सञ्जय उवाच 001
दुर्योधनो महाराज सुदर्शश्चापि ते सुतः 001a
हतशेषौ तदा सङ्ख्ये वाजिमध्ये व्यवस्थितौ 001c
ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम् 002a
उवाच देवकीपुत्रः कुन्तीपुत्रं धनञ्जयम् 002c
शत्रवो हतभूयिष्ठा ज्ञातयः परिपालिताः 003a
गृहीत्वा सञ्जयं चासौ निवृत्तः शिनिपुङ्गवः 003c
परिश्रान्तश्च नकुलः सहदेवश्च भारत 004a
योधयित्वा रणे पापान्धार्तराष्ट्रपदानुगान् 004c
सुयोधनमभित्यज्य त्रय एते व्यवस्थिताः 005a
कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः 005c
असौ तिष्ठति पाञ्चाल्यः श्रिया परमया युतः 006a
दुर्योधनबलं हत्वा सह सर्वैः प्रभद्रकैः 006c
असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः 007a
छत्रेण ध्रियमाणेन प्रेक्षमाणो मुहुर्मुहुः 007c
प्रतिव्यूह्य बलं सर्वं रणमध्ये व्यवस्थितः 008a
एनं हत्वा शितैर्बाणैः कृतकृत्यो भविष्यसि 008c
गजानीकं हतं दृष्ट्वा त्वां च प्राप्तमरिन्दम 009a
यावन्न विद्रवन्त्येते तावज्जहि सुयोधनम् 009c
यातु कश्चित्तु पाञ्चाल्यं क्षिप्रमागम्यतामिति 010a
परिश्रान्तबलस्तात नैष मुच्येत किल्बिषी 010c
तव हत्वा बलं सर्वं सङ्ग्रामे धृतराष्ट्रजः 011a
जितान्पाण्डुसुतान्मत्वा रूपं धारयते महत् 011c
निहतं स्वबलं दृष्ट्वा पीडितं चापि पाण्डवैः 012a
ध्रुवमेष्यति सङ्ग्रामे वधायैवात्मनो नृपः 012c
एवमुक्तः फल्गुनस्तु कृष्णं वचनमब्रवीत् 013a
धृतराष्ट्रसुताः सर्वे हता भीमेन मानद 013c
यावेतावास्थितौ कृष्ण तावद्य न भविष्यतः 013e
हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः 014a
मद्रराजो हतः शल्यो हतः कृष्ण जयद्रथः 014c
हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च 015a
रथानां तु शते शिष्टे द्वे एव तु जनार्दन 015c
दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातयः 015e
अश्वत्थामा कृपश्चैव त्रिगर्ताधिपतिस्तथा 016a
उलूकः शकुनिश्चैव कृतवर्मा च सात्वतः 016c
एतद्बलमभूच्छेषं धार्तराष्ट्रस्य माधव 017a
मोक्षो न नूनं कालाद्धि विद्यते भुवि कस्यचित् 017c
तथा विनिहते सैन्ये पश्य दुर्योधनं स्थितम् 018a
अद्याह्ना हि महाराजो हतामित्रो भविष्यति 018c
न हि मे मोक्ष्यते कश्चित्परेषामिति चिन्तये 019a
ये त्वद्य समरं कृष्ण न हास्यन्ति रणोत्कटाः 019c
तान्वै सर्वान्हनिष्यामि यद्यपि स्युरमानुषाः 019e
अद्य युद्धे सुसङ्क्रुद्धो दीर्घं राज्ञः प्रजागरम् 020a
अपनेष्यामि गान्धारं पातयित्वा शितैः शरैः 020c
निकृत्या वै दुराचारो यानि रत्नानि सौबलः 021a
सभायामहरद्द्यूते पुनस्तान्याहराम्यहम् 021c
अद्य ता अपि वेत्स्यन्ति सर्वा नागपुरस्त्रियः 022a
श्रुत्वा पतींश्च पुत्रांश्च पाण्डवैर्निहतान्युधि 022c
समाप्तमद्य वै कर्म सर्वं कृष्ण भविष्यति 023a
अद्य दुर्योधनो दीप्तां श्रियं प्राणांश्च त्यक्ष्यति 023c
नापयाति भयात्कृष्ण सङ्ग्रामाद्यदि चेन्मम 024a
निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम् 024c
मम ह्येतदशक्तं वै वाजिवृन्दमरिन्दम 025a
सोढुं ज्यातलनिर्घोषं याहि यावन्निहन्म्यहम् 025c
एवमुक्तस्तु दाशार्हः पाण्डवेन यशस्विना 026a
अचोदयद्धयान्राजन्दुर्योधनबलं प्रति 026c
तदनीकमभिप्रेक्ष्य त्रयः सज्जा महारथाः 027a
