सञ्जय उवाच 001
तस्मिञ्शब्दे मृदौ जाते पाण्डवैर्निहते बले 001a
अश्वैः सप्तशतैः शिष्टैरुपावर्तत सौबलः 001c
स यात्वा वाहिनीं तूर्णमब्रवीत्त्वरयन्युधि 002a
युध्यध्वमिति संहृष्टाः पुनः पुनररिन्दमः 002c
अपृच्छत्क्षत्रियांस्तत्र क्व नु राजा महारथः 002e
शकुनेस्तु वचः श्रुत्वा त ऊचुर्भरतर्षभ 003a
असौ तिष्ठति कौरव्यो रणमध्ये महारथः 003c
यत्रैतत्सुमहच्छत्रं पूर्णचन्द्रसमप्रभम् 004a
यत्रैते सतलत्राणा रथास्तिष्ठन्ति दंशिताः 004c
यत्रैष शब्दस्तुमुलः पर्जन्यनिनदोपमः 005a
तत्र गच्छ द्रुतं राजंस्ततो द्रक्ष्यसि कौरवम् 005c
एवमुक्तस्तु तैः शूरैः शकुनिः सौबलस्तदा 006a
प्रययौ तत्र यत्रासौ पुत्रस्तव नराधिप 006c
सर्वतः संवृतो वीरैः समरेष्वनिवर्तिभिः 006e
ततो दुर्योधनं दृष्ट्वा रथानीके व्यवस्थितम् 007a
सरथांस्तावकान्सर्वान्हर्षयञ्शकुनिस्ततः 007c
दुर्योधनमिदं वाक्यं हृष्टरूपो विशां पते 008a
कृतकार्यमिवात्मानं मन्यमानोऽब्रवीन्नृपम् 008c
जहि राजन्रथानीकमश्वाः सर्वे जिता मया 009a
नात्यक्त्वा जीवितं सङ्ख्ये शक्यो जेतुं युधिष्ठिरः 009c
हते तस्मिन्रथानीके पाण्डवेनाभिपालिते 010a
गजानेतान्हनिष्यामः पदातींश्चेतरांस्तथा 010c
श्रुत्वा तु वचनं तस्य तावका जयगृद्धिनः 011a
जवेनाभ्यपतन्हृष्टाः पाण्डवानामनीकिनीम् 011c
सर्वे विवृततूणीराः प्रगृहीतशरासनाः 012a
शरासनानि धुन्वानाः सिंहनादं प्रचक्रिरे 012c
ततो ज्यातलनिर्घोषः पुनरासीद्विशां पते 013a
प्रादुरासीच्छराणां च सुमुक्तानां सुदारुणः 013c
तान्समीपगतान्दृष्ट्वा जवेनोद्यतकार्मुकान् 014a
उवाच देवकीपुत्रं कुन्तीपुत्रो धनञ्जयः 014c
चोदयाश्वानसम्भ्रान्तः प्रविशैतद्बलार्णवम् 015a
अन्तमद्य गमिष्यामि शत्रूणां निशितैः शरैः 015c
अष्टादश दिनान्यद्य युद्धस्यास्य जनार्दन 016a
वर्तमानस्य महतः समासाद्य परस्परम् 016c
अनन्तकल्पा ध्वजिनी भूत्वा ह्येषां महात्मनाम् 017a
क्षयमद्य गता युद्धे पश्य दैवं यथाविधम् 017c
समुद्रकल्पं तु बलं धार्तराष्ट्रस्य माधव 018a
अस्मानासाद्य सञ्जातं गोष्पदोपममच्युत 018c
हते भीष्मे च सन्दध्याच्छिवं स्यादिह माधव 019a
न च तत्कृतवान्मूढो धार्तराष्ट्रः सुबालिशः 019c
उक्तं भीष्मेण यद्वाक्यं हितं पथ्यं च माधव 020a
तच्चापि नासौ कृतवान्वीतबुद्धिः सुयोधनः 020c
तस्मिंस्तु पतिते भीष्मे प्रच्युते पृथिवीतले 021a
न जाने कारणं किं नु येन युद्धमवर्तत 021c
मूढांस्तु सर्वथा मन्ये धार्तराष्ट्रान्सुबालिशान् 022a
