सञ्जय उवाच 001
ततः क्रुद्धा महाराज सौबलस्य पदानुगाः 001a
त्यक्त्वा जीवितमाक्रन्दे पाण्डवान्पर्यवारयन् 001c
तानर्जुनः प्रत्यगृह्णात्सहदेवजये धृतः 002a
भीमसेनश्च तेजस्वी क्रुद्धाशीविषदर्शनः 002c
शक्त्यृष्टिप्रासहस्तानां सहदेवं जिघांसताम् 003a
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः 003c
प्रगृहीतायुधान्बाहून्योधानामभिधावताम् 004a
भल्लैश्चिच्छेद बीभत्सुः शिरांस्यपि हयानपि 004c
ते हताः प्रत्यपद्यन्त वसुधां विगतासवः 005a
त्वरिता लोकवीरेण प्रहताः सव्यसाचिना 005c
ततो दुर्योधनो राजा दृष्ट्वा स्वबलसङ्क्षयम् 006a
हतशेषान्समानीय क्रुद्धो रथशतान्विभो 006c
कुञ्जरांश्च हयांश्चैव पादातांश्च परन्तप 007a
उवाच सहितान्सर्वान्धार्तराष्ट्र इदं वचः 007c
समासाद्य रणे सर्वान्पाण्डवान्ससुहृद्गणान् 008a
पाञ्चाल्यं चापि सबलं हत्वा शीघ्रं निवर्तत 008c
तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः 009a
प्रत्युद्ययू रणे पार्थांस्तव पुत्रस्य शासनात् 009c
तानभ्यापततः शीघ्रं हतशेषान्महारणे 010a
शरैराशीविषाकारैः पाण्डवाः समवाकिरन् 010c
तत्सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः 011a
अवध्यत रणं प्राप्य त्रातारं नाभ्यविन्दत 011c
प्रतिष्ठमानं तु भयान्नावतिष्ठत दंशितम् 011e
अश्वैर्विपरिधावद्भिः सैन्येन रजसा वृते 012a
न प्राज्ञायन्त समरे दिशश्च प्रदिशस्तथा 012c
ततस्तु पाण्डवानीकान्निःसृत्य बहवो जनाः 013a
अभ्यघ्नंस्तावकान्युद्धे मुहूर्तादिव भारत 013c
ततो निःशेषमभवत्तत्सैन्यं तव भारत 013e
अक्षौहिण्यः समेतास्तु तव पुत्रस्य भारत 014a
एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जयैः 014c
तेषु राजसहस्रेषु तावकेषु महात्मसु 015a
एको दुर्योधनो राजन्नदृश्यत भृशं क्षतः 015c
ततो वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम् 016a
विहीनः सर्वयोधैश्च पाण्डवान्वीक्ष्य संयुगे 016c
मुदितान्सर्वसिद्धार्थान्नर्दमानान्समन्ततः 017a
बाणशब्दरवांश्चैव श्रुत्वा तेषां महात्मनाम् 017c
दुर्योधनो महाराज कश्मलेनाभिसंवृतः 018a
अपयाने मनश्चक्रे विहीनबलवाहनः 018c
धृतराष्ट्र उवाच 019
निहते मामके सैन्ये निःशेषे शिबिरे कृते 019a
पाण्डवानां बलं सूत किं नु शेषमभूत्तदा 019c
एतन्मे पृच्छतो ब्रूहि कुशलो ह्यसि सञ्जय 019e
यच्च दुर्योधनो मन्दः कृतवांस्तनयो मम 020a
बलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः 020c
सञ्जय उवाच 021
रथानां द्वे सहस्रे तु सप्त नागशतानि च 021a
पञ्च चाश्वसहस्राणि पत्तीनां च शतं शताः 021c
एतच्छेषमभूद्राजन्पाण्डवानां महद्बलम् 022a
परिगृह्य हि यद्युद्धे धृष्टद्युम्नो व्यवस्थितः 022c
एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः 023a
