेषु वसूनि राजन् 029a
ददौ द्विजेभ्यः क्रतुदक्षिणाश्च यदुप्रवीरो हलभृत्प्रतीतः 029c
दोग्ध्रीश्च धेनूश्च सहस्रशो वै सुवाससः काञ्चनबद्धशृङ्गीः 030a
हयांश्च नानाविधदेशजातान्यानानि दासीश्च तथा द्विजेभ्यः 030c
रत्नानि मुक्तामणिविद्रुमं च शृङ्गीसुवर्णं रजतं च शुभ्रम् 031a
अयस्मयं ताम्रमयं च भाण्डं ददौ द्विजातिप्रवरेषु रामः 031c
एवं स वित्तं प्रददौ महात्मा सरस्वतीतीर्थवरेषु भूरि 032a
ययौ क्रमेणाप्रतिमप्रभावस्ततः कुरुक्षेत्रमुदारवृत्तः 032c
जनमेजय उवाच 033
सारस्वतानां तीर्थानां गुणोत्पत्तिं वदस्व मे 033a
फलं च द्विपदां श्रेष्ठ कर्मनिर्वृत्तिमेव च 033c
यथाक्रमं च भगवंस्तीर्थानामनुपूर्वशः 034a
ब्रह्मन्ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे 034c
वैशम्पायन उवाच 035
तीर्थानां विस्तरं राजन्गुणोत्पत्तिं च सर्वशः 035a
मयोच्यमानां शृणु वै पुण्यां राजेन्द्र कृत्स्नशः 035c
पूर्वं महाराज यदुप्रवीर ऋत्विक्सुहृद्विप्रगणैश्च सार्धम् 036a
पुण्यं प्रभासं समुपाजगाम यत्रोडुराड्यक्ष्मणा क्लिश्यमानः 036c
विमुक्तशापः पुनराप्य तेजः सर्वं जगद्भासयते नरेन्द्र 037a
एवं तु तीर्थप्रवरं पृथिव्यां प्रभासनात्तस्य ततः प्रभासः 037c
जनमेजय उवाच 038
किमर्थं भगवान्सोमो यक्ष्मणा समगृह्यत 038a
कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत 038c
कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी 039a
एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने 039c
वैशम्पायन उवाच 040
दक्षस्य तनया यास्ताः प्रादुरासन्विशां पते 040a
स सप्तविंशतिं कन्या दक्षः सोमाय वै ददौ 040c
नक्षत्रयोगनिरताः सङ्ख्यानार्थं च भारत 041a
पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभलक्षणाः 041c
तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमा भुवि 042a
अत्यरिच्यत तासां तु रोहिणी रूपसम्पदा 042c
ततस्तस्यां स भगवान्प्रीतिं चक्रे निशाकरः 043a
सास्य हृद्या बभूवाथ तस्मात्तां बुभुजे सदा 043c
पुरा हि सोमो राजेन्द्र रोहिण्यामवसच्चिरम् 044a
ततोऽस्य कुपितान्यासन्नक्षत्राणि महात्मनः 044c
ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः 045a
सोमो वसति नास्मासु रोहिणीं भजते सदा 045c
ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर 046a
वत्स्यामो नियताहारास्तपश्चरणतत्पराः 046c
श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत् 047a
समं वर्तस्व भार्यासु मा त्वाधर्मो महान्स्पृशेत् 047c
ताश्च सर्वाब्रवीद्दक्षो गच्छध्वं सोममन्तिकात् 048a
समं वत्स्यति सर्वासु चन्द्रमा मम शासनात् 048c
विसृष्टास्तास्तदा जग्मुः शीतांशुभवनं तदा 049a
तथापि सोमो भगवान्पुनरेव महीपते 049c
रोहिणीं निवसत्येव प्रीयमाणो मुहुर्मुहुः 049e
ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन् 050a
तव शुश्रूषणे युक्ता वत्स्यामो हि तवाश्रमे 050c
सोमो वसति नास्मासु नाकरोद्वचनं तव 050e
तासां तद्वचनं श्रुत्वा दक्षः सोममथाब्रवीत् 051a
समं वर्तस्व भार्यासु मा त्वां शप्स्ये विरोचन 051c
अनादृत्य तु तद्वाक्यं दक्षस्य भगवाञ्शशी 052a
रोहिण्या सार्धमवसत्ततस्ताः कुपिताः पुनः 052c
गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा 053a
सोमो वसति नास्मासु तस्मान्नः शरणं भव 053c
