सञ्जय उवाच 001
ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाः 001a
तं ह्रदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत् 001c
आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनह्रदम् 002a
स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम् 002c
वासुदेवमिदं वाक्यमब्रवीत्कुरुनन्दनः 002e
पश्येमां धार्तराष्ट्रेण मायामप्सु प्रयोजिताम् 003a
विष्टभ्य सलिलं शेते नास्य मानुषतो भयम् 003c
दैवीं मायामिमां कृत्वा सलिलान्तर्गतो ह्ययम् 004a
निकृत्या निकृतिप्रज्ञो न मे जीवन्विमोक्ष्यते 004c
यद्यस्य समरे साह्यं कुरुते वज्रभृत्स्वयम् 005a
तथाप्येनं हतं युद्धे लोको द्रक्ष्यति माधव 005c
श्रीवासुदेव उवाच 006
मायाविन इमां मायां मायया जहि भारत 006a
मायावी मायया वध्यः सत्यमेतद्युधिष्ठिर 006c
क्रियाभ्युपायैर्बहुलैर्मायामप्सु प्रयोज्य ह 007a
जहि त्वं भरतश्रेष्ठ पापात्मानं सुयोधनम् 007c
क्रियाभ्युपायैरिन्द्रेण निहता दैत्यदानवाः 008a
क्रियाभ्युपायैर्बहुभिर्बलिर्बद्धो महात्मना 008c
क्रियाभ्युपायैः पूर्वं हि हिरण्याक्षो महासुरः 009a
हिरण्यकशिपुश्चैव क्रिययैव निषूदितौ 009c
वृत्रश्च निहतो राजन्क्रिययैव न संशयः 009e
तथा पौलस्त्यतनयो रावणो नाम राक्षसः 010a
रामेण निहतो राजन्सानुबन्धः सहानुगः 010c
क्रियया योगमास्थाय तथा त्वमपि विक्रम 010e
क्रियाभ्युपायैर्निहतो मया राजन्पुरातने 011a
तारकश्च महादैत्यो विप्रचित्तिश्च वीर्यवान् 011c
वातापिरिल्वलश्चैव त्रिशिराश्च तथा विभो 012a
सुन्दोपसुन्दावसुरौ क्रिययैव निषूदितौ 012c
क्रियाभ्युपायैरिन्द्रेण त्रिदिवं भुज्यते विभो 013a
क्रिया बलवती राजन्नान्यत्किञ्चिद्युधिष्ठिर 013c
दैत्याश्च दानवाश्चैव राक्षसाः पार्थिवास्तथा 014a
क्रियाभ्युपायैर्निहताः क्रियां तस्मात्समाचर 014c
सञ्जय उवाच 015
इत्युक्तो वासुदेवेन पाण्डवः संशितव्रतः 015a
जलस्थं तं महाराज तव पुत्रं महाबलम् 015c
अभ्यभाषत कौन्तेयः प्रहसन्निव भारत 015e
सुयोधन किमर्थोऽयमारम्भोऽप्सु कृतस्त्वया 016a
सर्वं क्षत्रं घातयित्वा स्वकुलं च विशां पते 016c
जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनः 017a
उत्तिष्ठ राजन्युध्यस्व सहास्माभिः सुयोधन 017c
स च दर्पो नरश्रेष्ठ स च मानः क्व ते गतः 018a
यस्त्वं संस्तभ्य सलिलं भीतो राजन्व्यवस्थितः 018c
सर्वे त्वां शूर इत्येव जना जल्पन्ति संसदि 019a
व्यर्थं तद्भवतो मन्ये शौर्यं सलिलशायिनः 019c
उत्तिष्ठ राजन्युध्यस्व क्षत्रियोऽसि कुलोद्भवः 020a
कौरवेयो विशेषेण कुले जन्म च संस्मर 020c
स कथं कौरवे वंशे प्रशंसञ्जन्म चात्मनः 021a
युद्धाद्भीतस्ततस्तोयं प्रविश्य प्रतितिष्ठसि 021c
अयुद्धमव्यवस्थानं नैष धर्मः सनातनः 022a
