सञ्जय उवाच 001
वर्तमाने तथा युद्धे घोररूपे भयानके 001a
अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः 001c
तांस्तु यत्नेन महता सन्निवार्य महारथान् 002a
पुत्रस्ते योधयामास पाण्डवानामनीकिनीम् 002c
निवृत्ताः सहसा योधास्तव पुत्रप्रियैषिणः 003a
सन्निवृत्तेषु तेष्वेवं युद्धमासीत्सुदारुणम् 003c
तावकानां परेषां च देवासुररणोपमम् 004a
परेषां तव सैन्ये च नासीत्कश्चित्पराङ्मुखः 004c
अनुमानेन युध्यन्ते सञ्ज्ञाभिश्च परस्परम् 005a
तेषां क्षयो महानासीद्युध्यतामितरेतरम् 005c
ततो युधिष्ठिरो राजा क्रोधेन महता युतः 006a
जिगीषमाणः सङ्ग्रामे धार्तराष्ट्रान्सराजकान् 006c
त्रिभिः शारद्वतं विद्ध्वा रुक्मपुङ्खैः शिलाशितैः 007a
चतुर्भिर्निजघानाश्वान्कल्याणान्कृतवर्मणः 007c
अश्वत्थामा तु हार्दिक्यमपोवाह यशस्विनम् 008a
अथ शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम् 008c
ततो दुर्योधनो राजा रथान्सप्तशतान्रणे 009a
प्रेषयद्यत्र राजासौ धर्मपुत्रो युधिष्ठिरः 009c
ते रथा रथिभिर्युक्ता मनोमारुतरंहसः 010a
अभ्यद्रवन्त सङ्ग्रामे कौन्तेयस्य रथं प्रति 010c
ते समन्तान्महाराज परिवार्य युधिष्ठिरम् 011a
अदृश्यं सायकैश्चक्रुर्मेघा इव दिवाकरम् 011c
नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः 012a
रथैरग्र्यजवैर्युक्तैः किङ्किणीजालसंवृतैः 012c
आजग्मुरभिरक्षन्तः कुन्तीपुत्रं युधिष्ठिरम् 012e
ततः प्रववृते रौद्रः सङ्ग्रामः शोणितोदकः 013a
पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः 013c
रथान्सप्तशतान्हत्वा कुरूणामाततायिनाम् 014a
पाण्डवाः सह पाञ्चालैः पुनरेवाभ्यवारयन् 014c
तत्र युद्धं महच्चासीत्तव पुत्रस्य पाण्डवैः 015a
न च नस्तादृशं दृष्टं नैव चापि परिश्रुतम् 015c
वर्तमाने तथा युद्धे निर्मर्यादे समन्ततः 016a
वध्यमानेषु योधेषु तावकेष्वितरेषु च 016c
निनदत्सु च योधेषु शङ्खवर्यैश्च पूरितैः 017a
उत्कृष्टैः सिंहनादैश्च गर्जितेन च धन्विनाम् 017c
अतिप्रवृद्धे युद्धे च छिद्यमानेषु मर्मसु 018a
धावमानेषु योधेषु जयगृद्धिषु मारिष 018c
संहारे सर्वतो जाते पृथिव्यां शोकसम्भवे 019a
बह्वीनामुत्तमस्त्रीणां सीमन्तोद्धरणे तथा 019c
निर्मर्यादे तथा युद्धे वर्तमाने सुदारुणे 020a
प्रादुरासन्विनाशाय तदोत्पाताः सुदारुणाः 020c
चचाल शब्दं कुर्वाणा सपर्वतवना मही 020e
सदण्डाः सोल्मुका राजञ्शीर्यमाणाः समन्ततः 021a
उल्काः पेतुर्दिवो भूमावाहत्य रविमण्डलम् 021c
विष्वग्वाताः प्रादुरासन्नीचैः शर्करवर्षिणः 022a
