धृतराष्ट्र उवाच 001
एवं सन्तर्ज्यमानस्तु मम पुत्रो महीपतिः 001a
प्रकृत्या मन्युमान्वीरः कथमासीत्परन्तपः 001c
न हि सन्तर्जना तेन श्रुतपूर्वा कदाचन 002a
राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत् 002c
इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम् 003a
प्रसादाद्ध्रियते यस्य प्रत्यक्षं तव सञ्जय 003c
स तथा तर्ज्यमानस्तु पाण्डुपुत्रैर्विशेषतः 004a
विहीनश्च स्वकैर्भृत्यैर्निर्जने चावृतो भृशम् 004c
श्रुत्वा स कटुका वाचो जययुक्ताः पुनः पुनः 005a
किमब्रवीत्पाण्डवेयांस्तन्ममाचक्ष्व सञ्जय 005c
सञ्जय उवाच 006
तर्ज्यमानस्तदा राजन्नुदकस्थस्तवात्मजः 006a
युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह 006c
श्रुत्वा स कटुका वाचो विषमस्थो जनाधिपः 007a
दीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनः पुनः 007c
सलिलान्तर्गतो राजा धुन्वन्हस्तौ पुनः पुनः 008a
मनश्चकार युद्धाय राजानं चाभ्यभाषत 008c
यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाः 009a
अहमेकः परिद्यूनो विरथो हतवाहनः 009c
आत्तशस्त्रै रथगतैर्बहुभिः परिवारितः 010a
कथमेकः पदातिः सन्नशस्त्रो योद्धुमुत्सहे 010c
एकैकेन तु मां यूयं योधयध्वं युधिष्ठिर 011a
न ह्येको बहुभिर्वीरैर्न्याय्यं योधयितुं युधि 011c
विशेषतो विकवचः श्रान्तश्चापः समाश्रितः 012a
भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः 012c
न मे त्वत्तो भयं राजन्न च पार्थाद्वृकोदरात् 013a
फल्गुनाद्वासुदेवाद्वा पाञ्चालेभ्योऽथ वा पुनः 013c
यमाभ्यां युयुधानाद्वा ये चान्ये तव सैनिकाः 014a
एकः सर्वानहं क्रुद्धो न तान्योद्धुमिहोत्सहे 014c
धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप 015a
धर्मं चैवेह कीर्तिं च पालयन्प्रब्रवीम्यहम् 015c
अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे 016a
अन्वंशाभ्यागतान्सर्वानृतून्संवत्सरो यथा 016c
अद्य वः सरथान्साश्वानशस्त्रो विरथोऽपि सन् 017a
नक्षत्राणीव सर्वाणि सविता रात्रिसङ्क्षये 017c
तेजसा नाशयिष्यामि स्थिरीभवत पाण्डवाः 017e
अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनाम् 018a
बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः 018c
जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः 019a
मद्रराजस्य शल्यस्य भूरिश्रवस एव च 019c
पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च 020a
मित्राणां सुहृदां चैव बान्धवानां तथैव च 020c
आनृण्यमद्य गच्छामि हत्वा त्वां भ्रातृभिः सह 021a
एतावदुक्त्वा वचनं विरराम जनाधिपः 021c
युधिष्ठिर उवाच 022
दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधन 022a
दिष्ट्या ते वर्तते बुद्धिर्युद्धायैव महाभुज 022c
दिष्ट्या शूरोऽसि कौरव्य दिष्ट्या जानासि सङ्गरम् 023a
यस्त्वमेको हि नः सर्वान्संयुगे योद्धुमिच्छसि 023c
एक एकेन सङ्गम्य यत्ते सम्मतमायुधम् 024a
तत्त्वमादाय युध्यस्व प्रेक्षकास्ते वयं स्थिताः 024c
अयमिष्टं च ते कामं वीर भूयो ददाम्यहम् 025a
हत्वैकं भवतो राज्यं हतो वा स्वर्गमाप्नुहि 025c
दुर्योधन उवाच 026
एकश्चेद्योद्धुमाक्रन्दे वरोऽद्य मम दीयते 026a
आयुधानामियं चापि वृता त्वत्सम्मते गदा 026c
भ्रातॄणां भवतामेकः शक्यं मां योऽभिमन्यते 027a
पदातिर्गदया सङ्ख्ये स युध्यतु मया सह 027c
वृत्तानि रथयुद्धानि विचित्राणि पदे पदे 028a
इदमेकं गदायुद्धं भवत्वद्याद्भुतं महत् 028c
अन्नानामपि पर्यायं कर्तुमिच्छन्ति मानवाः 029a
युद्धानामपि पर्यायो भवत्वनुमते तव 029c
गदया त्वां महाबाहो विजेष्यामि सहानुजम् 030a
पाञ्चालान्सृञ्जयांश्चैव ये चान्ये तव सैनिकाः 030c
युधिष्ठिर उवाच 031
उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन 031a