भीमसेनोऽर्जुनश्चैव सहदेवश्च मारिष 027c
प्रययुः सिंहनादेन दुर्योधनजिघांसया 027e
तान्प्रेक्ष्य सहितान्सर्वाञ्जवेनोद्यतकार्मुकान् 028a
सौबलोऽभ्यद्रवद्युद्धे पाण्डवानाततायिनः 028c
सुदर्शनस्तव सुतो भीमसेनं समभ्ययात् 029a
सुशर्मा शकुनिश्चैव युयुधाते किरीटिना 029c
सहदेवं तव सुतो हयपृष्ठगतोऽभ्ययात् 029e
ततो ह्ययत्नतः क्षिप्रं तव पुत्रो जनाधिप 030a
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् 030c
सोपाविशद्रथोपस्थे तव पुत्रेण ताडितः 031a
रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन् 031c
प्रतिलभ्य ततः सञ्ज्ञां सहदेवो विशां पते 032a
दुर्योधनं शरैस्तीक्ष्णैः सङ्क्रुद्धः समवाकिरत् 032c
पार्थोऽपि युधि विक्रम्य कुन्तीपुत्रो धनञ्जयः 033a
शूराणामश्वपृष्ठेभ्यः शिरांसि निचकर्त ह 033c
तदनीकं तदा पार्थो व्यधमद्बहुभिः शरैः 034a
पातयित्वा हयान्सर्वांस्त्रिगर्तानां रथान्ययौ 034c
ततस्ते सहिता भूत्वा त्रिगर्तानां महारथाः 035a
अर्जुनं वासुदेवं च शरवर्षैरवाकिरन् 035c
सत्यकर्माणमाक्षिप्य क्षुरप्रेण महायशाः 036a
ततोऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः 036c
शिलाशितेन च विभो क्षुरप्रेण महायशाः 037a
शिरश्चिच्छेद प्रहसंस्तप्तकुण्डलभूषणम् 037c
सत्येषुमथ चादत्त योधानां मिषतां ततः 038a
यथा सिंहो वने राजन्मृगं परिबुभुक्षितः 038c
तं निहत्य ततः पार्थः सुशर्माणं त्रिभिः शरैः 039a
विद्ध्वा तानहनत्सर्वान्रथान्रुक्मविभूषितान् 039c
ततस्तु प्रत्वरन्पार्थो दीर्घकालं सुसम्भृतम् 040a
मुञ्चन्क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति 040c
तमर्जुनः पृषत्कानां शतेन भरतर्षभ 041a
पूरयित्वा ततो वाहान्न्यहनत्तस्य धन्विनः 041c
ततः शरं समादाय यमदण्डोपमं शितम् 042a
सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्निव 042c
स शरः प्रेषितस्तेन क्रोधदीप्तेन धन्विना 043a
सुशर्माणं समासाद्य बिभेद हृदयं रणे 043c
स गतासुर्महाराज पपात धरणीतले 044a
नन्दयन्पाण्डवान्सर्वान्व्यथयंश्चापि तावकान् 044c
सुशर्माणं रणे हत्वा पुत्रानस्य महारथान् 045a
सप्त चाष्टौ च त्रिंशच्च सायकैरनयत्क्षयम् 045c
ततोऽस्य निशितैर्बाणैः सर्वान्हत्वा पदानुगान् 046a
अभ्यगाद्भारतीं सेनां हतशेषां महारथः 046c
भीमस्तु समरे क्रुद्धः पुत्रं तव जनाधिप 047a
सुदर्शनमदृश्यं तं शरैश्चक्रे हसन्निव 047c
ततोऽस्य प्रहसन्क्रुद्धः शिरः कायादपाहरत् 048a
क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद्भुवि 048c
तस्मिंस्तु निहते वीरे ततस्तस्य पदानुगाः 049a
परिवव्रू रणे भीमं किरन्तो विशिखाञ्शितान् 049c
ततस्तु निशितैर्बाणैस्तदनीकं वृकोदरः 050a
इन्द्राशनिसमस्पर्शैः समन्तात्पर्यवाकिरत् 050c
ततः क्षणेन तद्भीमो न्यहनद्भरतर्षभ 050e
तेषु तूत्साद्यमानेषु सेनाध्यक्षा महाबलाः 051a
भीमसेनं समासाद्य ततोऽयुध्यन्त भारत 051c
तांस्तु सर्वाञ्शरैर्घोरैरवाकिरत पाण्डवः 051e
तथैव तावका राजन्पाण्डवेयान्महारथान् 052a
शरवर्षेण महता समन्तात्पर्यवारयन् 052c
व्याकुलं तदभूत्सर्वं पाण्डवानां परैः सह 053a
तावकानां च समरे पाण्डवेयैर्युयुत्सताम् 053c
तत्र योधास्तदा पेतुः परस्परसमाहताः 054a
उभयोः सेनयो राजन्संशोचन्तः स्म बान्धवान् 054c