सञ्जय उवाच 001
तस्मिन्युद्धे महाराज सम्प्रवृत्ते सुदारुणे 001a
उपविष्टेषु सर्वेषु पाण्डवेषु महात्मसु 001c
ततस्तालध्वजो रामस्तयोर्युद्ध उपस्थिते 002a
श्रुत्वा तच्छिष्ययो राजन्नाजगाम हलायुधः 002c
तं दृष्ट्वा परमप्रीताः पूजयित्वा नराधिपाः 003a
शिष्ययोः कौशलं युद्धे पश्य रामेति चाब्रुवन् 003c
अब्रवीच्च तदा रामो दृष्ट्वा कृष्णं च पाण्डवम् 004a
दुर्योधनं च कौरव्यं गदापाणिमवस्थितम् 004c
चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै 005a
पुष्येण सम्प्रयातोऽस्मि श्रवणे पुनरागतः 005c
शिष्ययोर्वै गदायुद्धं द्रष्टुकामोऽस्मि माधव 005e
ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम् 006a
स्वागतं कुशलं चास्मै पर्यपृच्छद्यथातथम् 006c
कृष्णौ चापि महेष्वासावभिवाद्य हलायुधम् 007a
सस्वजाते परिप्रीतौ प्रियमाणौ यशस्विनौ 007c
माद्रीपुत्रौ तथा शूरौ द्रौपद्याः पञ्च चात्मजाः 008a
अभिवाद्य स्थिता राजन्रौहिणेयं महाबलम् 008c
भीमसेनोऽथ बलवान्पुत्रस्तव जनाधिप 009a
तथैव चोद्यतगदौ पूजयामासतुर्बलम् 009c
स्वागतेन च ते तत्र प्रतिपूज्य पुनः पुनः 010a
पश्य युद्धं महाबाहो इति ते राममब्रुवन् 010c
एवमूचुर्महात्मानं रौहिणेयं नराधिपाः 010e
परिष्वज्य तदा रामः पाण्डवान्सृञ्जयानपि 011a
अपृच्छत्कुशलं सर्वान्पाण्डवांश्चामितौजसः 011c
तथैव ते समासाद्य पप्रच्छुस्तमनामयम् 011e
प्रत्यभ्यर्च्य हली सर्वान्क्षत्रियांश्च महामनाः 012a
कृत्वा कुशलसंयुक्तां संविदं च यथावयः 012c
जनार्दनं सात्यकिं च प्रेम्णा स परिषस्वजे 013a
मूर्ध्नि चैतावुपाघ्राय कुशलं पर्यपृच्छत 013c
तौ चैनं विधिवद्राजन्पूजयामासतुर्गुरुम् 014a
ब्रह्माणमिव देवेशमिन्द्रोपेन्द्रौ मुदा युतौ 014c
ततोऽब्रवीद्धर्मसुतो रौहिणेयमरिन्दमम् 015a
इदं भ्रात्रोर्महायुद्धं पश्य रामेति भारत 015c
तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः 016a
न्यविशत्परमप्रीतः पूज्यमानो महारथैः 016c
स बभौ राजमध्यस्थो नीलवासाः सितप्रभः 017a
दिवीव नक्षत्रगणैः परिकीर्णो निशाकरः 017c
ततस्तयोः सन्निपातस्तुमुलो रोमहर्षणः 018a
आसीदन्तकरो राजन्वैरस्य तव पुत्रयोः 018c