सञ्जय उवाच 001
दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः 001a
चक्रतुः सुमहद्युद्धं शरशक्तिसमाकुलम् 001c
तयोरासन्महाराज शरधाराः सहस्रशः 002a
अम्बुदानां यथा काले जलधाराः समन्ततः 002c
राजा तु पार्षतं विद्ध्वा शरैः पञ्चभिरायसैः 003a
द्रोणहन्तारमुग्रेषुः पुनर्विव्याध सप्तभिः 003c
धृष्टद्युम्नस्तु समरे बलवान्दृढविक्रमः 004a
सप्तत्या विशिखानां वै दुर्योधनमपीडयत् 004c
पीडितं प्रेक्ष्य राजानं सोदर्या भरतर्षभ 005a
महत्या सेनया सार्धं परिवव्रुः स्म पार्षतम् 005c
स तैः परिवृतः शूरैः सर्वतोऽतिरथैर्भृशम् 006a
व्यचरत्समरे राजन्दर्शयन्हस्तलाघवम् 006c
शिखण्डी कृतवर्माणं गौतमं च महारथम् 007a
प्रभद्रकैः समायुक्तो योधयामास धन्विनौ 007c
तत्रापि सुमहद्युद्धं घोररूपं विशां पते 008a
प्राणान्सन्त्यजतां युद्धे प्राणद्यूताभिदेवने 008c
शल्यस्तु शरवर्षाणि विमुञ्चन्सर्वतोदिशम् 009a
पाण्डवान्पीडयामास ससात्यकिवृकोदरान् 009c
तथोभौ च यमौ युद्धे यमतुल्यपराक्रमौ 010a
योधयामास राजेन्द्र वीर्येण च बलेन च 010c
शल्यसायकनुन्नानां पाण्डवानां महामृधे 011a
त्रातारं नाध्यगच्छन्त केचित्तत्र महारथाः 011c
ततस्तु नकुलः शूरो धर्मराजे प्रपीडिते 012a
अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः 012c
सञ्छाद्य समरे शल्यं नकुलः परवीरहा 013a
विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे 013c
सर्वपारशवैर्बाणैः कर्मारपरिमार्जितैः 014a
स्वर्णपुङ्खैः शिलाधौतैर्धनुर्यन्त्रप्रचोदितैः 014c
शल्यस्तु पीडितस्तेन स्वस्रीयेण महात्मना 015a
नकुलं पीडयामास पत्रिभिर्नतपर्वभिः 015c
ततो युधिष्ठिरो राजा भीमसेनोऽथ सात्यकिः 016a
सहदेवश्च माद्रेयो मद्रराजमुपाद्रवन् 016c
तानापतत एवाशु पूरयानान्रथस्वनैः 017a
दिशश्च प्रदिशश्चैव कम्पयानांश्च मेदिनीम् 017c
प्रतिजग्राह समरे सेनापतिरमित्रजित् 017e
युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च सप्तभिः 018a
सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः 018c
ततस्तु सशरं चापं नकुलस्य महात्मनः 019a
मद्रेश्वरः क्षुरप्रेण तदा चिच्छेद मारिष 019c
तदशीर्यत विच्छिन्नं धनुः शल्यस्य सायकैः 019e
अथान्यद्धनुरादाय माद्रीपुत्रो महारथः 020a
मद्रराजरथं तूर्णं पूरयामास पत्रिभिः 020c
युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष 021a
दशभिर्दशभिर्बाणैरुरस्येनमविध्यताम् 021c
भीमसेनस्ततः षष्ट्या सात्यकिर्नवभिः शरैः 022a
मद्रराजमभिद्रुत्य जघ्नतुः कङ्कपत्रिभिः 022c
मद्रराजस्ततः क्रुद्धः सात्यकिं नवभिः शरैः 023a
विव्याध भूयः सप्तत्या शराणां नतपर्वणाम् 023c
अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष 024a
हयांश्च चतुरः सङ्ख्ये प्रेषयामास मृत्यवे 024c
विरथं सात्यकिं कृत्वा मद्रराजो महाबलः 025a
विशिखानां शतेनैनमाजघान समन्ततः 025c
माद्रीपुत्रौ तु संरब्धौ भीमसेनं च पाण्डवम् 026a
युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः 026c
तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम् 027a
यदेनं सहिताः पार्था नाभ्यवर्तन्त संयुगे 027c
अथान्यं रथमास्थाय सात्यकिः सत्यविक्रमः 028a
पीडितान्पाण्डवान्दृष्ट्वा मद्रराजवशं गतान् 028c
अभिदुद्राव वेगेन मद्राणामधिपं बली 028e
आपतन्तं रथं तस्य शल्यः समितिशोभनः 029a
प्रत्युद्ययौ रथेनैव मत्तो मत्तमिव द्विपम् 029c
स सन्निपातस्तुमुलो बभूवाद्भुतदर्शनः 030a
सात्यकेश्चैव शूरस्य मद्राणामधिपस्य च 030c
यादृशो वै पुरा वृत्तः शम्बरामरराजयोः 030e
सात्यकिः प्रेक्ष्य समरे मद्रराजं व्यवस्थितम् 031a
विव्याध दशभिर्बाणैस्तिष्ठ तिष्ठेति चाब्रवीत् 031c
मद्रराजस्तु सुभृशं विद्धस्तेन महात्मना 032a
सात्यकिं प्रतिविव्याध चित्रपुङ्खैः शितैः शरैः 032c
ततः पार्था महेष्वासाः सात्वताभिसृतं नृपम् 033a
अभ्यद्रवन्रथैस्तूर्णं मातुलं वधकाम्यया 033c
तत आसीत्परामर्दस्तुमुलः शोणितोदकः 034a
शूराणां युध्यमानानां सिंहानामिव नर्दताम् 034c
तेषामासीन्महाराज व्यतिक्षेपः परस्परम् 035a
सिंहानामामिषेप्सूनां कूजतामिव संयुगे 035c
तेषां बाणसहस्रौघैराकीर्णा वसुधाभवत् 036a
अन्तरिक्षं च सहसा बाणभूतमभूत्तदा 036c
शरान्धकारं बहुधा कृतं तत्र समन्ततः 037a
अभ्रच्छायेव सञ्जज्ञे शरैर्मुक्तैर्महात्मभिः 037c
तत्र राजञ्शरैर्मुक्तैर्निर्मुक्तैरिव पन्नगैः 038a
स्वर्णपुङ्खैः प्रकाशद्भिर्व्यरोचन्त दिशस्तथा 038c
तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः 039a
यदेकः समरे शूरो योधयामास वै बहून् 039c
मद्रराजभुजोत्सृष्टैः कङ्कबर्हिणवाजितैः 040a
सम्पतद्भिः शरैर्घोरैरवाकीर्यत मेदिनी 040c
तत्र शल्यरथं राजन्विचरन्तं महाहवे 041a
अपश्याम यथा पूर्वं शक्रस्यासुरसङ्क्षये 041c