अनार्यजुष्टमस्वर्ग्यं रणे राजन्पलायनम् 022c
कथं पारमगत्वा हि युद्धे त्वं वै जिजीविषुः 023a
इमान्निपतितान्दृष्ट्वा पुत्रान्भ्रातॄन्पितॄंस्तथा 023c
सम्बन्धिनो वयस्यांश्च मातुलान्बान्धवांस्तथा 024a
घातयित्वा कथं तात ह्रदे तिष्ठसि साम्प्रतम् 024c
शूरमानी न शूरस्त्वं मिथ्या वदसि भारत 025a
शूरोऽहमिति दुर्बुद्धे सर्वलोकस्य शृण्वतः 025c
न हि शूराः पलायन्ते शत्रून्दृष्ट्वा कथञ्चन 026a
ब्रूहि वा त्वं यया धृत्या शूर त्यजसि सङ्गरम् 026c
स त्वमुत्तिष्ठ युध्यस्व विनीय भयमात्मनः 027a
घातयित्वा सर्वसैन्यं भ्रातॄंश्चैव सुयोधन 027c
नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया 028a
क्षत्रधर्ममपाश्रित्य त्वद्विधेन सुयोधन 028c
यत्तत्कर्णमुपाश्रित्य शकुनिं चापि सौबलम् 029a
अमर्त्य इव सम्मोहात्त्वमात्मानं न बुद्धवान् 029c
तत्पापं सुमहत्कृत्वा प्रतियुध्यस्व भारत 030a
कथं हि त्वद्विधो मोहाद्रोचयेत पलायनम् 030c
क्व ते तत्पौरुषं यातं क्व च मानः सुयोधन 031a
क्व च विक्रान्तता याता क्व च विस्फूर्जितं महत् 031c
क्व ते कृतास्त्रता याता किं च शेषे जलाशये 032a
स त्वमुत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत 032c
अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् 033a
अथ वा निहतोऽस्माभिर्भूमौ स्वप्स्यसि भारत 033c
एष ते प्रथमो धर्मः सृष्टो धात्रा महात्मना 034a
तं कुरुष्व यथातथ्यं राजा भव महारथ 034c
दुर्योधन उवाच 035
नैतच्चित्रं महाराज यद्भीः प्राणिनमाविशेत् 035a
न च प्राणभयाद्भीतो व्यपयातोऽस्मि भारत 035c
अरथश्चानिषङ्गी च निहतः पार्ष्णिसारथिः 036a
एकश्चाप्यगणः सङ्ख्ये प्रत्याश्वासमरोचयम् 036c
न प्राणहेतोर्न भयान्न विषादाद्विशां पते 037a
इदमम्भः प्रविष्टोऽस्मि श्रमात्त्विदमनुष्ठितम् 037c
त्वं चाश्वसिहि कौन्तेय ये चाप्यनुगतास्तव 038a
अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे 038c
युधिष्ठिर उवाच 039
आश्वस्ता एव सर्वे स्म चिरं त्वां मृगयामहे 039a
तदिदानीं समुत्तिष्ठ युध्यस्वेह सुयोधन 039c
हत्वा वा समरे पार्थान्स्फीतं राज्यमवाप्नुहि 040a
निहतो वा रणेऽस्माभिर्वीरलोकमवाप्स्यसि 040c
दुर्योधन उवाच 041
यदर्थं राज्यमिच्छामि कुरूणां कुरुनन्दन 041a
त इमे निहताः सर्वे भ्रातरो मे जनेश्वर 041c
क्षीणरत्नां च पृथिवीं हतक्षत्रियपुङ्गवाम् 042a
नाभ्युत्सहाम्यहं भोक्तुं विधवामिव योषितम् 042c
अद्यापि त्वहमाशंसे त्वां विजेतुं युधिष्ठिर 043a
भङ्क्त्वा पाञ्चालपाण्डूनामुत्साहं भरतर्षभ 043c
न त्विदानीमहं मन्ये कार्यं युद्धेन कर्हिचित् 044a
द्रोणे कर्णे च संशान्ते निहते च पितामहे 044c
अस्त्विदानीमियं राजन्केवला पृथिवी तव 045a
असहायो हि को राजा राज्यमिच्छेत्प्रशासितुम् 045c
