सञ्जय उवाच 001
पातिते युधि दुर्धर्षे मद्रराजे महारथे 001a
तावकास्तव पुत्राश्च प्रायशो विमुखाभवन् 001c
वणिजो नावि भिन्नायां यथागाधेऽप्लवेऽर्णवे 002a
अपारे पारमिच्छन्तो हते शूरे महात्मनि 002c
मद्रराजे महाराज वित्रस्ताः शरविक्षताः 003a
अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव 003c
वृषा यथा भग्नशृङ्गाः शीर्णदन्ता गजा इव 004a
मध्याह्ने प्रत्यपायाम निर्जिता धर्मसूनुना 004c
न सन्धातुमनीकानि न च राजन्पराक्रमे 005a
आसीद्बुद्धिर्हते शल्ये तव योधस्य कस्यचित् 005c
भीष्मे द्रोणे च निहते सूतपुत्रे च भारत 006a
यद्दुःखं तव योधानां भयं चासीद्विशां पते 006c
तद्भयं स च नः शोको भूय एवाभ्यवर्तत 006e
निराशाश्च जये तस्मिन्हते शल्ये महारथे 007a
हतप्रवीरा विध्वस्ता विकृत्ताश्च शितैः शरैः 007c
मद्रराजे हते राजन्योधास्ते प्राद्रवन्भयात् 007e
अश्वानन्ये गजानन्ये रथानन्ये महारथाः 008a
आरुह्य जवसम्पन्नाः पादाताः प्राद्रवन्भयात् 008c
द्विसाहस्राश्च मातङ्गा गिरिरूपाः प्रहारिणः 009a
सम्प्राद्रवन्हते शल्ये अङ्कुशाङ्गुष्ठचोदिताः 009c
ते रणाद्भरतश्रेष्ठ तावकाः प्राद्रवन्दिशः 010a
धावन्तश्चाप्यदृश्यन्त श्वसमानाः शरातुराः 010c
तान्प्रभग्नान्द्रुतान्दृष्ट्वा हतोत्साहान्पराजितान् 011a
अभ्यद्रवन्त पाञ्चालाः पाण्डवाश्च जयैषिणः 011c
बाणशब्दरवश्चापि सिंहनादश्च पुष्कलः 012a
शङ्खशब्दश्च शूराणां दारुणः समपद्यत 012c
दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं प्रविद्रुतम् 013a
अन्योन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह 013c
अद्य राजा सत्यधृतिर्जितामित्रो युधिष्ठिरः 014a
अद्य दुर्योधनो हीनो दीप्तया नृपतिश्रिया 014c
अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः 015a
निःसञ्ज्ञः पतितो भूमौ किल्बिषं प्रतिपद्यताम् 015c
अद्य जानातु कौन्तेयं समर्थं सर्वधन्विनाम् 016a
अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत् 016c
अद्य क्षत्तुर्वचः सत्यं स्मरतां ब्रुवतो हितम् 016e
अद्यप्रभृति पार्थांश्च प्रेष्यभूत उपाचरन् 017a
विजानातु नृपो दुःखं यत्प्राप्तं पाण्डुनन्दनैः 017c
अद्य कृष्णस्य माहात्म्यं जानातु स महीपतिः 018a
अद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे 018c
अस्त्राणां च बलं सर्वं बाह्वोश्च बलमाहवे 019a
अद्य ज्ञास्यति भीमस्य बलं घोरं महात्मनः 019c
हते दुर्योधने युद्धे शक्रेणेवासुरे मये 020a
यत्कृतं भीमसेनेन दुःशासनवधे तदा 020c
नान्यः कर्तास्ति लोके तदृते भीमं महाबलम् 020e
जानीतामद्य ज्येष्ठस्य पाण्डवस्य पराक्रमम् 021a
मद्रराजं हतं श्रुत्वा देवैरपि सुदुःसहम् 021c
अद्य ज्ञास्यति सङ्ग्रामे माद्रीपुत्रौ महाबलौ 022a
निहते सौबले शूरे गान्धारेषु च सर्वशः 022c
कथं तेषां जयो न स्याद्येषां योद्धा धनञ्जयः 023a
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः 023c
द्रौपद्यास्तनयाः पञ्च माद्रीपुत्रौ च पाण्डवौ 024a
शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः 024c
येषां च जगतां नाथो नाथः कृष्णो जनार्दनः 025a
कथं तेषां जयो न स्याद्येषां धर्मो व्यपाश्रयः 025c
भीष्मं द्रोणं च कर्णं च मद्रराजानमेव च 026a
तथान्यान्नृपतीन्वीराञ्शतशोऽथ सहस्रशः 026c
कोऽन्यः शक्तो रणे जेतुमृते पार्थं युधिष्ठिरम् 027a
यस्य नाथो हृषीकेशः सदा धर्मयशोनिधिः 027c
इत्येवं वदमानास्ते हर्षेण महता युताः 028a
प्रभग्नांस्तावकान्राजन्सृञ्जयाः पृष्ठतोऽन्वयुः 028c
धनञ्जयो रथानीकमभ्यवर्तत वीर्यवान् 029a
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महारथः 029c
तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान् 030a
दुर्योधनस्तदा सूतमब्रवीदुत्स्मयन्निव 030c
न मातिक्रमते पार्थो धनुष्पाणिमवस्थितम् 031a
जघने सर्वसैन्यानां ममाश्वान्प्रतिपादय 031c
जघने युध्यमानं हि कौन्तेयो मां धनञ्जयः 032a
नोत्सहेताभ्यतिक्रान्तुं वेलामिव महोदधिः 032c
