सञ्जय उवाच 001
शल्ये तु निहते राजन्मद्रराजपदानुगाः 001a
रथाः सप्तशता वीरा निर्ययुर्महतो बलात् 001c
दुर्योधनस्तु द्विरदमारुह्याचलसन्निभम् 002a
छत्रेण ध्रियमाणेन वीज्यमानश्च चामरैः 002c
न गन्तव्यं न गन्तव्यमिति मद्रानवारयत् 002e
दुर्योधनेन ते वीरा वार्यमाणाः पुनः पुनः 003a
युधिष्ठिरं जिघांसन्तः पाण्डूनां प्राविशन्बलम् 003c
ते तु शूरा महाराज कृतचित्ताः स्म योधने 004a
धनुःशब्दं महत्कृत्वा सहायुध्यन्त पाण्डवैः 004c
श्रुत्वा तु निहतं शल्यं धर्मपुत्रं च पीडितम् 005a
मद्रराजप्रिये युक्तैर्मद्रकाणां महारथैः 005c
आजगाम ततः पार्थो गाण्डीवं विक्षिपन्धनुः 006a
पूरयन्रथघोषेण दिशः सर्वा महारथः 006c
ततोऽर्जुनश्च भीमश्च माद्रीपुत्रौ च पाण्डवौ 007a
सात्यकिश्च नरव्याघ्रो द्रौपदेयाश्च सर्वशः 007c
धृष्टद्युम्नः शिखण्डी च पाञ्चालाः सह सोमकैः 008a
युधिष्ठिरं परीप्सन्तः समन्तात्पर्यवारयन् 008c
ते समन्तात्परिवृताः पाण्डवैः पुरुषर्षभाः 009a
क्षोभयन्ति स्म तां सेनां मकराः सागरं यथा 009c
पुरोवातेन गङ्गेव क्षोभ्यमाना महानदी 010a
अक्षोभ्यत तदा राजन्पाण्डूनां ध्वजिनी पुनः 010c
प्रस्कन्द्य सेनां महतीं त्यक्तात्मानो महारथाः 011a
वृक्षानिव महावाताः कम्पयन्ति स्म तावकाः 011c
बहवश्चुक्रुशुस्तत्र क्व स राजा युधिष्ठिरः 012a
भ्रातरो वास्य ते शूरा दृश्यन्ते नेह केचन 012c
पाञ्चालानां महावीर्याः शिखण्डी च महारथः 013a
धृष्टद्युम्नोऽथ शैनेयो द्रौपदेयाश्च सर्वशः 013c
एवं तान्वादिनः शूरान्द्रौपदेया महारथाः 014a
अभ्यघ्नन्युयुधानश्च मद्रराजपदानुगान् 014c
चक्रैर्विमथितैः केचित्केचिच्छिन्नैर्महाध्वजैः 015a
प्रत्यदृश्यन्त समरे तावका निहताः परैः 015c
आलोक्य पाण्डवान्युद्धे योधा राजन्समन्ततः 016a
वार्यमाणा ययुर्वेगात्तव पुत्रेण भारत 016c
दुर्योधनस्तु तान्वीरान्वारयामास सान्त्वयन् 017a
न चास्य शासनं कश्चित्तत्र चक्रे महारथः 017c
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् 018a
दुर्योधनं महाराज वचनं वचनक्षमः 018c
किं नः सम्प्रेक्षमाणानां मद्राणां हन्यते बलम् 019a
न युक्तमेतत्समरे त्वयि तिष्ठति भारत 019c
सहितैर्नाम योद्धव्यमित्येष समयः कृतः 020a
अथ कस्मात्परानेव घ्नतो मर्षयसे नृप 020c
दुर्योधन उवाच 021
वार्यमाणा मया पूर्वं नैते चक्रुर्वचो मम 021a
एते हि निहताः सर्वे प्रस्कन्नाः पाण्डुवाहिनीम् 021c
शकुनिरुवाच 022
न भर्तुः शासनं वीरा रणे कुर्वन्त्यमर्षिताः 022a
अलं क्रोद्धुं तथैतेषां नायं काल उपेक्षितुम् 022c
यामः सर्वेऽत्र सम्भूय सवाजिरथकुञ्जराः 023a
परित्रातुं महेष्वासान्मद्रराजपदानुगान् 023c
अन्योन्यं परिरक्षामो यत्नेन महता नृप 024a
एवं सर्वेऽनुसञ्चिन्त्य प्रययुर्यत्र सैनिकाः 024c
सञ्जय उवाच 025
एवमुक्तस्ततो राजा बलेन महता वृतः 025a
प्रययौ सिंहनादेन कम्पयन्वै वसुन्धराम् 025c
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत 026a
इत्यासीत्तुमुलः शब्दस्तव सैन्यस्य भारत 026c
पाण्डवास्तु रणे दृष्ट्वा मद्रराजपदानुगान् 027a
सहितानभ्यवर्तन्त गुल्ममास्थाय मध्यमम् 027c
ते मुहूर्ताद्रणे वीरा हस्ताहस्तं विशां पते 028a
निहताः प्रत्यदृश्यन्त मद्रराजपदानुगाः 028c
ततो नः सम्प्रयातानां हतामित्रास्तरस्विनः 029a
हृष्टाः किलकिलाशब्दमकुर्वन्सहिताः परे 029c
अथोत्थितानि रुण्डानि समदृश्यन्त सर्वशः 030a
पपात महती चोल्का मध्येनादित्यमण्डलम् 030c
रथैर्भग्नैर्युगाक्षैश्च निहतैश्च महारथैः 031a
अश्वैर्निपतितैश्चैव सञ्छन्नाभूद्वसुन्धरा 031c
वातायमानैस्तुरगैर्युगासक्तैस्तुरङ्गमैः 032a
अदृश्यन्त महाराज योधास्तत्र रणाजिरे 032c
भग्नचक्रान्रथान्केचिदवहंस्तुरगा रणे 033a
रथार्धं केचिदादाय दिशो दश विबभ्रमुः 033c
तत्र तत्र च दृश्यन्ते योक्त्रैः श्लिष्टाः स्म वाजिनः 033e
रथिनः पतमानाश्च व्यदृश्यन्त नरोत्तम 034a
गगनात्प्रच्युताः सिद्धाः पुण्यानामिव सङ्क्षये 034c
निहतेषु च शूरेषु मद्रराजानुगेषु च 035a
अस्मानापततश्चापि दृष्ट्वा पार्था महारथाः 035c
अभ्यवर्तन्त वेगेन जयगृध्राः प्रहारिणः 036a
बाणशब्दरवान्कृत्वा विमिश्राञ्शङ्खनिस्वनैः 036c
अस्मांस्तु पुनरासाद्य लब्धलक्षाः प्रहारिणः 037a
शरासनानि धुन्वानाः सिंहनादान्प्रचुक्रुशुः 037c
ततो हतमभिप्रेक्ष्य मद्रराजबलं महत् 038a
मद्रराजं च समरे दृष्ट्वा शूरं निपातितम् 038c
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् 038e
वध्यमानं महाराज पाण्डवैर्जितकाशिभिः 039a
दिशो भेजेऽथ सम्भ्रान्तं त्रासितं दृढधन्विभिः 039c