सञ्जय उवाच 001
अस्यतां यतमानानां शूराणामनिवर्तिनाम् 001a
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः 001c
इन्द्राशनिसमस्पर्शानविषह्यान्महौजसः 002a
विसृजन्दृश्यते बाणान्धारा मुञ्चन्निवाम्बुदः 002c
तत्सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना 003a
सम्प्रदुद्राव सङ्ग्रामात्तव पुत्रस्य पश्यतः 003c
हतधुर्या रथाः केचिद्धतसूतास्तथापरे 004a
भग्नाक्षयुगचक्रेषाः केचिदासन्विशां पते 004c
अन्येषां सायकाः क्षीणास्तथान्ये शरपीडिताः 005a
अक्षता युगपत्केचित्प्राद्रवन्भयपीडिताः 005c
केचित्पुत्रानुपादाय हतभूयिष्ठवाहनाः 006a
विचुक्रुशुः पितॄनन्ये सहायानपरे पुनः 006c
बान्धवांश्च नरव्याघ्र भ्रातॄन्सम्बन्धिनस्तथा 007a
दुद्रुवुः केचिदुत्सृज्य तत्र तत्र विशां पते 007c
बहवोऽत्र भृशं विद्धा मुह्यमाना महारथाः 008a
निष्टनन्तः स्म दृश्यन्ते पार्थबाणहता नराः 008c
तानन्ये रथमारोप्य समाश्वास्य मुहूर्तकम् 009a
विश्रान्ताश्च वितृष्णाश्च पुनर्युद्धाय जग्मिरे 009c
तानपास्य गताः केचित्पुनरेव युयुत्सवः 010a
कुर्वन्तस्तव पुत्रस्य शासनं युद्धदुर्मदाः 010c
पानीयमपरे पीत्वा पर्याश्वास्य च वाहनम् 011a
वर्माणि च समारोप्य केचिद्भरतसत्तम 011c
समाश्वास्यापरे भ्रातॄन्निक्षिप्य शिबिरेऽपि च 012a
पुत्रानन्ये पितॄनन्ये पुनर्युद्धमरोचयन् 012c
सज्जयित्वा रथान्केचिद्यथामुख्यं विशां पते 013a
आप्लुत्य पाण्डवानीकं पुनर्युद्धमरोचयन् 013c
ते शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे 014a
त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः 014c
आगम्य सहसा केचिद्रथैः स्वर्णविभूषितैः 015a
पाण्डवानामनीकेषु धृष्टद्युम्नमयोधयन् 015c
धृष्टद्युम्नोऽपि पाञ्चाल्यः शिखण्डी च महारथः 016a
नाकुलिश्च शतानीको रथानीकमयोधयन् 016c
पाञ्चाल्यस्तु ततः क्रुद्धः सैन्येन महता वृतः 017a
अभ्यद्रवत्सुसंरब्धस्तावकान्हन्तुमुद्यतः 017c
ततस्त्वापततस्तस्य तव पुत्रो जनाधिप 018a
बाणसन्घाननेकान्वै प्रेषयामास भारत 018c
धृष्टद्युम्नस्ततो राजंस्तव पुत्रेण धन्विना 019a
नाराचैर्बहुभिः क्षिप्रं बाह्वोरुरसि चार्पितः 019c
सोऽतिविद्धो महेष्वासस्तोत्त्रार्दित इव द्विपः 020a
तस्याश्वांश्चतुरो बाणैः प्रेषयामास मृत्यवे 020c
सारथेश्चास्य भल्लेन शिरः कायादपाहरत् 020e
ततो दुर्योधनो राजा पृष्ठमारुह्य वाजिनः 021a
अपाक्रामद्धतरथो नातिदूरमरिन्दमः 021c
दृष्ट्वा तु हतविक्रान्तं स्वमनीकं महाबलः 022a
तव पुत्रो महाराज प्रययौ यत्र सौबलः 022c
ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः 023a
पाण्डवान्रथिनः पञ्च समन्तात्पर्यवारयन् 023c
ते वृताः समरे पञ्च गजानीकेन भारत 024a
अशोभन्त नरव्याघ्रा ग्रहा व्याप्ता घनैरिव 024c
ततोऽर्जुनो महाराज लब्धलक्षो महाभुजः 025a
विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः 025c
तैः समन्तात्परिवृतः कुञ्जरैः पर्वतोपमैः 026a
नाराचैर्विमलैस्तीक्ष्णैर्गजानीकमपोथयत् 026c
तत्रैकबाणनिहतानपश्याम महागजान् 027a
पतितान्पात्यमानांश्च विभिन्नान्सव्यसाचिना 027c
भीमसेनस्तु तान्दृष्ट्वा नागान्मत्तगजोपमः 028a
करेण गृह्य महतीं गदामभ्यपतद्बली 028c
अवप्लुत्य रथात्तूर्णं दण्डपाणिरिवान्तकः 028e
तमुद्यतगदं दृष्ट्वा पाण्डवानां महारथम् 029a
वित्रेसुस्तावकाः सैन्याः शकृन्मूत्रं प्रसुस्रुवुः 029c
आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे 029e
