सञ्जय उवाच 001
ततः सैन्यास्तव विभो मद्रराजपुरस्कृताः 001a
पुनरभ्यद्रवन्पार्थान्वेगेन महता रणे 001c
पीडितास्तावकाः सर्वे प्रधावन्तो रणोत्कटाः 002a
क्षणेनैव च पार्थांस्ते बहुत्वात्समलोडयन् 002c
ते वध्यमानाः कुरुभिः पाण्डवा नावतस्थिरे 003a
निवार्यमाणा भीमेन पश्यतोः कृष्णपार्थयोः 003c
ततो धनञ्जयः क्रुद्धः कृपं सह पदानुगैः 004a
अवाकिरच्छरौघेण कृतवर्माणमेव च 004c
शकुनिं सहदेवस्तु सहसैन्यमवारयत् 005a
नकुलः पार्श्वतः स्थित्वा मद्रराजमवैक्षत 005c
द्रौपदेया नरेन्द्रांश्च भूयिष्ठं समवारयन् 006a
द्रोणपुत्रं च पाञ्चाल्यः शिखण्डी समवारयत् 006c
भीमसेनस्तु राजानं गदापाणिरवारयत् 007a
शल्यं तु सह सैन्येन कुन्तीपुत्रो युधिष्ठिरः 007c
ततः समभवद्युद्धं संसक्तं तत्र तत्र ह 008a
तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम् 008c
तत्र पश्यामहे कर्म शल्यस्यातिमहद्रणे 009a
यदेकः सर्वसैन्यानि पाण्डवानामयुध्यत 009c
व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः 010a
रणे चन्द्रमसोऽभ्याशे शनैश्चर इव ग्रहः 010c
पीडयित्वा तु राजानं शरैराशीविषोपमैः 011a
अभ्यधावत्पुनर्भीमं शरवर्षैरवाकिरत् 011c
तस्य तल्लाघवं दृष्ट्वा तथैव च कृतास्त्रताम् 012a
अपूजयन्ननीकानि परेषां तावकानि च 012c
पीड्यमानास्तु शल्येन पाण्डवा भृशविक्षताः 013a
प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्ठिरे 013c
वध्यमानेष्वनीकेषु मद्रराजेन पाण्डवः 014a
अमर्षवशमापन्नो धर्मराजो युधिष्ठिरः 014c
ततः पौरुषमास्थाय मद्रराजमपीडयत् 014e
जयो वास्तु वधो वेति कृतबुद्धिर्महारथः 015a
समाहूयाब्रवीत्सर्वान्भ्रातॄन्कृष्णं च माधवम् 015c
भीष्मो द्रोणश्च कर्णश्च ये चान्ये पृथिवीक्षितः 016a
कौरवार्थे पराक्रान्ताः सङ्ग्रामे निधनं गताः 016c
यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः 017a
भागोऽवशिष्ट एकोऽयं मम शल्यो महारथः 017c
सोऽहमद्य युधा जेतुमाशंसे मद्रकेश्वरम् 018a
तत्र यन्मानसं मह्यं तत्सर्वं निगदामि वः 018c
चक्ररक्षाविमौ शूरौ मम माद्रवतीसुतौ 019a
अजेयौ वासवेनापि समरे वीरसम्मतौ 019c
साध्विमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ 020a
मदर्थं प्रतियुध्येतां मानार्हौ सत्यसङ्गरौ 020c
मां वा शल्यो रणे हन्ता तं वाहं भद्रमस्तु वः 021a
इति सत्यामिमां वाणीं लोकवीरा निबोधत 021c
योत्स्येऽहं मातुलेनाद्य क्षत्रधर्मेण पार्थिवाः 022a
स्वयं समभिसन्धाय विजयायेतराय वा 022c
