सञ्जय उवाच 001
अर्जुनो द्रौणिना विद्धो युद्धे बहुभिरायसैः 001a
तस्य चानुचरैः शूरैस्त्रिगर्तानां महारथैः 001c
द्रौणिं विव्याध समरे त्रिभिरेव शिलीमुखैः 001e
तथेतरान्महेष्वासान्द्वाभ्यां द्वाभ्यां धनञ्जयः 002a
भूयश्चैव महाबाहुः शरवर्षैरवाकिरत् 002c
शरकण्टकितास्ते तु तावका भरतर्षभ 003a
न जहुः समरे पार्थं वध्यमानाः शितैः शरैः 003c
तेऽर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः 004a
अयोधयन्त समरे परिवार्य महारथाः 004c
तैस्तु क्षिप्ताः शरा राजन्कार्तस्वरविभूषिताः 005a
अर्जुनस्य रथोपस्थं पूरयामासुरञ्जसा 005c
तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम् 006a
शरैर्वीक्ष्य वितुन्नाङ्गौ प्रहृष्टौ युद्धदुर्मदौ 006c
कूबरं रथचक्राणि ईषा योक्त्राणि चाभिभो 007a
युगं चैवानुकर्षं च शरभूतमभूत्तदा 007c
नैतादृशं दृष्टपूर्वं राजन्नैव च नः श्रुतम् 008a
यादृशं तत्र पार्थस्य तावकाः सम्प्रचक्रिरे 008c
स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैः 009a
उल्काशतैः सम्प्रदीप्तं विमानमिव भूतले 009c
ततोऽर्जुनो महाराज शरैः सन्नतपर्वभिः 010a
अवाकिरत्तां पृतनां मेघो वृष्ट्या यथाचलम् 010c
ते वध्यमानाः समरे पार्थनामाङ्कितैः शरैः 011a
पार्थभूतममन्यन्त प्रेक्षमाणास्तथाविधम् 011c
ततोऽद्भुतशरज्वालो धनुःशब्दानिलो महान् 012a
सेनेन्धनं ददाहाशु तावकं पार्थपावकः 012c
चक्राणां पततां चैव युगानां च धरातले 013a
तूणीराणां पताकानां ध्वजानां च रथैः सह 013c
ईषाणामनुकर्षाणां त्रिवेणूनां च भारत 014a
अक्षाणामथ योक्त्राणां प्रतोदानां च सर्वशः 014c
शिरसां पततां चैव कुण्डलोष्णीषधारिणाम् 015a
भुजानां च महाराज स्कन्धानां च समन्ततः 015c
छत्राणां व्यजनैः सार्धं मुकुटानां च राशयः 016a
समदृश्यन्त पार्थस्य रथमार्गेषु भारत 016c
अगम्यरूपा पृथिवी मांसशोणितकर्दमा 017a
बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा 017c
भीरूणां त्रासजननी शूराणां हर्षवर्धनी 017e
हत्वा तु समरे पार्थः सहस्रे द्वे परन्तप 018a
रथानां सवरूथानां विधूमोऽग्निरिव ज्वलन् 018c
यथा हि भगवानग्निर्जगद्दग्ध्वा चराचरम् 019a
विधूमो दृश्यते राजंस्तथा पार्थो महारथः 019c
द्रौणिस्तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम् 020a
रथेनातिपताकेन पाण्डवं प्रत्यवारयत् 020c
तावुभौ पुरुषव्याघ्रौ श्वेताश्वौ धन्विनां वरौ 021a
समीयतुस्तदा तूर्णं परस्परवधैषिणौ 021c
तयोरासीन्महाराज बाणवर्षं सुदारुणम् 022a
जीमूतानां यथा वृष्टिस्तपान्ते भरतर्षभ 022c
अन्योन्यस्पर्धिनौ तौ तु शरैः सन्नतपर्वभिः 023a
