धृतराष्ट्र उवाच 001
हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे 001a
मम सैन्यावशिष्टास्ते किमकुर्वत सञ्जय 001c
कृतवर्मा कृपश्चैव द्रोणपुत्रश्च वीर्यवान् 002a
दुर्योधनश्च मन्दात्मा राजा किमकरोत्तदा 002c
सञ्जय उवाच 003
सम्प्राद्रवत्सु दारेषु क्षत्रियाणां महात्मनाम् 003a
विद्रुते शिबिरे शून्ये भृशोद्विग्नास्त्रयो रथाः 003c
निशम्य पाण्डुपुत्राणां तदा विजयिनां स्वनम् 004a
विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्धिनः 004c
स्थानं नारोचयंस्तत्र ततस्ते ह्रदमभ्ययुः 004e
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितो रणे 005a
हृष्टः पर्यपतद्राजन्दुर्योधनवधेप्सया 005c
मार्गमाणास्तु सङ्क्रुद्धास्तव पुत्रं जयैषिणः 006a
यत्नतोऽन्वेषमाणास्तु नैवापश्यञ्जनाधिपम् 006c
स हि तीव्रेण वेगेन गदापाणिरपाक्रमत् 007a
तं ह्रदं प्राविशच्चापि विष्टभ्यापः स्वमायया 007c
यदा तु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः 008a
ततः स्वशिबिरं प्राप्य व्यतिष्ठन्सहसैनिकाः 008c
ततः कृपश्च द्रौणिश्च कृतवर्मा च सात्वतः 009a
सन्निविष्टेषु पार्थेषु प्रयातास्तं ह्रदं शनैः 009c
ते तं ह्रदं समासाद्य यत्र शेते जनाधिपः 010a
अभ्यभाषन्त दुर्धर्षं राजानं सुप्तमम्भसि 010c
राजन्नुत्तिष्ठ युध्यस्व सहास्माभिर्युधिष्ठिरम् 011a
जित्वा वा पृथिवीं भुङ्क्ष्व हतो वा स्वर्गमाप्नुहि 011c
तेषामपि बलं सर्वं हतं दुर्योधन त्वया 012a
प्रतिरब्धाश्च भूयिष्ठं ये शिष्टास्तत्र सैनिकाः 012c
न ते वेगं विषहितुं शक्तास्तव विशां पते 013a
अस्माभिरभिगुप्तस्य तस्मादुत्तिष्ठ भारत 013c
दुर्योधन उवाच 014
दिष्ट्या पश्यामि वो मुक्तानीदृशात्पुरुषक्षयात् 014a
पाण्डुकौरवसम्मर्दाज्जीवमानान्नरर्षभान् 014c
विजेष्यामो वयं सर्वे विश्रान्ता विगतक्लमाः 015a
भवन्तश्च परिश्रान्ता वयं च भृशविक्षताः 015c
उदीर्णं च बलं तेषां तेन युद्धं न रोचये 015e
न त्वेतदद्भुतं वीरा यद्वो महदिदं मनः 016a
अस्मासु च परा भक्तिर्न तु कालः पराक्रमे 016c
विश्रम्यैकां निशामद्य भवद्भिः सहितो रणे 017a
प्रतियोत्स्याम्यहं शत्रूञ्श्वो न मेऽस्त्यत्र संशयः 017c
सञ्जय उवाच 018
एवमुक्तोऽब्रवीद्द्रौणी राजानं युद्धदुर्मदम् 018a
उत्तिष्ठ राजन्भद्रं ते विजेष्यामो रणे परान् 018c
इष्टापूर्तेन दानेन सत्येन च जपेन च 019a
शपे राजन्यथा ह्यद्य निहनिष्यामि सोमकान् 019c
मा स्म यज्ञकृतां प्रीतिं प्राप्नुयां सज्जनोचिताम् 020a
यदीमां रजनीं व्युष्टां न निहन्मि परान्रणे 020c
नाहत्वा सर्वपाञ्चालान्विमोक्ष्ये कवचं विभो 021a
