सञ्जय उवाच 001
पुत्रस्तु ते महाराज रथस्थो रथिनां वरः 001a
दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान् 001c
तस्य बाणसहस्रैस्तु प्रच्छन्ना ह्यभवन्मही 002a
परांश्च सिषिचे बाणैर्धाराभिरिव पर्वतान् 002c
न च सोऽस्ति पुमान्कश्चित्पाण्डवानां महाहवे 003a
हयो गजो रथो वापि योऽस्य बाणैरविक्षतः 003c
यं यं हि समरे योधं प्रपश्यामि विशां पते 004a
स स बाणैश्चितोऽभूद्वै पुत्रेण तव भारत 004c
यथा सैन्येन रजसा समुद्धूतेन वाहिनी 005a
प्रत्यदृश्यत सञ्छन्ना तथा बाणैर्महात्मनः 005c
बाणभूतामपश्याम पृथिवीं पृथिवीपते 006a
दुर्योधनेन प्रकृतां क्षिप्रहस्तेन धन्विना 006c
तेषु योधसहस्रेषु तावकेषु परेषु च 007a
एको दुर्योधनो ह्यासीत्पुमानिति मतिर्मम 007c
तत्राद्भुतमपश्याम तव पुत्रस्य विक्रमम् 008a
यदेकं सहिताः पार्था नात्यवर्तन्त भारत 008c
युधिष्ठिरं शतेनाजौ विव्याध भरतर्षभ 009a
भीमसेनं च सप्तत्या सहदेवं च सप्तभिः 009c
नकुलं च चतुःषष्ट्या धृष्टद्युम्नं च पञ्चभिः 010a
सप्तभिर्द्रौपदेयांश्च त्रिभिर्विव्याध सात्यकिम् 010c
धनुश्चिच्छेद भल्लेन सहदेवस्य मारिष 010e
तदपास्य धनुश्छिन्नं माद्रीपुत्रः प्रतापवान् 011a
अभ्यधावत राजानं प्रगृह्यान्यन्महद्धनुः 011c
ततो दुर्योधनं सङ्ख्ये विव्याध दशभिः शरैः 011e
नकुलश्च ततो वीरो राजानं नवभिः शरैः 012a
घोररूपैर्महेष्वासो विव्याध च ननाद च 012c
सात्यकिश्चापि राजानं शरेणानतपर्वणा 013a
द्रौपदेयास्त्रिसप्तत्या धर्मराजश्च सप्तभिः 013c
अशीत्या भीमसेनश्च शरै राजानमार्दयत् 013e
समन्तात्कीर्यमाणस्तु बाणसङ्घैर्महात्मभिः 014a
न चचाल महाराज सर्वसैन्यस्य पश्यतः 014c
लाघवं सौष्ठवं चापि वीर्यं चैव महात्मनः 015a
अति सर्वाणि भूतानि ददृशुः सर्वमानवाः 015c
धार्तराष्ट्रास्तु राजेन्द्र यात्वा तु स्वल्पमन्तरम् 016a
अपश्यमाना राजानं पर्यवर्तन्त दंशिताः 016c
तेषामापततां घोरस्तुमुलः समजायत 017a
क्षुब्धस्य हि समुद्रस्य प्रावृट्काले यथा निशि 017c
समासाद्य रणे ते तु राजानमपराजितम् 018a
प्रत्युद्ययुर्महेष्वासाः पाण्डवानाततायिनः 018c
भीमसेनं रणे क्रुद्धं द्रोणपुत्रो न्यवारयत् 019a
ततो बाणैर्महाराज प्रमुक्तैः सर्वतोदिशम् 019c
नाज्ञायन्त रणे वीरा न दिशः प्रदिशस्तथा 019e
तावुभौ क्रूरकर्माणावुभौ भारत दुःसहौ 020a
घोररूपमयुध्येतां कृतप्रतिकृतैषिणौ 020c
त्रासयन्तौ जगत्सर्वं ज्याक्षेपविहतत्वचौ 020e
शकुनिस्तु रणे वीरो युधिष्ठिरमपीडयत् 021a
तस्याश्वांश्चतुरो हत्वा सुबलस्य सुतो विभुः 021c
नादं चकार बलवान्सर्वसैन्यानि कम्पयन् 021e
एतस्मिन्नन्तरे वीरं राजानमपराजितम् 022a
