सञ्जय उवाच 001
अथान्यद्धनुरादाय बलवद्वेगवत्तरम् 001a
युधिष्ठिरं मद्रपतिर्विद्ध्वा सिंह इवानदत् 001c
ततः स शरवर्षेण पर्जन्य इव वृष्टिमान् 002a
अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः 002c
सात्यकिं दशभिर्विद्ध्वा भीमसेनं त्रिभिः शरैः 003a
सहदेवं त्रिभिर्विद्ध्वा युधिष्ठिरमपीडयत् 003c
तांस्तानन्यान्महेष्वासान्साश्वान्सरथकुञ्जरान् 004a
कुञ्जरान्कुञ्जरारोहानश्वानश्वप्रयायिनः 004c
रथांश्च रथिभिः सार्धं जघान रथिनां वरः 004e
बाहूंश्चिच्छेद च तथा सायुधान्केतनानि च 005a
चकार च महीं योधैस्तीर्णां वेदीं कुशैरिव 005c
तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम् 006a
परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः 006c
तं भीमसेनश्च शिनेश्च नप्ता माद्र्याश्च पुत्रौ पुरुषप्रवीरौ 007a
समागतं भीमबलेन राज्ञा पर्यापुरन्योन्यमथाह्वयन्तः 007c
ततस्तु शूराः समरे नरेन्द्रं मद्रेश्वरं प्राप्य युधां वरिष्ठम् 008a
आवार्य चैनं समरे नृवीरा जघ्नुः शरैः पत्रिभिरुग्रवेगैः 008c
संरक्षितो भीमसेनेन राजा माद्रीसुताभ्यामथ माधवेन 009a
मद्राधिपं पत्रिभिरुग्रवेगैः स्तनान्तरे धर्मसुतो निजघ्ने 009c
ततो रणे तावकानां रथौघाः समीक्ष्य मद्राधिपतिं शरार्तम् 010a
पर्यावव्रुः प्रवराः सर्वशश्च दुर्योधनस्यानुमते समन्तात् 010c
ततो द्रुतं मद्रजनाधिपो रणे युधिष्ठिरं सप्तभिरभ्यविध्यत् 011a
तं चापि पार्थो नवभिः पृषत्कैर्विव्याध राजंस्तुमुले महात्मा 011c
आकर्णपूर्णायतसम्प्रयुक्तैः शरैस्तदा संयति तैलधौतैः 012a
अन्योन्यमाच्छादयतां महारथौ मद्राधिपश्चापि युधिष्ठिरश्च 012c
ततस्तु तूर्णं समरे महारथौ परस्परस्यान्तरमीक्षमाणौ 013a
शरैर्भृशं विव्यधतुर्नृपोत्तमौ महाबलौ शत्रुभिरप्रधृष्यौ 013c
तयोर्धनुर्ज्यातलनिस्वनो महान्महेन्द्रवज्राशनितुल्यनिस्वनः 014a
परस्परं बाणगणैर्महात्मनोः प्रवर्षतोर्मद्रपपाण्डुवीरयोः 014c
तौ चेरतुर्व्याघ्रशिशुप्रकाशौ महावनेष्वामिषगृद्धिनाविव 015a
विषाणिनौ नागवराविवोभौ ततक्षतुः संयुगजातदर्पौ 015c
ततस्तु मद्राधिपतिर्महात्मा युधिष्ठिरं भीमबलं प्रसह्य 016a
विव्याध वीरं हृदयेऽतिवेगं शरेण सूर्याग्निसमप्रभेण 016c
ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि सुसम्प्रयुक्तेन शरेण राजन् 017a
जघान मद्राधिपतिं महात्मा मुदं च लेभे ऋषभः कुरूणाम् 017c
ततो मुहूर्तादिव पार्थिवेन्द्रो लब्ध्वा सञ्ज्ञां क्रोधसंरक्तनेत्रः 018a
शतेन पार्थं त्वरितो जघान सहस्रनेत्रप्रतिमप्रभावः 018c
त्वरंस्ततो धर्मसुतो महात्मा शल्यस्य क्रुद्धो नवभिः पृषत्कैः 019a
भित्त्वा ह्युरस्तपनीयं च वर्म जघान षड्भिस्त्वपरैः पृषत्कैः 019c
ततस्तु मद्राधिपतिः प्रहृष्टो धनुर्विकृष्य व्यसृजत्पृषत्कान् 020a
द्वाभ्यां क्षुराभ्यां च तथैव राज्ञश्चिच्छेद चापं कुरुपुङ्गवस्य 020c
नवं ततोऽन्यत्समरे प्रगृह्य राजा धनुर्घोरतरं महात्मा 021a
शल्यं तु विद्ध्वा निशितैः समन्ताद्यथा महेन्द्रो नमुचिं शिताग्रैः 021c