तस्य मेऽभ्यधिकं शस्त्रं सर्वोपकरणानि च 023a
संयुञ्जन्तु रणे क्षिप्रं शास्त्रवद्रथयोजकाः 023c
शैनेयो दक्षिणं चक्रं धृष्टद्युम्नस्तथोत्तरम् 024a
पृष्ठगोपो भवत्वद्य मम पार्थो धनञ्जयः 024c
पुरःसरो ममाद्यास्तु भीमः शस्त्रभृतां वरः 025a
एवमभ्यधिकः शल्याद्भविष्यामि महामृधे 025c
एवमुक्तास्तथा चक्रुः सर्वे राज्ञः प्रियैषिणः 026a
ततः प्रहर्षः सैन्यानां पुनरासीत्तदा नृप 026c
पाञ्चालानां सोमकानां मत्स्यानां च विशेषतः 027a
प्रतिज्ञां तां च सङ्ग्रामे धर्मराजस्य पूरयन् 027c
ततः शङ्खांश्च भेरीश्च शतशश्चैव पुष्करान् 028a
अवादयन्त पाञ्चालाः सिंहनादांश्च नेदिरे 028c
तेऽभ्यधावन्त संरब्धा मद्रराजं तरस्विनः 029a
महता हर्षजेनाथ नादेन कुरुपुङ्गवाः 029c
ह्रादेन गजघण्टानां शङ्खानां निनदेन च 030a
तूर्यशब्देन महता नादयन्तश्च मेदिनीम् 030c
तान्प्रत्यगृह्णात्पुत्रस्ते मद्रराजश्च वीर्यवान् 031a
महामेघानिव बहूञ्शैलावस्तोदयावुभौ 031c
शल्यस्तु समरश्लाघी धर्मराजमरिन्दमम् 032a
ववर्ष शरवर्षेण वर्षेण मघवानिव 032c
तथैव कुरुराजोऽपि प्रगृह्य रुचिरं धनुः 033a
द्रोणोपदेशान्विविधान्दर्शयानो महामनाः 033c
ववर्ष शरवर्षाणि चित्रं लघु च सुष्ठु च 034a
न चास्य विवरं कश्चिद्ददर्श चरतो रणे 034c
तावुभौ विविधैर्बाणैस्ततक्षाते परस्परम् 035a
शार्दूलावामिषप्रेप्सू पराक्रान्ताविवाहवे 035c
भीमस्तु तव पुत्रेण रणशौण्डेन सङ्गतः 036a
पाञ्चाल्यः सात्यकिश्चैव माद्रीपुत्रौ च पाण्डवौ 036c
शकुनिप्रमुखान्वीरान्प्रत्यगृह्णन्समन्ततः 036e
तदासीत्तुमुलं युद्धं पुनरेव जयैषिणाम् 037a
तावकानां परेषां च राजन्दुर्मन्त्रिते तव 037c
दुर्योधनस्तु भीमस्य शरेणानतपर्वणा 038a
चिच्छेदादिश्य सङ्ग्रामे ध्वजं हेमविभूषितम् 038c
सकिङ्किणीकजालेन महता चारुदर्शनः 039a
पपात रुचिरः सिंहो भीमसेनस्य नानदन् 039c
पुनश्चास्य धनुश्चित्रं गजराजकरोपमम् 040a
क्षुरेण शितधारेण प्रचकर्त नराधिपः 040c
स च्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव 041a
बिभेदोरसि विक्रम्य स रथोपस्थ आविशत् 041c
तस्मिन्मोहमनुप्राप्ते पुनरेव वृकोदरः 042a
यन्तुरेव शिरः कायात्क्षुरप्रेणाहरत्तदा 042c
हतसूता हयास्तस्य रथमादाय भारत 043a
व्यद्रवन्त दिशो राजन्हाहाकारस्तदाभवत् 043c
तमभ्यधावत्त्राणार्थं द्रोणपुत्रो महारथः 044a
कृपश्च कृतवर्मा च पुत्रं तेऽभिपरीप्सवः 044c
तस्मिन्विलुलिते सैन्ये त्रस्तास्तस्य पदानुगाः 045a