नापश्यत्समरे कञ्चित्सहायं रथिनां वरः 023c
नर्दमानान्परांश्चैव स्वबलस्य च सङ्क्षयम् 024a
हतं स्वहयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात् 024c
एकादशचमूभर्ता पुत्रो दुर्योधनस्तव 025a
गदामादाय तेजस्वी पदातिः प्रस्थितो ह्रदम् 025c
नातिदूरं ततो गत्वा पद्भ्यामेव नराधिपः 026a
सस्मार वचनं क्षत्तुर्धर्मशीलस्य धीमतः 026c
इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा 027a
महद्वैशसमस्माकं क्षत्रियाणां च संयुगे 027c
एवं विचिन्तयानस्तु प्रविविक्षुर्ह्रदं नृपः 028a
दुःखसन्तप्तहृदयो दृष्ट्वा राजन्बलक्षयम् 028c
पाण्डवाश्च महाराज धृष्टद्युम्नपुरोगमाः 029a
अभ्यधावन्त सङ्क्रुद्धास्तव राजन्बलं प्रति 029c
शक्त्यृष्टिप्रासहस्तानां बलानामभिगर्जताम् 030a
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः 030c
तान्हत्वा निशितैर्बाणैः सामात्यान्सह बन्धुभिः 031a
रथे श्वेतहये तिष्ठन्नर्जुनो बह्वशोभत 031c
सुबलस्य हते पुत्रे सवाजिरथकुञ्जरे 032a
महावनमिव छिन्नमभवत्तावकं बलम् 032c
अनेकशतसाहस्रे बले दुर्योधनस्य ह 033a
नान्यो महारथो राजञ्जीवमानो व्यदृश्यत 033c
द्रोणपुत्रादृते वीरात्तथैव कृतवर्मणः 034a
कृपाच्च गौतमाद्राजन्पार्थिवाच्च तवात्मजात् 034c
धृष्टद्युम्नस्तु मां दृष्ट्वा हसन्सात्यकिमब्रवीत् 035a
किमनेन गृहीतेन नानेनार्थोऽस्ति जीवता 035c
धृष्टद्युम्नवचः श्रुत्वा शिनेर्नप्ता महारथः 036a
उद्यम्य निशितं खड्गं हन्तुं मामुद्यतस्तदा 036c
तमागम्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् 037a
मुच्यतां सञ्जयो जीवन्न हन्तव्यः कथञ्चन 037c
द्वैपायनवचः श्रुत्वा शिनेर्नप्ता कृताञ्जलिः 038a
ततो मामब्रवीन्मुक्त्वा स्वस्ति सञ्जय साधय 038c
अनुज्ञातस्त्वहं तेन न्यस्तवर्मा निरायुधः 039a
प्रातिष्ठं येन नगरं सायाह्ने रुधिरोक्षितः 039c
क्रोशमात्रमपक्रान्तं गदापाणिमवस्थितम् 040a
एकं दुर्योधनं राजन्नपश्यं भृशविक्षतम् 040c
स तु मामश्रुपूर्णाक्षो नाशक्नोदभिवीक्षितुम् 041a
उपप्रैक्षत मां दृष्ट्वा तदा दीनमवस्थितम् 041c
तं चाहमपि शोचन्तं दृष्ट्वैकाकिनमाहवे 042a
मुहूर्तं नाशकं वक्तुं किञ्चिद्दुःखपरिप्लुतः 042c
ततोऽस्मै तदहं सर्वमुक्तवान्ग्रहणं तदा 043a
द्वैपायनप्रसादाच्च जीवतो मोक्षमाहवे 043c
मुहूर्तमिव च ध्यात्वा प्रतिलभ्य च चेतनाम् 044a
भ्रातॄंश्च सर्वसैन्यानि पर्यपृच्छत मां ततः 044c
तस्मै तदहमाचक्षं सर्वं प्रत्यक्षदर्शिवान् 045a
भ्रातॄंश्च निहतान्सर्वान्सैन्यं च विनिपातितम् 045c
त्रयः किल रथाः शिष्टास्तावकानां नराधिप 046a
इति प्रस्थानकाले मां कृष्णद्वैपायनोऽब्रवीत् 046c
स दीर्घमिव निःश्वस्य विप्रेक्ष्य च पुनः पुनः 047a