एक एकेन सङ्गम्य संयुगे गदया बली 031c
पुरुषो भव गान्धारे युध्यस्व सुसमाहितः 032a
अद्य ते जीवितं नास्ति यद्यपि त्वं मनोजवः 032c
सञ्जय उवाच 033
एतत्स नरशार्दूलो नामृष्यत तवात्मजः 033a
सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन् 033c
तथासौ वाक्प्रतोदेन तुद्यमानः पुनः पुनः 034a
वाचं न ममृषे धीमानुत्तमाश्वः कशामिव 034c
सङ्क्षोभ्य सलिलं वेगाद्गदामादाय वीर्यवान् 035a
अद्रिसारमयीं गुर्वीं काञ्चनाङ्गदभूषणाम् 035c
अन्तर्जलात्समुत्तस्थौ नागेन्द्र इव निःश्वसन् 035e
स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वायसीं गदाम् 036a
उदतिष्ठत पुत्रस्ते प्रतपन्रश्मिमानिव 036c
ततः शैक्यायसीं गुर्वीं जातरूपपरिष्कृताम् 037a
गदां परामृशद्धीमान्धार्तराष्ट्रो महाबलः 037c
गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम् 038a
प्रजानामिव सङ्क्रुद्धं शूलपाणिमवस्थितम् 038c
सगदो भारतो भाति प्रतपन्भास्करो यथा 038e
तमुत्तीर्णं महाबाहुं गदाहस्तमरिन्दमम् 039a
मेनिरे सर्वभूतानि दण्डहस्तमिवान्तकम् 039c
वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम् 040a
ददृशुः सर्वपाञ्चालाः पुत्रं तव जनाधिप 040c
तमुत्तीर्णं तु सम्प्रेक्ष्य समहृष्यन्त सर्वशः 041a
पाञ्चालाः पाण्डवेयाश्च तेऽन्योन्यस्य तलान्ददुः 041c
अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव 042a
उद्वृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान् 042c
त्रिशिखां भ्रुकुटीं कृत्वा सन्दष्टदशनच्छदः 043a
प्रत्युवाच ततस्तान्वै पाण्डवान्सहकेशवान् 043c
अवहासस्य वोऽस्याद्य प्रतिवक्तास्मि पाण्डवाः 044a
गमिष्यथ हताः सद्यः सपाञ्चाला यमक्षयम् 044c
उत्थितस्तु जलात्तस्मात्पुत्रो दुर्योधनस्तव 045a
अतिष्ठत गदापाणी रुधिरेण समुक्षितः 045c
तस्य शोणितदिग्धस्य सलिलेन समुक्षितम् 046a
शरीरं स्म तदा भाति स्रवन्निव महीधरः 046c
तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः 047a
वैवस्वतमिव क्रुद्धं किङ्करोद्यतपाणिनम् 047c
स मेघनिनदो हर्षान्नदन्निव च गोवृषः 048a
आजुहाव ततः पार्थान्गदया युधि वीर्यवान् 048c
दुर्योधन उवाच 049
एकैकेन च मां यूयमासीदत युधिष्ठिर 049a
न ह्येको बहुभिर्न्याय्यो वीर योधयितुं युधि 049c
न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः 050a
भृशं विक्षतगात्रश्च हतवाहनसैनिकः 050c
युधिष्ठिर उवाच 051
नाभूदियं तव प्रज्ञा कथमेवं सुयोधन 051a
यदाभिमन्युं बहवो जघ्नुर्युधि महारथाः 051c
आमुञ्च कवचं वीर मूर्धजान्यमयस्व च 052a
यच्चान्यदपि ते नास्ति तदप्यादत्स्व भारत 052c
इममेकं च ते कामं वीर भूयो ददाम्यहम् 052e
पञ्चानां पाण्डवेयानां येन योद्धुमिहेच्छसि 053a
तं हत्वा वै भवान्राजा हतो वा स्वर्गमाप्नुहि 053c
ऋते च जीविताद्वीर युद्धे किं कुर्म ते प्रियम् 053e
सञ्जय उवाच 054
ततस्तव सुतो राजन्वर्म जग्राह काञ्चनम् 054a
विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम् 054c
सोऽवबद्धशिरस्त्राणः शुभकाञ्चनवर्मभृत् 055a
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव 055c
सन्नद्धः स गदी राजन्सज्जः सङ्ग्राममूर्धनि 056a
अब्रवीत्पाण्डवान्सर्वान्पुत्रो दुर्योधनस्तव 056c
भ्रातॄणां भवतामेको युध्यतां गदया मया 057a
सहदेवेन वा योत्स्ये भीमेन नकुलेन वा 057c
अथ वा फल्गुनेनाद्य त्वया वा भरतर्षभ 058a
योत्स्येऽहं सङ्गरं प्राप्य विजेष्ये च रणाजिरे 058c
अहमद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम् 059a
गदया पुरुषव्याघ्र हेमपट्टविनद्धया 059c
गदायुद्धे न मे कश्चित्सदृशोऽस्तीति चिन्तय 060a
गदया वो हनिष्यामि सर्वानेव समागतान् 060c
गृह्णातु स गदां यो वै युध्यतेऽद्य मया सह 060e