सुहृदस्तादृशान्हित्वा पुत्रान्भ्रातॄन्पितॄनपि 046a
भवद्भिश्च हृते राज्ये को नु जीवेत मादृशः 046c
अहं वनं गमिष्यामि ह्यजिनैः प्रतिवासितः 047a
रतिर्हि नास्ति मे राज्ये हतपक्षस्य भारत 047c
हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जरा 048a
एषा ते पृथिवी राजन्भुङ्क्ष्वैनां विगतज्वरः 048c
वनमेव गमिष्यामि वसानो मृगचर्मणी 049a
न हि मे निर्जितस्यास्ति जीवितेऽद्य स्पृहा विभो 049c
गच्छ त्वं भुङ्क्ष्व राजेन्द्र पृथिवीं निहतेश्वराम् 050a
हतयोधां नष्टरत्नां क्षीणवप्रां यथासुखम् 050c
युधिष्ठिर उवाच 051
आर्तप्रलापान्मा तात सलिलस्थः प्रभाषथाः 051a
नैतन्मनसि मे राजन्वाशितं शकुनेरिव 051c
यदि चापि समर्थः स्यास्त्वं दानाय सुयोधन 052a
नाहमिच्छेयमवनिं त्वया दत्तां प्रशासितुम् 052c
अधर्मेण न गृह्णीयां त्वया दत्तां महीमिमाम् 053a
न हि धर्मः स्मृतो राजन्क्षत्रियस्य प्रतिग्रहः 053c
त्वया दत्तां न चेच्छेयं पृथिवीमखिलामहम् 054a
त्वां तु युद्धे विनिर्जित्य भोक्तास्मि वसुधामिमाम् 054c
अनीश्वरश्च पृथिवीं कथं त्वं दातुमिच्छसि 055a
त्वयेयं पृथिवी राजन्किं न दत्ता तदैव हि 055c
धर्मतो याचमानानां शमार्थं च कुलस्य नः 056a
वार्ष्णेयं प्रथमं राजन्प्रत्याख्याय महाबलम् 056c
किमिदानीं ददासि त्वं को हि ते चित्तविभ्रमः 057a
अभियुक्तस्तु को राजा दातुमिच्छेद्धि मेदिनीम् 057c
न त्वमद्य महीं दातुमीशः कौरवनन्दन 058a
आच्छेत्तुं वा बलाद्राजन्स कथं दातुमिच्छसि 058c
मां तु निर्जित्य सङ्ग्रामे पालयेमां वसुन्धराम् 058e
सूच्यग्रेणापि यद्भूमेरपि ध्रीयेत भारत 059a
तन्मात्रमपि नो मह्यं न ददाति पुरा भवान् 059c
स कथं पृथिवीमेतां प्रददासि विशां पते 060a
सूच्यग्रं नात्यजः पूर्वं स कथं त्यजसि क्षितिम् 060c
एवमैश्वर्यमासाद्य प्रशास्य पृथिवीमिमाम् 061a
को हि मूढो व्यवस्येत शत्रोर्दातुं वसुन्धराम् 061c
त्वं तु केवलमौर्ख्येण विमूढो नावबुध्यसे 062a
पृथिवीं दातुकामोऽपि जीवितेनाद्य मोक्ष्यसे 062c
अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् 063a
अथ वा निहतोऽस्माभिर्व्रज लोकाननुत्तमान् 063c
आवयोर्जीवतो राजन्मयि च त्वयि च ध्रुवम् 064a
संशयः सर्वभूतानां विजये नो भविष्यति 064c
जीवितं तव दुष्प्रज्ञ मयि सम्प्रति वर्तते 065a
जीवयेयं त्वहं कामं न तु त्वं जीवितुं क्षमः 065c
दहने हि कृतो यत्नस्त्वयास्मासु विशेषतः 066a
आशीविषैर्विषैश्चापि जले चापि प्रवेशनैः 066c
त्वया विनिकृता राजन्राज्यस्य हरणेन च 066e
एतस्मात्कारणात्पाप जीवितं ते न विद्यते 067a
उत्तिष्ठोत्तिष्ठ युध्यस्व तत्ते श्रेयो भविष्यति 067c
सञ्जय उवाच 068
एवं तु विविधा वाचो जययुक्ताः पुनः पुनः 068a
कीर्तयन्ति स्म ते वीरास्तत्र तत्र जनाधिप 068c