सञ्जय उवाच 001
तस्मिन्प्रवृत्ते सङ्ग्रामे नरवाजिगजक्षये 001a
शकुनिः सौबलो राजन्सहदेवं समभ्ययात् 001c
ततोऽस्यापततस्तूर्णं सहदेवः प्रतापवान् 002a
शरौघान्प्रेषयामास पतङ्गानिव शीघ्रगान् 002c
उलूकश्च रणे भीमं विव्याध दशभिः शरैः 002e
शकुनिस्तु महाराज भीमं विद्ध्वा त्रिभिः शरैः 003a
सायकानां नवत्या वै सहदेवमवाकिरत् 003c
ते शूराः समरे राजन्समासाद्य परस्परम् 004a
विव्यधुर्निशितैर्बाणैः कङ्कबर्हिणवाजितैः 004c
स्वर्णपुङ्खैः शिलाधौतैरा कर्णात्प्रहितैः शरैः 004e
तेषां चापभुजोत्सृष्टा शरवृष्टिर्विशां पते 005a
आच्छादयद्दिशः सर्वा धाराभिरिव तोयदः 005c
ततः क्रुद्धो रणे भीमः सहदेवश्च भारत 006a
चेरतुः कदनं सङ्ख्ये कुर्वन्तौ सुमहाबलौ 006c
ताभ्यां शरशतैश्छन्नं तद्बलं तव भारत 007a
अन्धकारमिवाकाशमभवत्तत्र तत्र ह 007c
अश्वैर्विपरिधावद्भिः शरच्छन्नैर्विशां पते 008a
तत्र तत्र कृतो मार्गो विकर्षद्भिर्हतान्बहून् 008c
निहतानां हयानां च सहैव हययोधिभिः 009a
वर्मभिर्विनिकृत्तैश्च प्रासैश्छिन्नैश्च मारिष 009c
सञ्छन्ना पृथिवी जज्ञे कुसुमैः शबला इव 009e
योधास्तत्र महाराज समासाद्य परस्परम् 010a
व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम् 010c
उद्वृत्तनयनै रोषात्सन्दष्टौष्ठपुटैर्मुखैः 011a
सकुण्डलैर्मही छन्ना पद्मकिञ्जल्कसन्निभैः 011c
भुजैश्छिन्नैर्महाराज नागराजकरोपमैः 012a
साङ्गदैः सतनुत्रैश्च सासिप्रासपरश्वधैः 012c
कबन्धैरुत्थितैश्छिन्नैर्नृत्यद्भिश्चापरैर्युधि 013a
क्रव्यादगणसङ्कीर्णा घोराभूत्पृथिवी विभो 013c
अल्पावशिष्टे सैन्ये तु कौरवेयान्महाहवे 014a
प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम् 014c
एतस्मिन्नन्तरे शूरः सौबलेयः प्रतापवान् 015a
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् 015c
स विह्वलो महाराज रथोपस्थ उपाविशत् 015e
सहदेवं तथा दृष्ट्वा भीमसेनः प्रतापवान् 016a
सर्वसैन्यानि सङ्क्रुद्धो वारयामास भारत 016c
निर्बिभेद च नाराचैः शतशोऽथ सहस्रशः 017a
विनिर्भिद्याकरोच्चैव सिंहनादमरिन्दम 017c
तेन शब्देन वित्रस्ताः सर्वे सहयवारणाः 018a
प्राद्रवन्सहसा भीताः शकुनेश्च पदानुगाः 018c
प्रभग्नानथ तान्दृष्ट्वा राजा दुर्योधनोऽब्रवीत् 019a
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः 019c
इह कीर्तिं समाधाय प्रेत्य लोकान्समश्नुते 020a
प्राणाञ्जहाति यो वीरो युधि पृष्ठमदर्शयन् 020c
एवमुक्तास्तु ते राज्ञा सौबलस्य पदानुगाः 021a
पाण्डवानभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम् 021c