पतिते शन्तनोः पुत्रे येऽकार्षुः संयुगं पुनः 022c
अनन्तरं च निहते द्रोणे ब्रह्मविदां वरे 023a
राधेये च विकर्णे च नैवाशाम्यत वैशसम् 023c
अल्पावशिष्टे सैन्येऽस्मिन्सूतपुत्रे च पातिते 024a
सपुत्रे वै नरव्याघ्रे नैवाशाम्यत वैशसम् 024c
श्रुतायुषि हते शूरे जलसन्धे च पौरवे 025a
श्रुतायुधे च नृपतौ नैवाशाम्यत वैशसम् 025c
भूरिश्रवसि शल्ये च शाल्वे चैव जनार्दन 026a
आवन्त्येषु च वीरेषु नैवाशाम्यत वैशसम् 026c
जयद्रथे च निहते राक्षसे चाप्यलायुधे 027a
बाह्लिके सोमदत्ते च नैवाशाम्यत वैशसम् 027c
भगदत्ते हते शूरे काम्बोजे च सुदक्षिणे 028a
दुःशासने च निहते नैवाशाम्यत वैशसम् 028c
दृष्ट्वा च निहताञ्शूरान्पृथङ्माण्डलिकान्नृपान् 029a
बलिनश्च रणे कृष्ण नैवाशाम्यत वैशसम् 029c
अक्षौहिणीपतीन्दृष्ट्वा भीमसेनेन पातितान् 030a
मोहाद्वा यदि वा लोभान्नैवाशाम्यत वैशसम् 030c
को नु राजकुले जातः कौरवेयो विशेषतः 031a
निरर्थकं महद्वैरं कुर्यादन्यः सुयोधनात् 031c
गुणतोऽभ्यधिकं ज्ञात्वा बलतः शौर्यतोऽपि वा 032a
अमूढः को नु युध्येत जानन्प्राज्ञो हिताहितम् 032c
यन्न तस्य मनो ह्यासीत्त्वयोक्तस्य हितं वचः 033a
प्रशमे पाण्डवैः सार्धं सोऽन्यस्य शृणुयात्कथम् 033c
येन शान्तनवो भीष्मो द्रोणो विदुर एव च 034a
प्रत्याख्याताः शमस्यार्थे किं नु तस्याद्य भेषजम् 034c
मौर्ख्याद्येन पिता वृद्धः प्रत्याख्यातो जनार्दन 035a
तथा माता हितं वाक्यं भाषमाणा हितैषिणी 035c
प्रत्याख्याता ह्यसत्कृत्य स कस्मै रोचयेद्वचः 035e
कुलान्तकरणो व्यक्तं जात एष जनार्दन 036a
तथास्य दृश्यते चेष्टा नीतिश्चैव विशां पते 036c
नैष दास्यति नो राज्यमिति मे मतिरच्युत 036e
उक्तोऽहं बहुशस्तात विदुरेण महात्मना 037a
न जीवन्दास्यते भागं धार्तराष्ट्रः कथञ्चन 037c
यावत्प्राणा धमिष्यन्ति धार्तराष्ट्रस्य मानद 038a
तावद्युष्मास्वपापेषु प्रचरिष्यति पातकम् 038c
न स युक्तोऽन्यथा जेतुमृते युद्धेन माधव 039a
इत्यब्रवीत्सदा मां हि विदुरः सत्यदर्शनः 039c
तत्सर्वमद्य जानामि व्यवसायं दुरात्मनः 040a
यदुक्तं वचनं तेन विदुरेण महात्मना 040c
यो हि श्रुत्वा वचः पथ्यं जामदग्न्याद्यथातथम् 041a
अवामन्यत दुर्बुद्धिर्ध्रुवं नाशमुखे स्थितः 041c
उक्तं हि बहुभिः सिद्धैर्जातमात्रे सुयोधने 042a
एनं प्राप्य दुरात्मानं क्षयं क्षत्रं गमिष्यति 042c
तदिदं वचनं तेषां निरुक्तं वै जनार्दन 043a