इति सत्यं ब्रवीम्येतत्तन्मे शृणु जनाधिप 021c
तेषु सम्भाषमाणेषु व्याधास्तं देशमाययुः 022a
मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया 022c
ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः 023a
मांसभारानुपाजह्रुर्भक्त्या परमया विभो 023c
ते तत्र विष्ठितास्तेषां सर्वं तद्वचनं रहः 024a
दुर्योधनवचश्चैव शुश्रुवुः सङ्गता मिथः 024c
तेऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे 025a
निर्बन्धं परमं चक्रुस्तदा वै युद्धकाङ्क्षिणः 025c
तांस्तथा समुदीक्ष्याथ कौरवाणां महारथान् 026a
अयुद्धमनसं चैव राजानं स्थितमम्भसि 026c
तेषां श्रुत्वा च संवादं राज्ञश्च सलिले सतः 027a
व्याधाभ्यजानन्राजेन्द्र सलिलस्थं सुयोधनम् 027c
ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्यासन्सुतं तव 028a
यदृच्छोपगतास्तत्र राजानं परिमार्गिताः 028c
ततस्ते पाण्डुपुत्रस्य स्मृत्वा तद्भाषितं तदा 029a
अन्योन्यमब्रुवन्राजन्मृगव्याधाः शनैरिदम् 029c
दुर्योधनं ख्यापयामो धनं दास्यति पाण्डवः 030a
सुव्यक्तमिति नः ख्यातो ह्रदे दुर्योधनो नृपः 030c
तस्माद्गच्छामहे सर्वे यत्र राजा युधिष्ठिरः 031a
आख्यातुं सलिले सुप्तं दुर्योधनममर्षणम् 031c
धृतराष्ट्रात्मजं तस्मै भीमसेनाय धीमते 032a
शयानं सलिले सर्वे कथयामो धनुर्भृते 032c
स नो दास्यति सुप्रीतो धनानि बहुलान्युत 033a
किं नो मांसेन शुष्केण परिक्लिष्टेन शोषिणा 033c
एवमुक्त्वा ततो व्याधाः सम्प्रहृष्टा धनार्थिनः 034a
मांसभारानुपादाय प्रययुः शिबिरं प्रति 034c
पाण्डवाश्च महाराज लब्धलक्षाः प्रहारिणः 035a
अपश्यमानाः समरे दुर्योधनमवस्थितम् 035c
निकृतेस्तस्य पापस्य ते पारं गमनेप्सवः 036a
चारान्सम्प्रेषयामासुः समन्तात्तद्रणाजिरम् 036c
आगम्य तु ततः सर्वे नष्टं दुर्योधनं नृपम् 037a
न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः 037c
तेषां तद्वचनं श्रुत्वा चाराणां भरतर्षभ 038a
चिन्तामभ्यगमत्तीव्रां निशश्वास च पार्थिवः 038c
अथ स्थितानां पाण्डूनां दीनानां भरतर्षभ 039a
तस्माद्देशादपक्रम्य त्वरिता लुब्धका विभो 039c
आजग्मुः शिबिरं हृष्टा दृष्ट्वा दुर्योधनं नृपम् 040a
वार्यमाणाः प्रविष्टाश्च भीमसेनस्य पश्यतः 040c
ते तु पाण्डवमासाद्य भीमसेनं महाबलम् 041a
तस्मै तत्सर्वमाचख्युर्यद्वृत्तं यच्च वै श्रुतम् 041c
ततो वृकोदरो राजन्दत्त्वा तेषां धनं बहु 042a
धर्मराजाय तत्सर्वमाचचक्षे परन्तपः 042c
असौ दुर्योधनो राजन्विज्ञातो मम लुब्धकैः 043a
संस्तभ्य सलिलं शेते यस्यार्थे परितप्यसे 043c
तद्वचो भीमसेनस्य प्रियं श्रुत्वा विशां पते 044a
अजातशत्रुः कौन्तेयो हृष्टोऽभूत्सह सोदरैः 044c