अश्रूणि मुमुचुर्नागा वेपथुश्चास्पृशद्भृशम् 022c
एतान्घोराननादृत्य समुत्पातान्सुदारुणान् 023a
पुनर्युद्धाय सम्मन्त्र्य क्षत्रियास्तस्थुरव्यथाः 023c
रमणीये कुरुक्षेत्रे पुण्ये स्वर्गं यियासवः 023e
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् 024a
युध्यध्वमग्रतो यावत्पृष्ठतो हन्मि पाण्डवान् 024c
ततो नः सम्प्रयातानां मद्रयोधास्तरस्विनः 025a
हृष्टाः किलकिलाशब्दमकुर्वन्तापरे तथा 025c
अस्मांस्तु पुनरासाद्य लब्धलक्षा दुरासदाः 026a
शरासनानि धुन्वन्तः शरवर्षैरवाकिरन् 026c
ततो हतं परैस्तत्र मद्रराजबलं तदा 027a
दुर्योधनबलं दृष्ट्वा पुनरासीत्पराङ्मुखम् 027c
गान्धारराजस्तु पुनर्वाक्यमाह ततो बली 028a
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः 028c
अनीकं दशसाहस्रमश्वानां भरतर्षभ 029a
आसीद्गान्धारराजस्य विमलप्रासयोधिनाम् 029c
बलेन तेन विक्रम्य वर्तमाने जनक्षये 030a
पृष्ठतः पाण्डवानीकमभ्यघ्नन्निशितैः शरैः 030c
तदभ्रमिव वातेन क्षिप्यमाणं समन्ततः 031a
अभज्यत महाराज पाण्डूनां सुमहद्बलम् 031c
ततो युधिष्ठिरः प्रेक्ष्य भग्नं स्वबलमन्तिकात् 032a
अभ्यचोदयदव्यग्रः सहदेवं महाबलम् 032c
असौ सुबलपुत्रो नो जघनं पीड्य दंशितः 033a
सेनां निसूदयन्त्येष पश्य पाण्डव दुर्मतिम् 033c
गच्छ त्वं द्रौपदेयाश्च शकुनिं सौबलं जहि 034a
रथानीकमहं रक्ष्ये पाञ्चालसहितोऽनघ 034c
गच्छन्तु कुञ्जराः सर्वे वाजिनश्च सह त्वया 035a
पादाताश्च त्रिसाहस्राः शकुनिं सौबलं जहि 035c
ततो गजाः सप्तशताश्चापपाणिभिरास्थिताः 036a
पञ्च चाश्वसहस्राणि सहदेवश्च वीर्यवान् 036c
पादाताश्च त्रिसाहस्रा द्रौपदेयाश्च सर्वशः 037a
रणे ह्यभ्यद्रवंस्ते तु शकुनिं युद्धदुर्मदम् 037c
ततस्तु सौबलो राजन्नभ्यतिक्रम्य पाण्डवान् 038a
जघान पृष्ठतः सेनां जयगृध्रः प्रतापवान् 038c
अश्वारोहास्तु संरब्धाः पाण्डवानां तरस्विनाम् 039a
प्राविशन्सौबलानीकमभ्यतिक्रम्य तान्रथान् 039c
ते तत्र सादिनः शूराः सौबलस्य महद्बलम् 040a
गजमध्येऽवतिष्ठन्तः शरवर्षैरवाकिरन् 040c
तदुद्यतगदाप्रासमकापुरुषसेवितम् 041a
प्रावर्तत महद्युद्धं राजन्दुर्मन्त्रिते तव 041c
उपारमन्त ज्याशब्दाः प्रेक्षका रथिनोऽभवन् 042a
न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत 042c
शूरबाहुविसृष्टानां शक्तीनां भरतर्षभ 043a
ज्योतिषामिव सम्पातमपश्यन्कुरुपाण्डवाः 043c
ऋष्टिभिर्विमलाभिश्च तत्र तत्र विशां पते 044a
सम्पतन्तीभिराकाशमावृतं बह्वशोभत 044c