अंसे मां पाणिना स्पृष्ट्वा पुत्रस्ते पर्यभाषत 047c
त्वदन्यो नेह सङ्ग्रामे कश्चिज्जीवति सञ्जय 048a
द्वितीयं नेह पश्यामि ससहायाश्च पाण्डवाः 048c
ब्रूयाः सञ्जय राजानं प्रज्ञाचक्षुषमीश्वरम् 049a
दुर्योधनस्तव सुतः प्रविष्टो ह्रदमित्युत 049c
सुहृद्भिस्तादृशैर्हीनः पुत्रैर्भ्रातृभिरेव च 050a
पाण्डवैश्च हृते राज्ये को नु जीवति मादृशः 050c
आचक्षेथाः सर्वमिदं मां च मुक्तं महाहवात् 051a
अस्मिंस्तोयह्रदे सुप्तं जीवन्तं भृशविक्षतम् 051c
एवमुक्त्वा महाराज प्राविशत्तं ह्रदं नृपः 052a
अस्तम्भयत तोयं च मायया मनुजाधिपः 052c
तस्मिन्ह्रदं प्रविष्टे तु त्रीन्रथाञ्श्रान्तवाहनान् 053a
अपश्यं सहितानेकस्तं देशं समुपेयुषः 053c
कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम् 054a
भोजं च कृतवर्माणं सहिताञ्शरविक्षतान् 054c
ते सर्वे मामभिप्रेक्ष्य तूर्णमश्वानचोदयन् 055a
उपयाय च मामूचुर्दिष्ट्या जीवसि सञ्जय 055c
अपृच्छंश्चैव मां सर्वे पुत्रं तव जनाधिपम् 056a
कच्चिद्दुर्योधनो राजा स नो जीवति सञ्जय 056c
आख्यातवानहं तेभ्यस्तदा कुशलिनं नृपम् 057a
तच्चैव सर्वमाचक्षं यन्मां दुर्योधनोऽब्रवीत् 057c
ह्रदं चैवाहमाचष्ट यं प्रविष्टो नराधिपः 057e
अश्वत्थामा तु तद्राजन्निशम्य वचनं मम 058a
तं ह्रदं विपुलं प्रेक्ष्य करुणं पर्यदेवयत् 058c
अहो धिङ्न स जानाति जीवतोऽस्मान्नराधिपः 059a
पर्याप्ता हि वयं तेन सह योधयितुं परान् 059c
ते तु तत्र चिरं कालं विलप्य च महारथाः 060a
प्राद्रवन्रथिनां श्रेष्ठा दृष्ट्वा पाण्डुसुतान्रणे 060c
ते तु मां रथमारोप्य कृपस्य सुपरिष्कृतम् 061a
सेनानिवेशमाजग्मुर्हतशेषास्त्रयो रथाः 061c
तत्र गुल्माः परित्रस्ताः सूर्ये चास्तमिते सति 062a
सर्वे विचुक्रुशुः श्रुत्वा पुत्राणां तव सङ्क्षयम् 062c
ततो वृद्धा महाराज योषितां रक्षणो नराः 063a
राजदारानुपादाय प्रययुर्नगरं प्रति 063c
तत्र विक्रोशतीनां च रुदतीनां च सर्वशः 064a
प्रादुरासीन्महाञ्शब्दः श्रुत्वा तद्बलसङ्क्षयम् 064c
ततस्ता योषितो राजन्क्रन्दन्त्यो वै मुहुर्मुहुः 065a
कुरर्य इव शब्देन नादयन्त्यो महीतलम् 065c
आजघ्नुः करजैश्चापि पाणिभिश्च शिरांस्युत 066a
लुलुवुश्च तदा केशान्क्रोशन्त्यस्तत्र तत्र ह 066c
हाहाकारविनादिन्यो विनिघ्नन्त्य उरांसि च 067a
क्रोशन्त्यस्तत्र रुरुदुः क्रन्दमाना विशां पते 067c
ततो दुर्योधनामात्याः साश्रुकण्ठा भृशातुराः 068a
राजदारानुपादाय प्रययुर्नगरं प्रति 068c
वेत्रजर्झरहस्ताश्च द्वाराध्यक्षा विशां पते 069a
शयनीयानि शुभ्राणि स्पर्ध्यास्तरणवन्ति च 069c
समादाय ययुस्तूर्णं नगरं दाररक्षिणः 069e
आस्थायाश्वतरीयुक्तान्स्यन्दनानपरे जनाः 070a
स्वान्स्वान्दारानुपादाय प्रययुर्नगरं प्रति 070c
अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु 071a
ददृशुस्ता महाराज जना यान्तीः पुरं प्रति 071c
ताः स्त्रियो भरतश्रेष्ठ सौकुमार्यसमन्विताः 072a
प्रययुर्नगरं तूर्णं हतस्वजनबान्धवाः 072c
आ गोपालाविपालेभ्यो द्रवन्तो नगरं प्रति 073a
ययुर्मनुष्याः सम्भ्रान्ता भीमसेनभयार्दिताः 073c
अपि चैषां भयं तीव्रं पार्थेभ्योऽभूत्सुदारुणम् 074a
प्रेक्षमाणास्तदान्योन्यमाधावन्नगरं प्रति 074c
तस्मिंस्तदा वर्तमाने विद्रवे भृशदारुणे 075a
युयुत्सुः शोकसम्मूढः प्राप्तकालमचिन्तयत् 075c
जितो दुर्योधनः सङ्ख्ये पाण्डवैर्भीमविक्रमैः 076a
एकादशचमूभर्ता भ्रातरश्चास्य सूदिताः 076c
हताश्च कुरवः सर्वे भीष्मद्रोणपुरःसराः 076e
अहमेको विमुक्तस्तु भाग्ययोगाद्यदृच्छया 077a
विद्रुतानि च सर्वाणि शिबिराणि समन्ततः 077c
दुर्योधनस्य सचिवा ये केचिदवशेषिताः 078a
राजदारानुपादाय व्यधावन्नगरं प्रति 078c
प्राप्तकालमहं मन्ये प्रवेशं तैः सहाभिभो 079a
युधिष्ठिरमनुज्ञाप्य भीमसेनं तथैव च 079c
एतमर्थं महाबाहुरुभयोः स न्यवेदयत् 080a
तस्य प्रीतोऽभवद्राजा नित्यं करुणवेदिता 080c
परिष्वज्य महाबाहुर्वैश्यापुत्रं व्यसर्जयत् 080e
ततः स रथमास्थाय द्रुतमश्वानचोदयत् 081a
असम्भावितवांश्चापि राजदारान्पुरं प्रति 081c
तैश्चैव सहितः क्षिप्रमस्तं गच्छति भास्करे 082a
प्रविष्टो हास्तिनपुरं बाष्पकण्ठोऽश्रुलोचनः 082c
अपश्यत महाप्राज्ञं विदुरं साश्रुलोचनम् 083a
राज्ञः समीपान्निष्क्रान्तं शोकोपहतचेतसम् 083c
तमब्रवीत्सत्यधृतिः प्रणतं त्वग्रतः स्थितम् 084a
अस्मिन्कुरुक्षये वृत्ते दिष्ट्या त्वं पुत्र जीवसि 084c
विना राज्ञः प्रवेशाद्वै किमसि त्वमिहागतः 085a
एतन्मे कारणं सर्वं विस्तरेण निवेदय 085c
युयुत्सुरुवाच 086
निहते शकुनौ तात सज्ञातिसुतबान्धवे 086a
हतशेषपरीवारो राजा दुर्योधनस्ततः 086c
स्वकं स हयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात् 086e
अपक्रान्ते तु नृपतौ स्कन्धावारनिवेशनात् 087a
भयव्याकुलितं सर्वं प्राद्रवन्नगरं प्रति 087c
ततो राज्ञः कलत्राणि भ्रातॄणां चास्य सर्वशः 088a
वाहनेषु समारोप्य स्त्र्यध्यक्षाः प्राद्रवन्भयात् 088c
ततोऽहं समनुज्ञाप्य राजानं सहकेशवम् 089a
प्रविष्टो हास्तिनपुरं रक्षल्ँलोकाद्धि वाच्यताम् 089c
एतच्छ्रुत्वा तु वचनं वैश्यापुत्रेण भाषितम् 090a
प्राप्तकालमिति ज्ञात्वा विदुरः सर्वधर्मवित् 090c
अपूजयदमेयात्मा युयुत्सुं वाक्यकोविदम् 090e
प्राप्तकालमिदं सर्वं भवतो भरतक्षये 091a
अद्य त्वमिह विश्रान्तः श्वोऽभिगन्ता युधिष्ठिरम् 091c
एतावदुक्त्वा वचनं विदुरः सर्वधर्मवित् 092a
युयुत्सुं समनुज्ञाप्य प्रविवेश नृपक्षयम् 092c
युयुत्सुरपि तां रात्रिं स्वगृहे न्यवसत्तदा 092e