द्रवद्भिस्तत्र राजेन्द्र कृतः शब्दोऽतिदारुणः 022a
क्षुब्धसागरसङ्काशः क्षुभितः सर्वतोऽभवत् 022c
तांस्तदापततो दृष्ट्वा सौबलस्य पदानुगान् 023a
प्रत्युद्ययुर्महाराज पाण्डवा विजये वृताः 023c
प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशां पते 024a
शकुनिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः 024c
धनुश्चिच्छेद च शरैः सौबलस्य हसन्निव 024e
अथान्यद्धनुरादाय शकुनिर्युद्धदुर्मदः 025a
विव्याध नकुलं षष्ट्या भीमसेनं च सप्तभिः 025c
उलूकोऽपि महाराज भीमं विव्याध सप्तभिः 026a
सहदेवं च सप्तत्या परीप्सन्पितरं रणे 026c
तं भीमसेनः समरे विव्याध निशितैः शरैः 027a
शकुनिं च चतुःषष्ट्या पार्श्वस्थांश्च त्रिभिस्त्रिभिः 027c
ते हन्यमाना भीमेन नाराचैस्तैलपायितैः 028a
सहदेवं रणे क्रुद्धाश्छादयञ्शरवृष्टिभिः 028c
पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः 028e
ततोऽस्यापततः शूरः सहदेवः प्रतापवान् 029a
उलूकस्य महाराज भल्लेनापाहरच्छिरः 029c
स जगाम रथाद्भूमिं सहदेवेन पातितः 030a
रुधिराप्लुतसर्वाङ्गो नन्दयन्पाण्डवान्युधि 030c
पुत्रं तु निहतं दृष्ट्वा शकुनिस्तत्र भारत 031a
साश्रुकण्ठो विनिःश्वस्य क्षत्तुर्वाक्यमनुस्मरन् 031c
चिन्तयित्वा मुहूर्तं स बाष्पपूर्णेक्षणः श्वसन् 032a
सहदेवं समासाद्य त्रिभिर्विव्याध सायकैः 032c
तानपास्य शरान्मुक्ताञ्शरसङ्घैः प्रतापवान् 033a
सहदेवो महाराज धनुश्चिच्छेद संयुगे 033c
छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस्तदा 034a
प्रगृह्य विपुलं खड्गं सहदेवाय प्राहिणोत् 034c
तमापतन्तं सहसा घोररूपं विशां पते 035a
द्विधा चिच्छेद समरे सौबलस्य हसन्निव 035c
असिं दृष्ट्वा द्विधा छिन्नं प्रगृह्य महतीं गदाम् 036a
प्राहिणोत्सहदेवाय सा मोघा न्यपतद्भुवि 036c
ततः शक्तिं महाघोरां कालरात्रिमिवोद्यताम् 037a
प्रेषयामास सङ्क्रुद्धः पाण्डवं प्रति सौबलः 037c
तामापतन्तीं सहसा शरैः काञ्चनभूषणैः 038a
त्रिधा चिच्छेद समरे सहदेवो हसन्निव 038c
सा पपात त्रिधा छिन्ना भूमौ कनकभूषणा 039a
शीर्यमाणा यथा दीप्ता गगनाद्वै शतह्रदा 039c
शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम् 040a
दुद्रुवुस्तावकाः सर्वे भये जाते ससौबलाः 040c
अथोत्क्रुष्टं महद्ध्यासीत्पाण्डवैर्जितकाशिभिः 041a
धार्तराष्ट्रास्ततः सर्वे प्रायशो विमुखाभवन् 041c
तान्वै विमनसो दृष्ट्वा माद्रीपुत्रः प्रतापवान् 042a
शरैरनेकसाहस्रैर्वारयामास संयुगे 042c
ततो गान्धारकैर्गुप्तं पृष्ठैरश्वैर्जये धृतम् 043a