ततक्षतुर्मृधेऽन्योन्यं शृङ्गाभ्यां वृषभाविव 023c
तयोर्युद्धं महाराज चिरं सममिवाभवत् 024a
अस्त्राणां सङ्गमश्चैव घोरस्तत्राभवन्महान् 024c
ततोऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैः 025a
वासुदेवं च दशभिर्द्रौणिर्विव्याध भारत 025c
ततः प्रहस्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः 026a
मानयित्वा मुहूर्तं च गुरुपुत्रं महाहवे 026c
व्यश्वसूतरथं चक्रे सव्यसाची महारथः 027a
मृदुपूर्वं ततश्चैनं त्रिभिर्विव्याध सायकैः 027c
हताश्वे तु रथे तिष्ठन्द्रोणपुत्रस्त्वयस्मयम् 028a
मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम् 028c
तमापतन्तं सहसा हेमपट्टविभूषितम् 029a
चिच्छेद सप्तधा वीरः पार्थः शत्रुनिबर्हणः 029c
स च्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः 030a
आददे परिघं घोरं नगेन्द्रशिखरोपमम् 030c
चिक्षेप चैव पार्थाय द्रौणिर्युद्धविशारदः 030e
तमन्तकमिव क्रुद्धं परिघं प्रेक्ष्य पाण्डवः 031a
अर्जुनस्त्वरितो जघ्ने पञ्चभिः सायकोत्तमैः 031c
स च्छिन्नः पतितो भूमौ पार्थबाणैर्महाहवे 032a
दारयन्पृथिवीन्द्राणां मनः शब्देन भारत 032c
ततोऽपरैस्त्रिभिर्बाणैर्द्रौणिं विव्याध पाण्डवः 033a
सोऽतिविद्धो बलवता पार्थेन सुमहाबलः 033c
न सम्भ्रान्तस्तदा द्रौणिः पौरुषे स्वे व्यवस्थितः 033e
सुधर्मा तु ततो राजन्भारद्वाजं महारथम् 034a
अवाकिरच्छरव्रातैः सर्वक्षत्रस्य पश्यतः 034c
ततस्तु सुरथोऽप्याजौ पाञ्चालानां महारथः 035a
रथेन मेघघोषेण द्रौणिमेवाभ्यधावत 035c
विकर्षन्वै धनुः श्रेष्ठं सर्वभारसहं दृढम् 036a
ज्वलनाशीविषनिभैः शरैश्चैनमवाकिरत् 036c
सुरथं तु ततः क्रुद्धमापतन्तं महारथम् 037a
चुकोप समरे द्रौणिर्दण्डाहत इवोरगः 037c
त्रिशिखां भ्रुकुटीं कृत्वा सृक्किणी परिलेलिहन् 038a
उद्वीक्ष्य सुरथं रोषाद्धनुर्ज्यामवमृज्य च 038c
मुमोच तीक्ष्णं नाराचं यमदण्डसमद्युतिम् 038e
स तस्य हृदयं भित्त्वा प्रविवेशातिवेगतः 039a
शक्राशनिरिवोत्सृष्टा विदार्य धरणीतलम् 039c
ततस्तं पतितं भूमौ नाराचेन समाहतम् 040a
वज्रेणेव यथा शृङ्गं पर्वतस्य महाधनम् 040c
तस्मिंस्तु निहते वीरे द्रोणपुत्रः प्रतापवान् 041a
आरुरोह रथं तूर्णं तमेव रथिनां वरः 041c
ततः सज्जो महाराज द्रौणिराहवदुर्मदः 042a
अर्जुनं योधयामास संशप्तकवृतो रणे 042c
तत्र युद्धं महच्चासीदर्जुनस्य परैः सह 043a
मध्यन्दिनगते सूर्ये यमराष्ट्रविवर्धनम् 043c
तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम् 044a
यदेको युगपद्वीरान्समयोधयदर्जुनः 044c
विमर्दस्तु महानासीदर्जुनस्य परैः सह 045a
शतक्रतोर्यथा पूर्वं महत्या दैत्यसेनया 045c