ततस्तु शल्यो नवभिः पृषत्कैर्भीमस्य राज्ञश्च युधिष्ठिरस्य 022a
निकृत्य रौक्मे पटुवर्मणी तयोर्विदारयामास भुजौ महात्मा 022c
ततोऽपरेण ज्वलितार्कतेजसा क्षुरेण राज्ञो धनुरुन्ममाथ 023a
कृपश्च तस्यैव जघान सूतं षड्भिः शरैः सोऽभिमुखं पपात 023c
मद्राधिपश्चापि युधिष्ठिरस्य शरैश्चतुर्भिर्निजघान वाहान् 024a
वाहांश्च हत्वा व्यकरोन्महात्मा योधक्षयं धर्मसुतस्य राज्ञः 024c
तथा कृते राजनि भीमसेनो मद्राधिपस्याशु ततो महात्मा 025a
छित्त्वा धनुर्वेगवता शरेण द्वाभ्यामविध्यत्सुभृशं नरेन्द्रम् 025c
अथापरेणास्य जहार यन्तुः कायाच्छिरः सन्नहनीयमध्यात् 026a
जघान चाश्वांश्चतुरः स शीघ्रं तथा भृशं कुपितो भीमसेनः 026c
तमग्रणीः सर्वधनुर्धराणामेकं चरन्तं समरेऽतिवेगम् 027a
भीमः शतेन व्यकिरच्छराणां माद्रीपुत्रः सहदेवस्तथैव 027c
तैः सायकैर्मोहितं वीक्ष्य शल्यं भीमः शरैरस्य चकर्त वर्म 028a
स भीमसेनेन निकृत्तवर्मा मद्राधिपश्चर्म सहस्रतारम् 028c
प्रगृह्य खड्गं च रथान्महात्मा प्रस्कन्द्य कुन्तीसुतमभ्यधावत् 029a
छित्त्वा रथेषां नकुलस्य सोऽथ युधिष्ठिरं भीमबलोऽभ्यधावत् 029c
तं चापि राजानमथोत्पतन्तं क्रुद्धं यथैवान्तकमापतन्तम् 030a
धृष्टद्युम्नो द्रौपदेयाः शिखण्डी शिनेश्च नप्ता सहसा परीयुः 030c
अथास्य चर्माप्रतिमं न्यकृन्तद्भीमो महात्मा दशभिः पृषत्कः 031a
खड्गं च भल्लैर्निचकर्त मुष्टौ नदन्प्रहृष्टस्तव सैन्यमध्ये 031c
तत्कर्म भीमस्य समीक्ष्य हृष्टास्ते पाण्डवानां प्रवरा रथौघाः 032a
नादं च चक्रुर्भृशमुत्स्मयन्तः शङ्खांश्च दध्मुः शशिसन्निकाशान् 032c
तेनाथ शब्देन विभीषणेन तवाभितप्तं बलमप्रहृष्टम् 033a
स्वेदाभिभूतं रुधिरोक्षिताङ्गं विसञ्ज्ञकल्पं च तथा विषण्णम् 033c
स मद्रराजः सहसावकीर्णो भीमाग्रगैः पाण्डवयोधमुख्यैः 034a
युधिष्ठिरस्याभिमुखं जवेन सिंहो यथा मृगहेतोः प्रयातः 034c
स धर्मराजो निहताश्वसूतं क्रोधेन दीप्तज्वलनप्रकाशम् 035a
दृष्ट्वा तु मद्राधिपतिं स तूर्णं समभ्यधावत्तमरिं बलेन 035c
गोविन्दवाक्यं त्वरितं विचिन्त्य दध्रे मतिं शल्यविनाशनाय 036a
स धर्मराजो निहताश्वसूते रथे तिष्ठञ्शक्तिमेवाभिकाङ्क्षन् 036c
तच्चापि शल्यस्य निशम्य कर्म महात्मनो भागमथावशिष्टम् 037a
स्मृत्वा मनः शल्यवधे यतात्मा यथोक्तमिन्द्रावरजस्य चक्रे 037c
स धर्मराजो मणिहेमदण्डां जग्राह शक्तिं कनकप्रकाशाम् 038a
नेत्रे च दीप्ते सहसा विवृत्य मद्राधिपं क्रुद्धमना निरैक्षत् 038c
निरीक्षितो वै नरदेव राज्ञा पूतात्मना निर्हृतकल्मषेण 039a
अभून्न यद्भस्मसान्मद्रराजस्तदद्भुतं मे प्रतिभाति राजन् 039c
ततस्तु शक्तिं रुचिरोग्रदण्डां मणिप्रवालोज्ज्वलितां प्रदीप्ताम् 040a
चिक्षेप वेगात्सुभृशं महात्मा मद्राधिपाय प्रवरः कुरूणाम् 040c
दीप्तामथैनां महता बलेन सविस्फुलिङ्गां सहसा पतन्तीम् 041a
प्रैक्षन्त सर्वे कुरवः समेता यथा युगान्ते महतीमिवोल्काम् 041c
तां कालरात्रीमिव पाशहस्तां यमस्य धात्रीमिव चोग्ररूपाम् 042a
सब्रह्मदण्डप्रतिमाममोघां ससर्ज यत्तो युधि धर्मराजः 042c