तं च श्रुत्वा महेष्वासं प्रविष्टं सलिलह्रदम् 045a
क्षिप्रमेव ततोऽगच्छत्पुरस्कृत्य जनार्दनम् 045c
ततः किलकिलाशब्दः प्रादुरासीद्विशां पते 046a
पाण्डवानां प्रहृष्टानां पाञ्चालानां च सर्वशः 046c
सिंहनादांस्ततश्चक्रुः क्ष्वेडांश्च भरतर्षभ 047a
त्वरिताः क्षत्रिया राजञ्जग्मुर्द्वैपायनं ह्रदम् 047c
ज्ञातः पापो धार्तराष्ट्रो दृष्टश्चेत्यसकृद्रणे 048a
प्राक्रोशन्सोमकास्तत्र हृष्टरूपाः समन्ततः 048c
तेषामाशु प्रयातानां रथानां तत्र वेगिनाम् 049a
बभूव तुमुलः शब्दो दिवस्पृक्पृथिवीपते 049c
दुर्योधनं परीप्सन्तस्तत्र तत्र युधिष्ठिरम् 050a
अन्वयुस्त्वरितास्ते वै राजानं श्रान्तवाहनाः 050c
अर्जुनो भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ 051a
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी चापराजितः 051c
उत्तमौजा युधामन्युः सात्यकिश्चापराजितः 052a
पाञ्चालानां च ये शिष्टा द्रौपदेयाश्च भारत 052c
हयाश्च सर्वे नागाश्च शतशश्च पदातयः 052e
ततः प्राप्तो महाराज धर्मपुत्रो युधिष्ठिरः 053a
द्वैपायनह्रदं ख्यातं यत्र दुर्योधनोऽभवत् 053c
शीतामलजलं हृद्यं द्वितीयमिव सागरम् 054a
मायया सलिलं स्तभ्य यत्राभूत्ते सुतः स्थितः 054c
अत्यद्भुतेन विधिना दैवयोगेन भारत 055a
सलिलान्तर्गतः शेते दुर्दर्शः कस्यचित्प्रभो 055c
मानुषस्य मनुष्येन्द्र गदाहस्तो जनाधिपः 055e
ततो दुर्योधनो राजा सलितान्तर्गतो वसन् 056a
शुश्रुवे तुमुलं शब्दं जलदोपमनिःस्वनम् 056c
युधिष्ठिरस्तु राजेन्द्र ह्रदं तं सह सोदरैः 057a
आजगाम महाराज तव पुत्रवधाय वै 057c
महता शङ्खनादेन रथनेमिस्वनेन च 058a
उद्धुन्वंश्च महारेणुं कम्पयंश्चापि मेदिनीम् 058c
यौधिष्ठिरस्य सैन्यस्य श्रुत्वा शब्दं महारथाः 059a
कृतवर्मा कृपो द्रौणी राजानमिदमब्रुवन् 059c
इमे ह्यायान्ति संहृष्टाः पाण्डवा जितकाशिनः 060a
अपयास्यामहे तावदनुजानातु नो भवान् 060c
दुर्योधनस्तु तच्छ्रुत्वा तेषां तत्र यशस्विनाम् 061a
तथेत्युक्त्वा ह्रदं तं वै माययास्तम्भयत्प्रभो 061c
ते त्वनुज्ञाप्य राजानं भृशं शोकपरायणाः 062a
जग्मुर्दूरं महाराज कृपप्रभृतयो रथाः 062c
ते गत्वा दूरमध्वानं न्यग्रोधं प्रेक्ष्य मारिष 063a
न्यविशन्त भृशं श्रान्ताश्चिन्तयन्तो नृपं प्रति 063c
विष्टभ्य सलिलं सुप्तो धार्तराष्ट्रो महाबलः 064a
पाण्डवाश्चापि सम्प्राप्तास्तं देशं युद्धमीप्सवः 064c
कथं नु युद्धं भविता कथं राजा भविष्यति 065a
कथं नु पाण्डवा राजन्प्रतिपत्स्यन्ति कौरवम् 065c
इत्येवं चिन्तयन्तस्ते रथेभ्योऽश्वान्विमुच्य ह 066a
तत्रासां चक्रिरे राजन्कृपप्रभृतयो रथाः 066c