पश्य सैन्यं महत्सूत पाण्डवैः समभिद्रुतम् 033a
सैन्यरेणुं समुद्धूतं पश्यस्वैनं समन्ततः 033c
सिंहनादांश्च बहुशः शृणु घोरान्भयानकान् 034a
तस्माद्याहि शनैः सूत जघनं परिपालय 034c
मयि स्थिते च समरे निरुद्धेषु च पाण्डुषु 035a
पुनरावर्तते तूर्णं मामकं बलमोजसा 035c
तच्छ्रुत्वा तव पुत्रस्य शूराग्र्यसदृशं वचः 036a
सारथिर्हेमसञ्छन्नाञ्शनैरश्वानचोदयत् 036c
गजाश्वरथिभिर्हीनास्त्यक्तात्मानः पदातयः 037a
एकविंशतिसाहस्राः संयुगायावतस्थिरे 037c
नानादेशसमुद्भूता नानारञ्जितवाससः 038a
अवस्थितास्तदा योधाः प्रार्थयन्तो महद्यशः 038c
तेषामापततां तत्र संहृष्टानां परस्परम् 039a
सम्मर्दः सुमहाञ्जज्ञे घोररूपो भयानकः 039c
भीमसेनं तदा राजन्धृष्टद्युम्नं च पार्षतम् 040a
बलेन चतुरङ्गेण नानादेश्या न्यवारयन् 040c
भीममेवाभ्यवर्तन्त रणेऽन्ये तु पदातयः 041a
प्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यियासवः 041c
आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः 042a
धार्तराष्ट्रा विनेदुर्हि नान्यां चाकथयन्कथाम् 042c
परिवार्य रणे भीमं निजघ्नुस्ते समन्ततः 042e
स वध्यमानः समरे पदातिगणसंवृतः 043a
न चचाल रथोपस्थे मैनाक इव पर्वतः 043c
ते तु क्रुद्धा महाराज पाण्डवस्य महारथम् 044a
निग्रहीतुं प्रचक्रुर्हि योधांश्चान्यानवारयन् 044c
अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः 045a
सोऽवतीर्य रथात्तूर्णं पदातिः समवस्थितः 045c
जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम् 046a
अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः 046c
रथाश्वद्विपहीनांस्तु तान्भीमो गदया बली 047a
एकविंशतिसाहस्रान्पदातीनवपोथयत् 047c
हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः 048a
धृष्टद्युम्नं पुरस्कृत्य नचिरात्प्रत्यदृश्यत 048c
पादाता निहता भूमौ शिश्यिरे रुधिरोक्षिताः 049a
सम्भग्ना इव वातेन कर्णिकाराः सुपुष्पिताः 049c
नानापुष्पस्रजोपेता नानाकुण्डलधारिणः 050a
नानाजात्या हतास्तत्र नानादेशसमागताः 050c
पताकाध्वजसञ्छन्नं पदातीनां महद्बलम् 051a
निकृत्तं विबभौ तत्र घोररूपं भयानकम् 051c
युधिष्ठिरपुरोगास्तु सर्वसैन्यमहारथाः 052a
अभ्यधावन्महात्मानं पुत्रं दुर्योधनं तव 052c
ते सर्वे तावकान्दृष्ट्वा महेष्वासान्पराङ्मुखान् 053a
नाभ्यवर्तन्त ते पुत्रं वेलेव मकरालयम् 053c
तदद्भुतमपश्याम तव पुत्रस्य पौरुषम् 054a
यदेकं सहिताः पार्था न शेकुरतिवर्तितुम् 054c
नातिदूरापयातं तु कृतबुद्धिं पलायने 055a
दुर्योधनः स्वकं सैन्यमब्रवीद्भृशविक्षतम् 055c
न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु वा 056a
यत्र यातान्न वो हन्युः पाण्डवाः किं सृतेन वः 056c
अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ 057a
यदि सर्वेऽत्र तिष्ठामो ध्रुवो नो विजयो भवेत् 057c
विप्रयातांस्तु वो भिन्नान्पाण्डवाः कृतकिल्बिषान् 058a
अनुसृत्य हनिष्यन्ति श्रेयो नः समरे स्थितम् 058c
शृणुध्वं क्षत्रियाः सर्वे यावन्तः स्थ समागताः 059a
यदा शूरं च भीरुं च मारयत्यन्तकः सदा 059c
को नु मूढो न युध्येत पुरुषः क्षत्रियब्रुवः 059e
श्रेयो नो भीमसेनस्य क्रुद्धस्य प्रमुखे स्थितम् 060a
सुखः साङ्ग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम् 060c
जित्वेह सुखमाप्नोति हतः प्रेत्य महत्फलम् 060e
न युद्धधर्माच्छ्रेयान्वै पन्थाः स्वर्गस्य कौरवाः 061a
अचिरेण जिताल्ँलोकान्हतो युद्धे समश्नुते 061c
श्रुत्वा तु वचनं तस्य पूजयित्वा च पार्थिवाः 062a
पुनरेवान्ववर्तन्त पाण्डवानाततायिनः 062c
तानापतत एवाशु व्यूढानीकाः प्रहारिणः 063a
प्रत्युद्ययुस्तदा पार्था जयगृध्राः प्रहारिणः 063c
धनञ्जयो रथेनाजावभ्यवर्तत वीर्यवान् 064a
विश्रुतं त्रिषु लोकेषु गाण्डीवं विक्षिपन्धनुः 064c
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः 065a
जवेनाभ्यपतन्हृष्टा यतो वै तावकं बलम् 065c