रोहिण्यामेव भगवन्सदा वसति चन्द्रमाः 054a
तस्मान्नस्त्राहि सर्वा वै यथा नः सोम आविशेत् 054c
तच्छ्रुत्वा भगवान्क्रुद्धो यक्ष्माणं पृथिवीपते 055a
ससर्ज रोषात्सोमाय स चोडुपतिमाविशत् 055c
स यक्ष्मणाभिभूतात्माक्षीयताहरहः शशी 056a
यत्नं चाप्यकरोद्राजन्मोक्षार्थं तस्य यक्ष्मणः 056c
इष्ट्वेष्टिभिर्महाराज विविधाभिर्निशाकरः 057a
न चामुच्यत शापाद्वै क्षयं चैवाभ्यगच्छत 057c
क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे 058a
निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः 058c
ओषधीनां क्षये जाते प्राणिनामपि सङ्क्षयः 059a
कृशाश्चासन्प्रजाः सर्वाः क्षीयमाणे निशाकरे 059c
ततो देवाः समागम्य सोममूचुर्महीपते 060a
किमिदं भवतो रूपमीदृशं न प्रकाशते 060c
कारणं ब्रूहि नः सर्वं येनेदं ते महद्भयम् 061a
श्रुत्वा तु वचनं त्वत्तो विधास्यामस्ततो वयम् 061c
एवमुक्तः प्रत्युवाच सर्वांस्ताञ्शशलक्षणः 062a
शापं च कारणं चैव यक्ष्माणं च तथात्मनः 062c
देवास्तस्य वचः श्रुत्वा गत्वा दक्षमथाब्रुवन् 063a
प्रसीद भगवन्सोमे शापश्चैष निवर्त्यताम् 063c
असौ हि चन्द्रमाः क्षीणः किञ्चिच्छेषो हि लक्ष्यते 064a
क्षयाच्चैवास्य देवेश प्रजाश्चापि गताः क्षयम् 064c
वीरुदोषधयश्चैव बीजानि विविधानि च 065a
तथा वयं लोकगुरो प्रसादं कर्तुमर्हसि 065c
एवमुक्तस्तदा चिन्त्य प्राह वाक्यं प्रजापतिः 066a
नैतच्छक्यं मम वचो व्यावर्तयितुमन्यथा 066c
हेतुना तु महाभागा निवर्तिष्यति केनचित् 066e
समं वर्ततु सर्वासु शशी भार्यासु नित्यशः 067a
सरस्वत्या वरे तीर्थे उन्मज्जञ्शशलक्षणः 067c
पुनर्वर्धिष्यते देवास्तद्वै सत्यं वचो मम 067e
मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति 068a
मासार्धं च सदा वृद्धिं सत्यमेतद्वचो मम 068c
सरस्वतीं ततः सोमो जगाम ऋषिशासनात् 069a
प्रभासं परमं तीर्थं सरस्वत्या जगाम ह 069c
अमावास्यां महातेजास्तत्रोन्मज्जन्महाद्युतिः 070a
लोकान्प्रभासयामास शीतांशुत्वमवाप च 070c
देवाश्च सर्वे राजेन्द्र प्रभासं प्राप्य पुष्कलम् 071a
सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन् 071c
ततः प्रजापतिः सर्वा विससर्जाथ देवताः 072a
सोमं च भगवान्प्रीतो भूयो वचनमब्रवीत् 072c
मावमंस्थाः स्त्रियः पुत्र मा च विप्रान्कदाचन 073a
गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम 073c
स विसृष्टो महाराज जगामाथ स्वमालयम् 074a
प्रजाश्च मुदिता भूत्वा भोजने च यथा पुरा 074c
एतत्ते सर्वमाख्यातं यथा शप्तो निशाकरः 075a
प्रभासं च यथा तीर्थं तीर्थानां प्रवरं ह्यभूत् 075c
अमावास्यां महाराज नित्यशः शशलक्षणः 076a
स्नात्वा ह्याप्यायते श्रीमान्प्रभासे तीर्थ उत्तमे 076c
अतश्चैनं प्रजानन्ति प्रभासमिति भूमिप 077a
प्रभां हि परमां लेभे तस्मिन्नुन्मज्ज्य चन्द्रमाः 077c
ततस्तु चमसोद्भेदमच्युतस्त्वगमद्बली 078a
चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत 078c
तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः 079a
उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा 079c
उदपानमथागच्छत्त्वरावान्केशवाग्रजः 080a
आद्यं स्वस्त्ययनं चैव तत्रावाप्य महत्फलम् 080c
स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय 081a
जानन्ति सिद्धा राजेन्द्र नष्टामपि सरस्वतीम् 081c