प्रासानां पततां राजन्रूपमासीत्समन्ततः 045a
शलभानामिवाकाशे तदा भरतसत्तम 045c
रुधिरोक्षितसर्वाङ्गा विप्रविद्धैर्नियन्तृभिः 046a
हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः 046c
अन्योन्यपरिपिष्टाश्च समासाद्य परस्परम् 047a
अविक्षताः स्म दृश्यन्ते वमन्तो रुधिरं मुखैः 047c
ततोऽभवत्तमो घोरं सैन्येन रजसा वृते 048a
तानपाक्रमतोऽद्राक्षं तस्माद्देशादरिन्दमान् 048c
अश्वान्राजन्मनुष्यांश्च रजसा संवृते सति 048e
भूमौ निपतिताश्चान्ये वमन्तो रुधिरं बहु 049a
केशाकेशिसमालग्ना न शेकुश्चेष्टितुं जनाः 049c
अन्योन्यमश्वपृष्ठेभ्यो विकर्षन्तो महाबलाः 050a
मल्ला इव समासाद्य निजघ्नुरितरेतरम् 050c
अश्वैश्च व्यपकृष्यन्त बहवोऽत्र गतासवः 050e
भूमौ निपतिताश्चान्ये बहवो विजयैषिणः 051a
तत्र तत्र व्यदृश्यन्त पुरुषाः शूरमानिनः 051c
रक्तोक्षितैश्छिन्नभुजैरपकृष्टशिरोरुहैः 052a
व्यदृश्यत मही कीर्णा शतशोऽथ सहस्रशः 052c
दूरं न शक्यं तत्रासीद्गन्तुमश्वेन केनचित् 053a
साश्वारोहैर्हतैरश्वैरावृते वसुधातले 053c
रुधिरोक्षितसन्नाहैरात्तशस्त्रैरुदायुधैः 054a
नानाप्रहरणैर्घोरैः परस्परवधैषिभिः 054c
सुसन्निकृष्टैः सङ्ग्रामे हतभूयिष्ठसैनिकैः 054e
स मुहूर्तं ततो युद्ध्वा सौबलोऽथ विशां पते 055a
षट्सहस्रैर्हयैः शिष्टैरपायाच्छकुनिस्ततः 055c
तथैव पाण्डवानीकं रुधिरेण समुक्षितम् 056a
षट्सहस्रैर्हयैः शिष्टैरपायाच्छ्रान्तवाहनम् 056c
अश्वारोहास्तु पाण्डूनामब्रुवन्रुधिरोक्षिताः 057a
सुसन्निकृष्टाः सङ्ग्रामे भूयिष्ठं त्यक्तजीविताः 057c
नेह शक्यं रथैर्योद्धुं कुत एव महागजैः 058a
रथानेव रथा यान्तु कुञ्जराः कुञ्जरानपि 058c
प्रतियातो हि शकुनिः स्वमनीकमवस्थितः 059a
न पुनः सौबलो राजा युद्धमभ्यागमिष्यति 059c
ततस्तु द्रौपदेयाश्च ते च मत्ता महाद्विपाः 060a
प्रययुर्यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः 060c
सहदेवोऽपि कौरव्य रजोमेघे समुत्थिते 061a
एकाकी प्रययौ तत्र यत्र राजा युधिष्ठिरः 061c
ततस्तेषु प्रयातेषु शकुनिः सौबलः पुनः 062a
पार्श्वतोऽभ्यहनत्क्रुद्धो धृष्टद्युम्नस्य वाहिनीम् 062c
तत्पुनस्तुमुलं युद्धं प्राणांस्त्यक्त्वाभ्यवर्तत 063a
तावकानां परेषां च परस्परवधैषिणाम् 063c
ते ह्यन्योन्यमवेक्षन्त तस्मिन्वीरसमागमे 064a
योधाः पर्यपतन्राजञ्शतशोऽथ सहस्रशः 064c
असिभिश्छिद्यमानानां शिरसां लोकसङ्क्षये 065a
प्रादुरासीन्महाशब्दस्तालानां पततामिव 065c
विमुक्तानां शरीराणां भिन्नानां पततां भुवि 066a