गन्धस्रगग्र्यासनपानभोजनैरभ्यर्चितां पाण्डुसुतैः प्रयत्नात् 043a
संवर्तकाग्निप्रतिमां ज्वलन्तीं कृत्यामथर्वाङ्गिरसीमिवोग्राम् 043c
ईशानहेतोः प्रतिनिर्मितां तां त्वष्ट्रा रिपूणामसुदेहभक्षाम् 044a
भूम्यन्तरिक्षादिजलाशयानि प्रसह्य भूतानि निहन्तुमीशाम् 044c
घण्टापताकामणिवज्रभाजं वैडूर्यचित्रां तपनीयदण्डाम् 045a
त्वष्ट्रा प्रयत्नान्नियमेन कॢप्तां ब्रह्मद्विषामन्तकरीममोघाम् 045c
बलप्रयत्नादधिरूढवेगां मन्त्रैश्च घोरैरभिमन्त्रयित्वा 046a
ससर्ज मार्गेण च तां परेण वधाय मद्राधिपतेस्तदानीम् 046c
हतोऽस्यसावित्यभिगर्जमानो रुद्रोऽन्तकायान्तकरं यथेषुम् 047a
प्रसार्य बाहुं सुदृढं सुपाणिं क्रोधेन नृत्यन्निव धर्मराजः 047c
तां सर्वशक्त्या प्रहितां स शक्तिं युधिष्ठिरेणाप्रतिवार्यवीर्याम् 048a
प्रतिग्रहायाभिननर्द शल्यः सम्यग्घुतामग्निरिवाज्यधाराम् 048c
सा तस्य मर्माणि विदार्य शुभ्रमुरो विशालं च तथैव वर्म 049a
विवेश गां तोयमिवाप्रसक्ता यशो विशालं नृपतेर्दहन्ती 049c
नासाक्षिकर्णास्यविनिःसृतेन प्रस्यन्दता च व्रणसम्भवेन 050a
संसिक्तगात्रो रुधिरेण सोऽभूत्क्रौञ्चो यथा स्कन्दहतो महाद्रिः 050c
प्रसार्य बाहू स रथाद्गतो गां सञ्छिन्नवर्मा कुरुनन्दनेन 051a
महेन्द्रवाहप्रतिमो महात्मा वज्राहतं शृङ्गमिवाचलस्य 051c
बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट् 052a
ततो निपतितो भूमाविन्द्रध्वज इवोच्छ्रितः 052c
स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः 053a
प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुङ्गवः 053c
प्रियया कान्तया कान्तः पतमान इवोरसि 054a
चिरं भुक्त्वा वसुमतीं प्रियां कान्तामिव प्रभुः 054c
सर्वैरङ्गैः समाश्लिष्य प्रसुप्त इव सोऽभवत् 054e
धर्म्ये धर्मात्मना युद्धे निहतो धर्मसूनुना 055a
सम्यग्घुत इव स्विष्टः प्रशान्तोऽग्निरिवाध्वरे 055c
शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम् 056a
संशान्तमपि मद्रेशं लक्ष्मीर्नैव व्यमुञ्चत 056c
ततो युधिष्ठिरश्चापमादायेन्द्रधनुष्प्रभम् 057a
व्यधमद्द्विषतः सङ्ख्ये खगराडिव पन्नगान् 057c
देहासून्निशितैर्भल्लै रिपूणां नाशयन्क्षणात् 057e
ततः पार्थस्य बाणौघैरावृताः सैनिकास्तव 058a
निमीलिताक्षाः क्षिण्वन्तो भृशमन्योन्यमर्दिताः 058c
सन्न्यस्तकवचा देहैर्विपत्रायुधजीविताः 058e
ततः शल्ये निपतिते मद्रराजानुजो युवा 059a
भ्रातुः सर्वैर्गुणैस्तुल्यो रथी पाण्डवमभ्ययात् 059c
विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन् 060a
हतस्यापचितिं भ्रातुश्चिकीर्षुर्युद्धदुर्मदः 060c
तं विव्याधाशुगैः षड्भिर्धर्मराजस्त्वरन्निव 061a
कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च 061c
ततोऽस्य दीप्यमानेन सुदृढेन शितेन च 062a
प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः 062c
सकुण्डलं तद्ददृशे पतमानं शिरो रथात् 063a
पुण्यक्षयमिव प्राप्य पतन्तं स्वर्गवासिनम् 063c
