सञ्जय उवाच 001
एवं दुर्योधने राजन्गर्जमाने मुहुर्मुहुः 001a
युधिष्ठिरस्य सङ्क्रुद्धो वासुदेवोऽब्रवीदिदम् 001c
यदि नाम ह्ययं युद्धे वरयेत्त्वां युधिष्ठिर 002a
अर्जुनं नकुलं वापि सहदेवमथापि वा 002c
किमिदं साहसं राजंस्त्वया व्याहृतमीदृशम् 003a
एकमेव निहत्याजौ भव राजा कुरुष्विति 003c
एतेन हि कृता योग्या वर्षाणीह त्रयोदश 004a
आयसे पुरुषे राजन्भीमसेनजिघांसया 004c
कथं नाम भवेत्कार्यमस्माभिर्भरतर्षभ 005a
साहसं कृतवांस्त्वं तु ह्यनुक्रोशान्नृपोत्तम 005c
नान्यमस्यानुपश्यामि प्रतियोद्धारमाहवे 006a
ऋते वृकोदरात्पार्थात्स च नातिकृतश्रमः 006c
तदिदं द्यूतमारब्धं पुनरेव यथा पुरा 007a
विषमं शकुनेश्चैव तव चैव विशां पते 007c
बली भीमः समर्थश्च कृती राजा सुयोधनः 008a
बलवान्वा कृती वेति कृती राजन्विशिष्यते 008c
सोऽयं राजंस्त्वया शत्रुः समे पथि निवेशितः 009a
न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम् 009c
को नु सर्वान्विनिर्जित्य शत्रूनेकेन वैरिणा 010a
पणित्वा चैकपाणेन रोचयेदेवमाहवम् 010c
न हि पश्यामि तं लोके गदाहस्तं नरोत्तमम् 011a
युध्येद्दुर्योधनं सङ्ख्ये कृतित्वाद्धि विशेषयेत् 011c
फल्गुनं वा भवन्तं वा माद्रीपुत्रावथापि वा 012a
न समर्थानहं मन्ये गदाहस्तस्य संयुगे 012c
स कथं वदसे शत्रुं युध्यस्व गदयेति ह 013a
एकं च नो निहत्याजौ भव राजेति भारत 013c
वृकोदरं समासाद्य संशयो विजये हि नः 014a
न्यायतो युध्यमानानां कृती ह्येष महाबलः 014c
भीम उवाच 015
मधुसूदन मा कार्षीर्विषादं यदुनन्दन 015a
अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम् 015c
अहं सुयोधनं सङ्ख्ये हनिष्यामि न संशयः 016a
विजयो वै ध्रुवं कृष्ण धर्मराजस्य दृश्यते 016c
अध्यर्धेन गुणेनेयं गदा गुरुतरी मम 017a
न तथा धार्तराष्ट्रस्य मा कार्षीर्माधव व्यथाम् 017c
सामरानपि लोकांस्त्रीन्नानाशस्त्रधरान्युधि 018a
योधयेयं रणे हृष्टः किमुताद्य सुयोधनम् 018c
सञ्जय उवाच 019
तथा सम्भाषमाणं तु वासुदेवो वृकोदरम् 019a
हृष्टः सम्पूजयामास वचनं चेदमब्रवीत् 019c
त्वामाश्रित्य महाबाहो धर्मराजो युधिष्ठिरः 020a
निहतारिः स्वकां दीप्तां श्रियं प्राप्तो न संशयः 020c
त्वया विनिहताः सर्वे धृतराष्ट्रसुता रणे 021a
राजानो राजपुत्राश्च नागाश्च विनिपातिताः 021c
कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस्तथा 022a
त्वामासाद्य महायुद्धे निहताः पाण्डुनन्दन 022c
हत्वा दुर्योधनं चापि प्रयच्छोर्वीं ससागराम् 023a
धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः 023c
त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनङ्क्ष्यति 024a
त्वमस्य सक्थिनी भङ्क्त्वा प्रतिज्ञां पारयिष्यसि 024c
यत्नेन तु सदा पार्थ योद्धव्यो धृतराष्ट्रजः 025a
कृती च बलवांश्चैव युद्धशौण्डश्च नित्यदा 025c
ततस्तु सात्यकी राजन्पूजयामास पाण्डवम् 026a
विविधाभिश्च तां वाग्भिः पूजयामास माधवः 026c
पाञ्चालाः पाण्डवेयाश्च धर्मराजपुरोगमाः 027a