अपोवाह रथेनाजौ सहदेवः प्रतापवान् 022c
अथान्यं रथमास्थाय धर्मराजो युधिष्ठिरः 023a
शकुनिं नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः 023c
ननाद च महानादं प्रवरः सर्वधन्विनाम् 023e
तद्युद्धमभवच्चित्रं घोररूपं च मारिष 024a
ईक्षितृप्रीतिजननं सिद्धचारणसेवितम् 024c
उलूकस्तु महेष्वासं नकुलं युद्धदुर्मदम् 025a
अभ्यद्रवदमेयात्मा शरवर्षैः समन्ततः 025c
तथैव नकुलः शूरः सौबलस्य सुतं रणे 026a
शरवर्षेण महता समन्तात्पर्यवारयत् 026c
तौ तत्र समरे वीरौ कुलपुत्रौ महारथौ 027a
योधयन्तावपश्येतां परस्परकृतागसौ 027c
तथैव कृतवर्मा तु शैनेयं शत्रुतापनम् 028a
योधयञ्शुशुभे राजन्बलं शक्र इवाहवे 028c
दुर्योधनो धनुश्छित्त्वा धृष्टद्युम्नस्य संयुगे 029a
अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः 029c
धृष्टद्युम्नोऽपि समरे प्रगृह्य परमायुधम् 030a
राजानं योधयामास पश्यतां सर्वधन्विनाम् 030c
तयोर्युद्धं महच्चासीत्सङ्ग्रामे भरतर्षभ 031a
प्रभिन्नयोर्यथा सक्तं मत्तयोर्वरहस्तिनोः 031c
गौतमस्तु रणे क्रुद्धो द्रौपदेयान्महाबलान् 032a
विव्याध बहुभिः शूरः शरैः सन्नतपर्वभिः 032c
तस्य तैरभवद्युद्धमिन्द्रियैरिव देहिनः 033a
घोररूपमसंवार्यं निर्मर्यादमतीव च 033c
ते च तं पीडयामासुरिन्द्रियाणीव बालिशम् 034a
स च तान्प्रतिसंरब्धः प्रत्ययोधयदाहवे 034c
एवं चित्रमभूद्युद्धं तस्य तैः सह भारत 035a
उत्थायोत्थाय हि यथा देहिनामिन्द्रियैर्विभो 035c
नराश्चैव नरैः सार्धं दन्तिनो दन्तिभिस्तथा 036a
हया हयैः समासक्ता रथिनो रथिभिस्तथा 036c
सङ्कुलं चाभवद्भूयो घोररूपं विशां पते 036e
इदं चित्रमिदं घोरमिदं रौद्रमिति प्रभो 037a
युद्धान्यासन्महाराज घोराणि च बहूनि च 037c
ते समासाद्य समरे परस्परमरिन्दमाः 038a
विव्यधुश्चैव जघ्नुश्च समासाद्य महाहवे 038c
तेषां शस्त्रसमुद्भूतं रजस्तीव्रमदृश्यत 039a
प्रवातेनोद्धतं राजन्धावद्भिश्चाश्वसादिभिः 039c
रथनेमिसमुद्भूतं निःश्वासैश्चापि दन्तिनाम् 040a
रजः सन्ध्याभ्रकपिलं दिवाकरपथं ययौ 040c
रजसा तेन सम्पृक्ते भास्करे निष्प्रभीकृते 041a
सञ्छादिताभवद्भूमिस्ते च शूरा महारथाः 041c
मुहूर्तादिव संवृत्तं नीरजस्कं समन्ततः 042a
वीरशोणितसिक्तायां भूमौ भरतसत्तम 042c
उपाशाम्यत्ततस्तीव्रं तद्रजो घोरदर्शनम् 042e
ततोऽपश्यं महाराज द्वन्द्वयुद्धानि भारत 043a
यथाप्राग्र्यं यथाज्येष्ठं मध्याह्ने वै सुदारुणे 043c
वर्मणां तत्र राजेन्द्र व्यदृश्यन्तोज्ज्वलाः प्रभाः 043e
शब्दः सुतुमुलः सङ्ख्ये शराणां पततामभूत् 044a
महावेणुवनस्येव दह्यमानस्य सर्वतः 044c