तस्यापकृष्टशीर्षं तच्छरीरं पतितं रथात् 064a
रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत 064c
विचित्रकवचे तस्मिन्हते मद्रनृपानुजे 065a
हाहाकारं विकुर्वाणाः कुरवो विप्रदुद्रुवुः 065c
शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः 066a
वित्रेसुः पाण्डवभयाद्रजोध्वस्तास्तथा भृशम् 066c
तांस्तथा भज्यतस्त्रस्तान्कौरवान्भरतर्षभ 067a
शिनेर्नप्ता किरन्बाणैरभ्यवर्तत सात्यकिः 067c
तमायान्तं महेष्वासमप्रसह्यं दुरासदम् 068a
हार्दिक्यस्त्वरितो राजन्प्रत्यगृह्णादभीतवत् 068c
तौ समेतौ महात्मानौ वार्ष्णेयावपराजितौ 069a
हार्दिक्यः सात्यकिश्चैव सिंहाविव मदोत्कटौ 069c
इषुभिर्विमलाभासैश्छादयन्तौ परस्परम् 070a
अर्चिर्भिरिव सूर्यस्य दिवाकरसमप्रभौ 070c
चापमार्गबलोद्धूतान्मार्गणान्वृष्णिसिंहयोः 071a
आकाशे समपश्याम पतङ्गानिव शीघ्रगान् 071c
सात्यकिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः 072a
चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा 072c
तन्निकृत्तं धनुः श्रेष्ठमपास्य शिनिपुङ्गवः 073a
अन्यदादत्त वेगेन वेगवत्तरमायुधम् 073c
तदादाय धनुः श्रेष्ठं वरिष्ठः सर्वधन्विनाम् 074a
हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे 074c
ततो रथं युगेषां च छित्त्वा भल्लैः सुसंयतैः 075a
अश्वांस्तस्यावधीत्तूर्णमुभौ च पार्ष्णिसारथी 075c
मद्रराजे हते राजन्विरथे कृतवर्मणि 076a
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् 076c
तत्परे नावबुध्यन्त सैन्येन रजसा वृते 077a
बलं तु हतभूयिष्ठं तत्तदासीत्पराङ्मुखम् 077c
ततो मुहूर्तात्तेऽपश्यन्रजो भौमं समुत्थितम् 078a
विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ 078c
ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात् 079a
जवेनापततः पार्थानेकः सर्वानवारयत् 079c
पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्नं च पार्षतम् 080a
आनर्तं च दुराधर्षं शितैर्बाणैरवाकिरत् 080c
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवागतम् 081a
अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत 081c
ततो युधिष्ठिरो राजा त्वरमाणो महारथः 082a
चतुर्भिर्निजघानाश्वान्पत्रिभिः कृतवर्मणः 082c
विव्याध गौतमं चापि षड्भिर्भल्लैः सुतेजनैः 082e
अश्वत्थामा ततो राज्ञा हताश्वं विरथीकृतम् 083a
समपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात् 083c
ततः शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम् 084a
विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः 084c
एवमेतन्महाराज युद्धशेषमवर्तत 085a
तव दुर्मन्त्रिते राजन्सहपुत्रस्य भारत 085c
तस्मिन्महेष्वासवरे विशस्ते सङ्ग्राममध्ये कुरुपुङ्गवेन 086a
पार्थाः समेताः परमप्रहृष्टाः शङ्खान्प्रदध्मुर्हतमीक्ष्य शल्यम् 086c
युधिष्ठिरं च प्रशशंसुराजौ पुरा सुरा वृत्रवधे यथेन्द्रम् 087a
चक्रुश्च नानाविधवाद्यशब्दान्निनादयन्तो वसुधां समन्तात् 087c