सञ्जय उवाच 001
सन्निवृत्ते बलौघे तु शाल्वो म्लेच्छगणाधिपः 001a
अभ्यवर्तत सङ्क्रुद्धः पाण्डूनां सुमहद्बलम् 001c
आस्थाय सुमहानागं प्रभिन्नं पर्वतोपमम् 002a
दृप्तमैरावतप्रख्यममित्रगणमर्दनम् 002c
योऽसौ महाभद्रकुलप्रसूतः सुपूजितो धार्तराष्ट्रेण नित्यम् 003a
सुकल्पितः शास्त्रविनिश्चयज्ञैः सदोपवाह्यः समरेषु राजन् 003c
तमास्थितो राजवरो बभूव यथोदयस्थः सविता क्षपान्ते 004a
स तेन नागप्रवरेण राजन्नभ्युद्ययौ पाण्डुसुतान्समन्तात् 004c
शितैः पृषत्कैर्विददार चापि महेन्द्रवज्रप्रतिमैः सुघोरैः 004e
ततः शरान्वै सृजतो महारणे योधांश्च राजन्नयतो यमाय 005a
नास्यान्तरं ददृशुः स्वे परे वा यथा पुरा वज्रधरस्य दैत्याः 005c
ते पाण्डवाः सोमकाः सृञ्जयाश्च तमेव नागं ददृशुः समन्तात् 006a
सहस्रशो वै विचरन्तमेकं यथा महेन्द्रस्य गजं समीपे 006c
सन्द्राव्यमाणं तु बलं परेषां परीतकल्पं विबभौ समन्तात् 007a
नैवावतस्थे समरे भृशं भयाद्विमर्दमानं तु परस्परं तदा 007c
ततः प्रभग्ना सहसा महाचमूः सा पाण्डवी तेन नराधिपेन 008a
दिशश्चतस्रः सहसा प्रधाविता गजेन्द्रवेगं तमपारयन्ती 008c
दृष्ट्वा च तां वेगवता प्रभग्नां सर्वे त्वदीया युधि योधमुख्याः 009a
अपूजयंस्तत्र नराधिपं तं दध्मुश्च शङ्खाञ्शशिसन्निकाशान् 009c
श्रुत्वा निनादं त्वथ कौरवाणां हर्षाद्विमुक्तं सह शङ्खशब्दैः 010a
सेनापतिः पाण्डवसृञ्जयानां पाञ्चालपुत्रो न ममर्ष रोषात् 010c
ततस्तु तं वै द्विरदं महात्मा प्रत्युद्ययौ त्वरमाणो जयाय 011a
जम्भो यथा शक्रसमागमे वै नागेन्द्रमैरावणमिन्द्रवाह्यम् 011c
तमापतन्तं सहसा तु दृष्ट्वा पाञ्चालराजं युधि राजसिंहः 012a
तं वै द्विपं प्रेषयामास तूर्णं वधाय राजन्द्रुपदात्मजस्य 012c
स तं द्विपं सहसाभ्यापतन्तमविध्यदर्कप्रतिमैः पृषत्कैः 013a
कर्मारधौतैर्निशितैर्ज्वलद्भिर्नाराचमुख्यैस्त्रिभिरुग्रवेगैः 013c
ततोऽपरान्पञ्च शितान्महात्मा नाराचमुख्यान्विससर्ज कुम्भे 014a
स तैस्तु विद्धः परमद्विपो रणे तदा परावृत्य भृशं प्रदुद्रुवे 014c
तं नागराजं सहसा प्रणुन्नं विद्राव्यमाणं च निगृह्य शाल्वः 015a
तोत्त्राङ्कुशैः प्रेषयामास तूर्णं पाञ्चालराजस्य रथं प्रदिश्य 015c
दृष्ट्वापतन्तं सहसा तु नागं धृष्टद्युम्नः स्वरथाच्छीघ्रमेव 016a
गदां प्रगृह्याशु जवेन वीरो भूमिं प्रपन्नो भयविह्वलाङ्गः 016c
स तं रथं हेमविभूषिताङ्गं साश्वं ससूतं सहसा विमृद्य 017a
उत्क्षिप्य हस्तेन तदा महाद्विपो विपोथयामास वसुन्धरातले 017c
पाञ्चालराजस्य सुतं स दृष्ट्वा तदार्दितं नागवरेण तेन 018a
तमभ्यधावत्सहसा जवेन भीमः शिखण्डी च शिनेश्च नप्ता 018c
शरैश्च वेगं सहसा निगृह्य तस्याभितोऽभ्यापततो गजस्य 019a
स सङ्गृहीतो रथिभिर्गजो वै चचाल तैर्वार्यमाणश्च सङ्ख्ये 019c
ततः पृषत्कान्प्रववर्ष राजा सूर्यो यथा रश्मिजालं समन्तात् 020a
तेनाशुगैर्वध्यमाना रथौघाः प्रदुद्रुवुस्तत्र ततस्तु सर्वे 020c
तत्कर्म शाल्वस्य समीक्ष्य सर्वे पाञ्चालमत्स्या नृप सृञ्जयाश्च 021a
हाहाकारैर्नादयन्तः स्म युद्धे द्विपं समन्ताद्रुरुधुर्नराग्र्याः 021c
पाञ्चालराजस्त्वरितस्तु शूरो गदां प्रगृह्याचलशृङ्गकल्पाम् 022a
असम्भ्रमं भारत शत्रुघाती जवेन वीरोऽनुससार नागम् 022c
ततोऽथ नागं धरणीधराभं मदं स्रवन्तं जलदप्रकाशम् 023a
गदां समाविध्य भृशं जघान पाञ्चालराजस्य सुतस्तरस्वी 023c
स भिन्नकुम्भः सहसा विनद्य मुखात्प्रभूतं क्षतजं विमुञ्चन् 024a
पपात नागो धरणीधराभः क्षितिप्रकम्पाच्चलितो यथाद्रिः 024c
निपात्यमाने तु तदा गजेन्द्रे हाहाकृते तव पुत्रस्य सैन्ये 025a
स शाल्वराजस्य शिनिप्रवीरो जहार भल्लेन शिरः शितेन 025c
हृतोत्तमाङ्गो युधि सात्वतेन पपात भूमौ सह नागराज्ञा 026a
यथाद्रिशृङ्गं सुमहत्प्रणुन्नं वज्रेण देवाधिपचोदितेन 026c