क्षयं याता हि राजानो दुर्योधनकृते भृशम् 043c
सोऽद्य सर्वान्रणे योधान्निहनिष्यामि माधव 044a
क्षत्रियेषु हतेष्वाशु शून्ये च शिबिरे कृते 044c
वधाय चात्मनोऽस्माभिः संयुगं रोचयिष्यति 045a
तदन्तं हि भवेद्वैरमनुमानेन माधव 045c
एवं पश्यामि वार्ष्णेय चिन्तयन्प्रज्ञया स्वया 046a
विदुरस्य च वाक्येन चेष्टया च दुरात्मनः 046c
संयाहि भारतीं वीर यावद्धन्मि शितैः शरैः 047a
दुर्योधनं दुरात्मानं वाहिनीं चास्य संयुगे 047c
क्षेममद्य करिष्यामि धर्मराजस्य माधव 048a
हत्वैतद्दुर्बलं सैन्यं धार्तराष्ट्रस्य पश्यतः 048c
सञ्जय उवाच 049
अभीशुहस्तो दाशार्हस्तथोक्तः सव्यसाचिना 049a
तद्बलौघममित्राणामभीतः प्राविशद्रणे 049c
शरासनवरं घोरं शक्तिकण्टकसंवृतम् 050a
गदापरिघपन्थानं रथनागमहाद्रुमम् 050c
हयपत्तिलताकीर्णं गाहमानो महायशाः 051a
व्यचरत्तत्र गोविन्दो रथेनातिपताकिना 051c
ते हयाः पाण्डुरा राजन्वहन्तोऽर्जुनमाहवे 052a
दिक्षु सर्वास्वदृश्यन्त दाशार्हेण प्रचोदिताः 052c
ततः प्रायाद्रथेनाजौ सव्यसाची परन्तपः 053a
किरञ्शरशतांस्तीक्ष्णान्वारिधारा इवाम्बुदः 053c
प्रादुरासीन्महाञ्शब्दः शराणां नतपर्वणाम् 054a
इषुभिश्छाद्यमानानां समरे सव्यसाचिना 054c
असज्जन्तस्तनुत्रेषु शरौघाः प्रापतन्भुवि 055a
इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताः शराः 055c
नरान्नागान्समाहत्य हयांश्चापि विशां पते 056a
अपतन्त रणे बाणाः पतङ्गा इव घोषिणः 056c
आसीत्सर्वमवच्छन्नं गाण्डीवप्रेषितैः शरैः 057a
न प्राज्ञायन्त समरे दिशो वा प्रदिशोऽपि वा 057c
सर्वमासीज्जगत्पूर्णं पार्थनामाङ्कितैः शरैः 058a
रुक्मपुङ्खैस्तैलधौतैः कर्मारपरिमार्जितैः 058c
ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः 059a
समासीदन्त कौरव्या वध्यमानाः शितैः शरैः 059c
शरचापधरः पार्थः प्रज्वलन्निव भारत 060a
ददाह समरे योधान्कक्षमग्निरिव ज्वलन् 060c
यथा वनान्ते वनपैर्विसृष्टः कक्षं दहेत्कृष्णगतिः सघोषः 061a
भूरिद्रुमं शुष्कलतावितानं भृशं समृद्धो ज्वलनः प्रतापी 061c
एवं स नाराचगणप्रतापी शरार्चिरुच्चावचतिग्मतेजाः 062a
ददाह सर्वां तव पुत्रसेनाममृष्यमाणस्तरसा तरस्वी 062c
तस्येषवः प्राणहराः सुमुक्ता नासज्जन्वै वर्मसु रुक्मपुङ्खाः 063a
न च द्वितीयं प्रमुमोच बाणं नरे हये वा परमद्विपे वा 063c
अनेकरूपाकृतिभिर्हि बाणैर्महारथानीकमनुप्रविश्य 064a
स एव एकस्तव पुत्रसेनां जघान दैत्यानिव वज्रपाणिः 064c