गाण्डीवधन्वा विस्फार्य धनुस्तानहनच्छरैः 045c
युधिष्ठिरस्तु मद्रेशमभ्यधावदमर्षितः 046a
स्वयं सञ्चोदयन्नश्वान्दन्तवर्णान्मनोजवान् 046c
तत्राद्भुतमपश्याम कुन्तीपुत्रे युधिष्ठिरे 047a
पुरा भूत्वा मृदुर्दान्तो यत्तदा दारुणोऽभवत् 047c
विवृताक्षश्च कौन्तेयो वेपमानश्च मन्युना 048a
चिच्छेद योधान्निशितैः शरैः शतसहस्रशः 048c
यां यां प्रत्युद्ययौ सेनां तां तां ज्येष्ठः स पाण्डवः 049a
शरैरपातयद्राजन्गिरीन्वज्रैरिवोत्तमैः 049c
साश्वसूतध्वजरथान्रथिनः पातयन्बहून् 050a
आक्रीडदेको बलवान्पवनस्तोयदानिव 050c
साश्वारोहांश्च तुरगान्पत्तींश्चैव सहस्रशः 051a
व्यपोथयत सङ्ग्रामे क्रुद्धो रुद्रः पशूनिव 051c
शून्यमायोधनं कृत्वा शरवर्षैः समन्ततः 052a
अभ्यद्रवत मद्रेशं तिष्ठ शल्येति चाब्रवीत् 052c
तस्य तच्चरितं दृष्ट्वा सङ्ग्रामे भीमकर्मणः 053a
वित्रेसुस्तावकाः सर्वे शल्यस्त्वेनं समभ्ययात् 053c
ततस्तौ तु सुसंरब्धौ प्रध्माप्य सलिलोद्भवौ 054a
समाहूय तदान्योन्यं भर्त्सयन्तौ समीयतुः 054c
शल्यस्तु शरवर्षेण युधिष्ठिरमवाकिरत् 055a
मद्रराजं च कौन्तेयः शरवर्षैरवाकिरत् 055c
व्यदृश्येतां तदा राजन्कङ्कपत्रिभिराहवे 056a
उद्भिन्नरुधिरौ शूरौ मद्रराजयुधिष्ठिरौ 056c
पुष्पिताविव रेजाते वने शल्मलिकिंशुकौ 057a
दीप्यमानौ महात्मानौ प्राणयोर्युद्धदुर्मदौ 057c
दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस्तयोर्जयम् 058a
हत्वा मद्राधिपं पार्थो भोक्ष्यतेऽद्य वसुन्धराम् 058c
शल्यो वा पाण्डवं हत्वा दद्याद्दुर्योधनाय गाम् 059a
इतीव निश्चयो नाभूद्योधानां तत्र भारत 059c
प्रदक्षिणमभूत्सर्वं धर्मराजस्य युध्यतः 060a
ततः शरशतं शल्यो मुमोचाशु युधिष्ठिरे 061a
धनुश्चास्य शिताग्रेण बाणेन निरकृन्तत 061c
सोऽन्यत्कार्मुकमादाय शल्यं शरशतैस्त्रिभिः 062a
अविध्यत्कार्मुकं चास्य क्षुरेण निरकृन्तत 062c
अथास्य निजघानाश्वांश्चतुरो नतपर्वभिः 063a
द्वाभ्यामथ शिताग्राभ्यामुभौ च पार्ष्णिसारथी 063c
ततोऽस्य दीप्यमानेन पीतेन निशितेन च 064a
प्रमुखे वर्तमानस्य भल्लेनापाहरद्ध्वजम् 064c
ततः प्रभग्नं तत्सैन्यं दौर्योधनमरिन्दम 064e
ततो मद्राधिपं द्रौणिरभ्यधावत्तथाकृतम् 065a
आरोप्य चैनं स्वरथं त्वरमाणः प्रदुद्रुवे 065c
मुहूर्तमिव तौ गत्वा नर्दमाने युधिष्ठिरे 066a
स्थित्वा ततो मद्रपतिरन्यं स्यन्दनमास्थितः 066c
विधिवत्कल्पितं शुभ्रं महाम्बुदनिनादिनम् 067a
सज्जयन्त्रोपकरणं द्विषतां रोमहर्षणम् 067c