तद्वचो भीमसेनस्य सर्व एवाभ्यपूजयन् 027c
ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत् 028a
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् 028c
अहमेतेन सङ्गम्य संयुगे योद्धुमुत्सहे 029a
न हि शक्तो रणे जेतुं मामेष पुरुषाधमः 029c
अद्य क्रोधं विमोक्ष्यामि निहितं हृदये भृशम् 030a
सुयोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः 030c
शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् 031a
निहत्य गदया पापमद्य राजन्सुखी भव 031c
अद्य कीर्तिमयीं मालां प्रतिमोक्ष्ये तवानघ 032a
प्राणाञ्श्रियं च राज्यं च मोक्ष्यतेऽद्य सुयोधनः 032c
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम् 033a
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् 033c
इत्युक्त्वा भरतश्रेष्ठो गदामुद्यम्य वीर्यवान् 034a
उदतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् 034c
तमेकाकिनमासाद्य धार्तराष्ट्रं महाबलम् 035a
निर्यूथमिव मातङ्गं समहृष्यन्त पाण्डवाः 035c
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् 036a
भीमसेनस्तदा राजन्दुर्योधनमथाब्रवीत् 036c
राज्ञापि धृतराष्ट्रेण त्वया चास्मासु यत्कृतम् 037a
स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते 037c
द्रौपदी च परिक्लिष्टा सभामध्ये रजस्वला 038a
द्यूते यद्विजितो राजा शकुनेर्बुद्धिनिश्चयात् 038c
यानि चान्यानि दुष्टात्मन्पापानि कृतवानसि 039a
अनागःसु च पार्थेषु तस्य पश्य महत्फलम् 039c
त्वत्कृते निहतः शेते शरतल्पे महायशाः 040a
गाङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः 040c
हतो द्रोणश्च कर्णश्च हतः शल्यः प्रतापवान् 041a
वैरस्य चादिकर्तासौ शकुनिर्निहतो युधि 041c
भ्रातरस्ते हताः शूराः पुत्राश्च सहसैनिकाः 042a
राजानश्च हताः शूराः समरेष्वनिवर्तिनः 042c
एते चान्ये च निहता बहवः क्षत्रियर्षभाः 043a
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः 043c
अवशिष्टस्त्वमेवैकः कुलघ्नोऽधमपूरुषः 044a
त्वामप्यद्य हनिष्यामि गदया नात्र संशयः 044c
अद्य तेऽहं रणे दर्पं सर्वं नाशयिता नृप 045a
राज्याशां विपुलां राजन्पाण्डवेषु च दुष्कृतम् 045c
दुर्योधन उवाच 046
किं कत्थितेन बहुधा युध्यस्वाद्य मया सह 046a
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर 046c
किं न पश्यसि मां पाप गदायुद्धे व्यवस्थितम् 047a
हिमवच्छिखराकारां प्रगृह्य महतीं गदाम् 047c
गदिनं कोऽद्य मां पाप जेतुमुत्सहते रिपुः 048a
न्यायतो युध्यमानस्य देवेष्वपि पुरन्दरः 048c
मा वृथा गर्ज कौन्तेय शारदाभ्रमिवाजलम् 049a
दर्शयस्व बलं युद्धे यावत्तत्तेऽद्य विद्यते 049c
तस्य तद्वचनं श्रुत्वा पाञ्चालाः सहसृञ्जयाः 050a
सर्वे सम्पूजयामासुस्तद्वचो विजिगीषवः 050c
तं मत्तमिव मातङ्गं तलशब्देन मानवाः 051a
भूयः संहर्षयामासू राजन्दुर्योधनं नृपम् 051c
बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत् 052a
शस्त्राणि सम्प्रदीप्यन्ते पाण्डवानां जयैषिणाम् 052c