गदया भीमसेनेन भिन्नकुम्भान्रजस्वलान् 030a
धावमानानपश्याम कुञ्जरान्पर्वतोपमान् 030c
प्रधाव्य कुञ्जरास्ते तु भीमसेनगदाहताः 031a
पेतुरार्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः 031c
तान्भिन्नकुम्भान्सुबहून्द्रवमाणानितस्ततः 032a
पतमानांश्च सम्प्रेक्ष्य वित्रेसुस्तव सैनिकाः 032c
युधिष्ठिरोऽपि सङ्क्रुद्धो माद्रीपुत्रौ च पाण्डवौ 033a
गृध्रपक्षैः शितैर्बाणैर्जघ्नुर्वै गजयोधिनः 033c
धृष्टद्युम्नस्तु समरे पराजित्य नराधिपम् 034a
अपक्रान्ते तव सुते हयपृष्ठं समाश्रिते 034c
दृष्ट्वा च पाण्डवान्सर्वान्कुञ्जरैः परिवारितान् 035a
धृष्टद्युम्नो महाराज सह सर्वैः प्रभद्रकैः 035c
पुत्रः पाञ्चालराजस्य जिघांसुः कुञ्जरान्ययौ 035e
अदृष्ट्वा तु रथानीके दुर्योधनमरिन्दमम् 036a
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः 036c
अपृच्छन्क्षत्रियांस्तत्र क्व नु दुर्योधनो गतः 036e
अपश्यमाना राजानं वर्तमाने जनक्षये 037a
मन्वाना निहतं तत्र तव पुत्रं महारथाः 037c
विषण्णवदना भूत्वा पर्यपृच्छन्त ते सुतम् 037e
आहुः केचिद्धते सूते प्रयातो यत्र सौबलः 038a
अपरे त्वब्रुवंस्तत्र क्षत्रिया भृशविक्षताः 038c
दुर्योधनेन किं कार्यं द्रक्ष्यध्वं यदि जीवति 039a
युध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति 039c
ते क्षत्रियाः क्षतैर्गात्रैर्हतभूयिष्ठवाहनाः 040a
शरैः सम्पीड्यमानाश्च नातिव्यक्तमिवाब्रुवन् 040c
इदं सर्वं बलं हन्मो येन स्म परिवारिताः 041a
एते सर्वे गजान्हत्वा उपयान्ति स्म पाण्डवाः 041c
श्रुत्वा तु वचनं तेषामश्वत्थामा महाबलः 042a
हित्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम् 042c
कृपश्च कृतवर्मा च प्रययुर्यत्र सौबलः 043a
रथानीकं परित्यज्य शूराः सुदृढधन्विनः 043c
ततस्तेषु प्रयातेषु धृष्टद्युम्नपुरोगमाः 044a
आययुः पाण्डवा राजन्विनिघ्नन्तः स्म तावकान् 044c
दृष्ट्वा तु तानापततः सम्प्रहृष्टान्महारथान् 045a
पराक्रान्तांस्ततो वीरान्निराशाञ्जीविते तदा 045c
विवर्णमुखभूयिष्ठमभवत्तावकं बलम् 045e
परिक्षीणायुधान्दृष्ट्वा तानहं परिवारितान् 046a
राजन्बलेन द्व्यङ्गेन त्यक्त्वा जीवितमात्मनः 046c
आत्मनापञ्चमोऽयुध्यं पाञ्चालस्य बलेन ह 047a
तस्मिन्देशे व्यवस्थाप्य यत्र शारद्वतः स्थितः 047c
सम्प्रयुद्धा वयं पञ्च किरीटिशरपीडिताः 048a
धृष्टद्युम्नं महानीकं तत्र नोऽभूद्रणो महान् 048c
जितास्तेन वयं सर्वे व्यपयाम रणात्ततः 048e
अथापश्यं सात्यकिं तमुपायान्तं महारथम् 049a
रथैश्चतुःशतैर्वीरो मां चाभ्यद्रवदाहवे 049c
धृष्टद्युम्नादहं मुक्तः कथञ्चिच्छ्रान्तवाहनः 050a
पतितो माधवानीकं दुष्कृती नरकं यथा 050c
तत्र युद्धमभूद्घोरं मुहूर्तमतिदारुणम् 050e
सात्यकिस्तु महाबाहुर्मम हत्वा परिच्छदम् 051a
जीवग्राहमगृह्णान्मां मूर्छितं पतितं भुवि 051c
ततो मुहूर्तादिव तद्गजानीकमवध्यत 052a
गदया भीमसेनेन नाराचैरर्जुनेन च 052c
प्रतिपिष्टैर्महानागैः समन्तात्पर्वतोपमैः 053a
नातिप्रसिद्धेव गतिः पाण्डवानामजायत 053c
रथमार्गांस्ततश्चक्रे भीमसेनो महाबलः 054a
पाण्डवानां महाराज व्यपकर्षन्महागजान् 054c
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः 055a
अपश्यन्तो रथानीके दुर्योधनमरिन्दमम् 055c
राजानं मृगयामासुस्तव पुत्रं महारथम् 055e
परित्यज्य च पाञ्चालं प्रयाता यत्र सौबलः 056a
राज्ञोऽदर्शनसंविग्ना वर्तमाने जनक्षये 056c