आससाद रणे यान्तं सहदेवोऽथ सौबलम् 043c
स्वमंशमवशिष्टं स संस्मृत्य शकुनिं नृप 044a
रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात् 044c
अधिज्यं बलवत्कृत्वा व्याक्षिपन्सुमहद्धनुः 044e
स सौबलमभिद्रुत्य गृध्रपत्रैः शिलाशितैः 045a
भृशमभ्यहनत्क्रुद्धस्तोत्त्रैरिव महाद्विपम् 045c
उवाच चैनं मेधावी निगृह्य स्मारयन्निव 046a
क्षत्रधर्मे स्थितो भूत्वा युध्यस्व पुरुषो भव 046c
यत्तदा हृष्यसे मूढ ग्लहन्नक्षैः सभातले 047a
फलमद्य प्रपद्यस्व कर्मणस्तस्य दुर्मते 047c
निहतास्ते दुरात्मानो येऽस्मानवहसन्पुरा 048a
दुर्योधनः कुलाङ्गारः शिष्टस्त्वं तस्य मातुलः 048c
अद्य ते विहनिष्यामि क्षुरेणोन्मथितं शिरः 049a
वृक्षात्फलमिवोद्धृत्य लगुडेन प्रमाथिना 049c
एवमुक्त्वा महाराज सहदेवो महाबलः 050a
सङ्क्रुद्धो नरशार्दूलो वेगेनाभिजगाम ह 050c
अभिगम्य तु दुर्धर्षः सहदेवो युधां पतिः 051a
विकृष्य बलवच्चापं क्रोधेन प्रहसन्निव 051c
शकुनिं दशभिर्विद्ध्वा चतुर्भिश्चास्य वाजिनः 052a
छत्रं ध्वजं धनुश्चास्य छित्त्वा सिंह इवानदत् 052c
छिन्नध्वजधनुश्छत्रः सहदेवेन सौबलः 053a
ततो विद्धश्च बहुभिः सर्वमर्मसु सायकैः 053c
ततो भूयो महाराज सहदेवः प्रतापवान् 054a
शकुनेः प्रेषयामास शरवृष्टिं दुरासदाम् 054c
ततस्तु क्रुद्धः सुबलस्य पुत्रो माद्रीसुतं सहदेवं विमर्दे 055a
प्रासेन जाम्बूनदभूषणेन जिघांसुरेकोऽभिपपात शीघ्रम् 055c
माद्रीसुतस्तस्य समुद्यतं तं प्रासं सुवृत्तौ च भुजौ रणाग्रे 056a
भल्लैस्त्रिभिर्युगपत्सञ्चकर्त ननाद चोच्चैस्तरसाजिमध्ये 056c
तस्याशुकारी सुसमाहितेन सुवर्णपुङ्खेन दृढायसेन 057a
भल्लेन सर्वावरणातिगेन शिरः शरीरात्प्रममाथ भूयः 057c
शरेण कार्तस्वरभूषितेन दिवाकराभेन सुसंशितेन 058a
हृतोत्तमाङ्गो युधि पाण्डवेन पपात भूमौ सुबलस्य पुत्रः 058c
स तच्छिरो वेगवता शरेण सुवर्णपुङ्खेन शिलाशितेन 059a
प्रावेरयत्कुपितः पाण्डुपुत्रो यत्तत्कुरूणामनयस्य मूलम् 059c
हृतोत्तमाङ्गं शकुनिं समीक्ष्य भूमौ शयानं रुधिरार्द्रगात्रम् 060a
योधास्त्वदीया भयनष्टसत्त्वा दिशः प्रजग्मुः प्रगृहीतशस्त्राः 060c
विप्रद्रुताः शुष्कमुखा विसञ्ज्ञा गाण्डीवघोषेण समाहताश्च 061a
भयार्दिता भग्नरथाश्वनागाः पदातयश्चैव सधार्तराष्ट्राः 061c
ततो रथाच्छकुनिं पातयित्वा मुदान्विता भारत पाण्डवेयाः 062a
शङ्खान्प्रदध्मुः समरे प्रहृष्टाः सकेशवाः सैनिकान्हर्षयन्तः 062c
तं चापि सर्वे प्रतिपूजयन्तो हृष्टा ब्रुवाणाः सहदेवमाजौ 063a
दिष्ट्या हतो नैकृतिको दुरात्मा सहात्मजो वीर रणे त्वयेति 063c