सञ्जय उवाच 001
तस्मिंस्तु निहते शूरे शाल्वे समितिशोभने 001a
तवाभज्यद्बलं वेगाद्वातेनेव महाद्रुमः 001c
तत्प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः 002a
दधार समरे शूरः शत्रुसैन्यं महाबलः 002c
सन्निवृत्तास्तु ते शूरा दृष्ट्वा सात्वतमाहवे 003a
शैलोपमं स्थितं राजन्कीर्यमाणं शरैर्युधि 003c
ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह 004a
निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम् 004c
तत्राश्चर्यमभूद्युद्धं सात्वतस्य परैः सह 005a
यदेको वारयामास पाण्डुसेनां दुरासदाम् 005c
तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करे 006a
सिंहनादः प्रहृष्टानां दिवःस्पृक्सुमहानभूत् 006c
तेन शब्देन वित्रस्तान्पाञ्चालान्भरतर्षभ 007a
शिनेर्नप्ता महाबाहुरन्वपद्यत सात्यकिः 007c
स समासाद्य राजानं क्षेमधूर्तिं महाबलम् 008a
सप्तभिर्निशितैर्बाणैरनयद्यमसादनम् 008c
तमायान्तं महाबाहुं प्रवपन्तं शिताञ्शरान् 009a
जवेनाभ्यपतद्धीमान्हार्दिक्यः शिनिपुङ्गवम् 009c
तौ सिंहाविव नर्दन्तौ धन्विनौ रथिनां वरौ 010a
अन्योन्यमभ्यधावेतां शस्त्रप्रवरधारिणौ 010c
पाण्डवाः सह पाञ्चालैर्योधाश्चान्ये नृपोत्तमाः 011a
प्रेक्षकाः समपद्यन्त तयोः पुरुषसिंहयोः 011c
नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौ 012a
अभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्जरौ 012c
चरन्तौ विविधान्मार्गान्हार्दिक्यशिनिपुङ्गवौ 013a
मुहुरन्तर्दधाते तौ बाणवृष्ट्या परस्परम् 013c
चापवेगबलोद्धूतान्मार्गणान्वृष्णिसिंहयोः 014a
आकाशे समपश्याम पतङ्गानिव शीघ्रगान् 014c
तमेकं सत्यकर्माणमासाद्य हृदिकात्मजः 015a
अविध्यन्निशितैर्बाणैश्चतुर्भिश्चतुरो हयान् 015c
स दीर्घबाहुः सङ्क्रुद्धस्तोत्त्रार्दित इव द्विपः 016a
अष्टाभिः कृतवर्माणमविध्यत्परमेषुभिः 016c
ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैः 017a
सात्यकिं त्रिभिराहत्य धनुरेकेन चिच्छिदे 017c
निकृत्तं तद्धनुःश्रेष्ठमपास्य शिनिपुङ्गवः 018a
अन्यदादत्त वेगेन शैनेयः सशरं धनुः 018c
तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम् 019a
आरोप्य च महावीर्यो महाबुद्धिर्महाबलः 019c
अमृष्यमाणो धनुषश्छेदनं कृतवर्मणा 020a
कुपितोऽतिरथः शीघ्रं कृतवर्माणमभ्ययात् 020c
ततः सुनिशितैर्बाणैर्दशभिः शिनिपुङ्गवः 021a
जघान सूतमश्वांश्च ध्वजं च कृतवर्मणः 021c
ततो राजन्महेष्वासः कृतवर्मा महारथः 022a
हताश्वसूतं सम्प्रेक्ष्य रथं हेमपरिष्कृतम् 022c
रोषेण महताविष्टः शूलमुद्यम्य मारिष 023a
चिक्षेप भुजवेगेन जिघांसुः शिनिपुङ्गवम् 023c
तच्छूलं सात्वतो ह्याजौ निर्भिद्य निशितैः शरैः 024a
चूर्णितं पातयामास मोहयन्निव माधवम् 024c
ततोऽपरेण भल्लेन हृद्येनं समताडयत् 024e
स युद्धे युयुधानेन हताश्वो हतसारथिः 025a
कृतवर्मा कृतास्त्रेण धरणीमन्वपद्यत 025c
तस्मिन्सात्यकिना वीरे द्वैरथे विरथीकृते 026a
समपद्यत सर्वेषां सैन्यानां सुमहद्भयम् 026c
पुत्रस्य तव चात्यर्थं विषादः समपद्यत 027a
हतसूते हताश्वे च विरथे कृतवर्मणि 027c
हताश्वं च समालक्ष्य हतसूतमरिन्दमम् 028a
अभ्यधावत्कृपो राजञ्जिघांसुः शिनिपुङ्गवम् 028c
तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम् 029a
अपोवाह महाबाहुस्तूर्णमायोधनादपि 029c
शैनेयेऽधिष्ठिते राजन्विरथे कृतवर्मणि 030a
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् 030c
तत्परे नावबुध्यन्त सैन्येन रजसावृते 031a
तावकाः प्रद्रुता राजन्दुर्योधनमृते नृपम् 031c
दुर्योधनस्तु सम्प्रेक्ष्य भग्नं स्वबलमन्तिकात् 032a
जवेनाभ्यपतत्तूर्णं सर्वांश्चैको न्यवारयत् 032c
पाण्डूंश्च सर्वान्सङ्क्रुद्धो धृष्टद्युम्नं च पार्षतम् 033a
शिखण्डिनं द्रौपदेयान्पाञ्चालानां च ये गणाः 033c
केकयान्सोमकांश्चैव पाञ्चालांश्चैव मारिष 034a
असम्भ्रमं दुराधर्षः शितैरस्त्रैरवारयत् 034c
अतिष्ठदाहवे यत्तः पुत्रस्तव महाबलः 035a
यथा यज्ञे महानग्निर्मन्त्रपूतः प्रकाशयन् 035c
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवाहवे 036a
अथान्यं रथमास्थाय हार्दिक्यः समपद्यत 036c