सञ्जय उवाच 001
गजानीके हते तस्मिन्पाण्डुपुत्रेण भारत 001a
वध्यमाने बले चैव भीमसेनेन संयुगे 001c
चरन्तं च तथा दृष्ट्वा भीमसेनमरिन्दमम् 002a
दण्डहस्तं यथा क्रुद्धमन्तकं प्राणहारिणम् 002c
समेत्य समरे राजन्हतशेषाः सुतास्तव 003a
अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव 003c
सोदर्याः सहिता भूत्वा भीमसेनमुपाद्रवन् 003e
दुर्मर्षणो महाराज जैत्रो भूरिबलो रविः 004a
इत्येते सहिता भूत्वा तव पुत्राः समन्ततः 004c
भीमसेनमभिद्रुत्य रुरुधुः सर्वतोदिशम् 004e
ततो भीमो महाराज स्वरथं पुनरास्थितः 005a
मुमोच निशितान्बाणान्पुत्राणां तव मर्मसु 005c
ते कीर्यमाणा भीमेन पुत्रास्तव महारणे 006a
भीमसेनमपासेधन्प्रवणादिव कुञ्जरम् 006c
ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह 007a
क्षुरप्रेण प्रमथ्याशु पातयामास भूतले 007c
ततोऽपरेण भल्लेन सर्वावरणभेदिना 008a
श्रुतान्तमवधीद्भीमस्तव पुत्रं महारथः 008c
जयत्सेनं ततो विद्ध्वा नाराचेन हसन्निव 009a
पातयामास कौरव्यं रथोपस्थादरिन्दमः 009c
स पपात रथाद्राजन्भूमौ तूर्णं ममार च 009e
श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष 010a
शतेन गृध्रवाजानां शराणां नतपर्वणाम् 010c
ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम् 011a
त्रीनेतांस्त्रिभिरानर्छद्विषाग्निप्रतिमैः शरैः 011c
ते हता न्यपतन्भूमौ स्यन्दनेभ्यो महारथाः 012a
वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः 012c
ततोऽपरेण तीक्ष्णेन नाराचेन परन्तपः 013a
दुर्विमोचनमाहत्य प्रेषयामास मृत्यवे 013c
स हतः प्रापतद्भूमौ स्वरथाद्रथिनां वरः 014a
गिरेस्तु कूटजो भग्नो मारुतेनेव पादपः 014c
दुष्प्रधर्षं ततश्चैव सुजातं च सुतौ तव 015a
एकैकं न्यवधीत्सङ्ख्ये द्वाभ्यां द्वाभ्यां चमूमुखे 015c
तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ 015e
ततो यतन्तमपरमभिवीक्ष्य सुतं तव 016a
भल्लेन युधि विव्याध भीमो दुर्विषहं रणे 016c
स पपात हतो वाहात्पश्यतां सर्वधन्विनाम् 016e
दृष्ट्वा तु निहतान्भ्रातॄन्बहूनेकेन संयुगे 017a
अमर्षवशमापन्नः श्रुतर्वा भीममभ्ययात् 017c
विक्षिपन्सुमहच्चापं कार्तस्वरविभूषितम् 018a
विसृजन्सायकांश्चैव विषाग्निप्रतिमान्बहून् 018c
स तु राजन्धनुश्छित्त्वा पाण्डवस्य महामृधे 019a
अथैनं छिन्नधन्वानं विंशत्या समवाकिरत् 019c
ततोऽन्यद्धनुरादाय भीमसेनो महारथः 020a
अवाकिरत्तव सुतं तिष्ठ तिष्ठेति चाब्रवीत् 020c
महदासीत्तयोर्युद्धं चित्ररूपं भयानकम् 021a
यादृशं समरे पूर्वं जम्भवासवयोरभूत् 021c
तयोस्तत्र शरैर्मुक्तैर्यमदण्डनिभैः शुभैः 022a
समाच्छन्ना धरा सर्वा खं च सर्वा दिशस्तथा 022c
ततः श्रुतर्वा सङ्क्रुद्धो धनुरायम्य सायकैः 023a
भीमसेनं रणे राजन्बाह्वोरुरसि चार्पयत् 023c
सोऽतिविद्धो महाराज तव पुत्रेण धन्विना 024a
भीमः सञ्चुक्षुभे क्रुद्धः पर्वणीव महोदधिः 024c
ततो भीमो रुषाविष्टः पुत्रस्य तव मारिष 025a
सारथिं चतुरश्चाश्वान्बाणैर्निन्ये यमक्षयम् 025c
विरथं तं समालक्ष्य विशिखैर्लोमवाहिभिः 026a
अवाकिरदमेयात्मा दर्शयन्पाणिलाघवम् 026c
श्रुतर्वा विरथो राजन्नाददे खड्गचर्मणी 027a
अथास्याददतः खड्गं शतचन्द्रं च भानुमत् 027c
क्षुरप्रेण शिरः कायात्पातयामास पाण्डवः 027e
छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मनः 028a
पपात कायः स रथाद्वसुधामनुनादयन् 028c
तस्मिन्निपतिते वीरे तावका भयमोहिताः 029a
अभ्यद्रवन्त सङ्ग्रामे भीमसेनं युयुत्सवः 029c
तानापतत एवाशु हतशेषाद्बलार्णवात् 030a
दंशितः प्रतिजग्राह भीमसेनः प्रतापवान् 030c
ते तु तं वै समासाद्य परिवव्रुः समन्ततः 030e
ततस्तु संवृतो भीमस्तावकैर्निशितैः शरैः 031a
पीडयामास तान्सर्वान्सहस्राक्ष इवासुरान् 031c
ततः पञ्चशतान्हत्वा सवरूथान्महारथान् 032a
जघान कुञ्जरानीकं पुनः सप्तशतं युधि 032c
हत्वा दश सहस्राणि पत्तीनां परमेषुभिः 033a
वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते 033c
भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव 034a
मेने कृतार्थमात्मानं सफलं जन्म च प्रभो 034c
तं तथा युध्यमानं च विनिघ्नन्तं च तावकान् 035a
ईक्षितुं नोत्सहन्ते स्म तव सैन्यानि भारत 035c
विद्राव्य तु कुरून्सर्वांस्तांश्च हत्वा पदानुगान् 036a
दोर्भ्यां शब्दं ततश्चक्रे त्रासयानो महाद्विपान् 036c
हतभूयिष्ठयोधा तु तव सेना विशां पते 037a
किञ्चिच्छेषा महाराज कृपणा समपद्यत 037c