सायुधानां च बाहूनामुरूणां च विशां पते 066c
आसीत्कटकटाशब्दः सुमहान्रोमहर्षणः 066e
निघ्नन्तो निशितैः शस्त्रैर्भ्रातॄन्पुत्रान्सखीनपि 067a
योधाः परिपतन्ति स्म यथामिषकृते खगाः 067c
अन्योन्यं प्रतिसंरब्धाः समासाद्य परस्परम् 068a
अहं पूर्वमहं पूर्वमिति न्यघ्नन्सहस्रशः 068c
सङ्घातैरासनभ्रष्टैरश्वारोहैर्गतासुभिः 069a
हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः 069c
स्फुरतां प्रतिपिष्टानामश्वानां शीघ्रसारिणाम् 070a
स्तनतां च मनुष्याणां सन्नद्धानां विशां पते 070c
शक्त्यृष्टिप्रासशब्दश्च तुमुलः समजायत 071a
भिन्दतां परमर्माणि राजन्दुर्मन्त्रिते तव 071c
श्रमाभिभूताः संरब्धाः श्रान्तवाहाः पिपासिताः 072a
विक्षताश्च शितैः शस्त्रैरभ्यवर्तन्त तावकाः 072c
मत्ता रुधिरगन्धेन बहवोऽत्र विचेतसः 073a
जघ्नुः परान्स्वकांश्चैव प्राप्तान्प्राप्ताननन्तरान् 073c
बहवश्च गतप्राणाः क्षत्रिया जयगृद्धिनः 074a
भूमावभ्यपतन्राजञ्शरवृष्टिभिरावृताः 074c
वृकगृध्रशृगालानां तुमुले मोदनेऽहनि 075a
आसीद्बलक्षयो घोरस्तव पुत्रस्य पश्यतः 075c
नराश्वकायसञ्छन्ना भूमिरासीद्विशां पते 076a
रुधिरोदकचित्रा च भीरूणां भयवर्धिनी 076c
असिभिः पट्टिशैः शूलैस्तक्षमाणाः पुनः पुनः 077a
तावकाः पाण्डवाश्चैव नाभ्यवर्तन्त भारत 077c
प्रहरन्तो यथाशक्ति यावत्प्राणस्य धारणम् 078a
योधाः परिपतन्ति स्म वमन्तो रुधिरं व्रणैः 078c
शिरो गृहीत्वा केशेषु कबन्धः समदृश्यत 079a
उद्यम्य निशितं खड्गं रुधिरेण समुक्षितम् 079c
अथोत्थितेषु बहुषु कबन्धेषु जनाधिप 080a
तथा रुधिरगन्धेन योधाः कश्मलमाविशन् 080c
मन्दीभूते ततः शब्दे पाण्डवानां महद्बलम् 081a
अल्पावशिष्टैस्तुरगैरभ्यवर्तत सौबलः 081c
ततोऽभ्यधावंस्त्वरिताः पाण्डवा जयगृद्धिनः 082a
पदातयश्च नागाश्च सादिनश्चोद्यतायुधाः 082c
कोष्टकीकृत्य चाप्येनं परिक्षिप्य च सर्वशः 083a
शस्त्रैर्नानाविधैर्जघ्नुर्युद्धपारं तितीर्षवः 083c
त्वदीयास्तांस्तु सम्प्रेक्ष्य सर्वतः समभिद्रुतान् 084a
साश्वपत्तिद्विपरथाः पाण्डवानभिदुद्रुवुः 084c
केचित्पदातयः पद्भिर्मुष्टिभिश्च परस्परम् 085a
निजघ्नुः समरे शूराः क्षीणशस्त्रास्ततोऽपतन् 085c
रथेभ्यो रथिनः पेतुर्द्विपेभ्यो हस्तिसादिनः 086a
विमानेभ्य इव भ्रष्टाः सिद्धाः पुण्यक्षयाद्यथा 086c
एवमन्योन्यमायस्ता योधा जघ्नुर्महामृधे 087a
पितॄन्भ्रातॄन्वयस्यांश्च पुत्रानपि तथापरे 087c
एवमासीदमर्यादं युद्धं भरतसत्तम 088a
प्रासासिबाणकलिले वर्तमाने सुदारुणे 088c