सञ्जय उवाच 001
पीडिते धर्मराजे तु मद्रराजेन मारिष 001a
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ 001c
परिवार्य रथैः शल्यं पीडयामासुराहवे 001e
तमेकं बहुभिर्दृष्ट्वा पीड्यमानं महारथैः 002a
साधुवादो महाञ्जज्ञे सिद्धाश्चासन्प्रहर्षिताः 002c
आश्चर्यमित्यभाषन्त मुनयश्चापि सङ्गताः 002e
भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे 003a
एकेन विद्ध्वा बाणेन पुनर्विव्याध सप्तभिः 003c
सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सया 004a
मद्रेश्वरमवाकीर्य सिंहनादमथानदत् 004c
नकुलः पञ्चभिश्चैनं सहदेवश्च सप्तभिः 005a
विद्ध्वा तं तु ततस्तूर्णं पुनर्विव्याध सप्तभिः 005c
स तु शूरो रणे यत्तः पीडितस्तैर्महारथैः 006a
विकृष्य कार्मुकं घोरं वेगघ्नं भारसाधनम् 006c
सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष 007a
भीमसेनं त्रिसप्तत्या नकुलं सप्तभिस्तथा 007c
ततः सविशिखं चापं सहदेवस्य धन्विनः 008a
छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः 008c
सहदेवस्तु समरे मातुलं भूरिवर्चसम् 009a
सज्यमन्यद्धनुः कृत्वा पञ्चभिः समताडयत् 009c
शरैराशीविषाकारैर्ज्वलज्ज्वलनसन्निभैः 009e
सारथिं चास्य समरे शरेणानतपर्वणा 010a
विव्याध भृशसङ्क्रुद्धस्तं च भूयस्त्रिभिः शरैः 010c
भीमसेनस्त्रिसप्तत्या सात्यकिर्नवभिः शरैः 011a
धर्मराजस्तथा षष्ट्या गात्रे शल्यं समर्पयत् 011c
ततः शल्यो महाराज निर्विद्धस्तैर्महारथैः 012a
सुस्राव रुधिरं गात्रैर्गैरिकं पर्वतो यथा 012c
तांश्च सर्वान्महेष्वासान्पञ्चभिः पञ्चभिः शरैः 013a
विव्याध तरसा राजंस्तदद्भुतमिवाभवत् 013c
ततोऽपरेण भल्लेन धर्मपुत्रस्य मारिष 014a
धनुश्चिच्छेद समरे सज्यं स सुमहारथः 014c
अथान्यद्धनुरादाय धर्मपुत्रो महारथः 015a
साश्वसूतध्वजरथं शल्यं प्राच्छादयच्छरैः 015c
स च्छाद्यमानः समरे धर्मपुत्रस्य सायकैः 016a
युधिष्ठिरमथाविध्यद्दशभिर्निशितैः शरैः 016c
सात्यकिस्तु ततः क्रुद्धो धर्मपुत्रे शरार्दिते 017a
मद्राणामधिपं शूरं शरौघैः समवारयत् 017c
स सात्यकेः प्रचिच्छेद क्षुरप्रेण महद्धनुः 018a
भीमसेनमुखांस्तांश्च त्रिभिस्त्रिभिरताडयत् 018c
तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः 019a
तोमरं प्रेषयामास स्वर्णदण्डं महाधनम् 019c
भीमसेनोऽथ नाराचं ज्वलन्तमिव पन्नगम् 020a
नकुलः समरे शक्तिं सहदेवो गदां शुभाम् 020c
धर्मराजः शतघ्नीं तु जिघांसुः शल्यमाहवे 020e
तानापतत एवाशु पञ्चानां वै भुजच्युतान् 021a
सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम् 021c
भीमेन प्रहितं चापि शरं कनकभूषणम् 022a
द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान् 022c
नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम् 023a
गदां च सहदेवेन शरौघैः समवारयत् 023c
शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारत 024a
पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च 024c
नामृष्यत्तं तु शैनेयः शत्रोर्विजयमाहवे 024e
अथान्यद्धनुरादाय सात्यकिः क्रोधमूर्छितः 025a
द्वाभ्यां मद्रेश्वरं विद्ध्वा सारथिं च त्रिभिः शरैः 025c
ततः शल्यो महाराज सर्वांस्तान्दशभिः शरैः 026a
विव्याध सुभृशं क्रुद्धस्तोत्त्रैरिव महाद्विपान् 026c
ते वार्यमाणाः समरे मद्रराज्ञा महारथाः 027a
न शेकुः प्रमुखे स्थातुं तस्य शत्रुनिषूदनाः 027c
ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम् 028a
निहतान्पाण्डवान्मेने पाञ्चालानथ सृञ्जयान् 028c
ततो राजन्महाबाहुर्भीमसेनः प्रतापवान् 029a
सन्त्यज्य मनसा प्राणान्मद्राधिपमयोधयत् 029c
नकुलः सहदेवश्च सात्यकिश्च महारथः 030a
परिवार्य तदा शल्यं समन्ताद्व्यकिरञ्शरैः 030c
स चतुर्भिर्महेष्वासैः पाण्डवानां महारथैः 031a
वृतस्तान्योधयामास मद्रराजः प्रतापवान् 031c
तस्य धर्मसुतो राजन्क्षुरप्रेण महाहवे 032a
चक्ररक्षं जघानाशु मद्रराजस्य पार्थिव 032c
तस्मिंस्तु निहते शूरे चक्ररक्षे महारथे 033a
मद्रराजोऽतिबलवान्सैनिकानास्तृणोच्छरैः 033c
समाच्छन्नांस्ततस्तांस्तु राजन्वीक्ष्य स सैनिकान् 034a
चिन्तयामास समरे धर्मराजो युधिष्ठिरः 034c
कथं नु न भवेत्सत्यं तन्माधववचो महत् 035a
न हि क्रुद्धो रणे राजा क्षपयेत बलं मम 035c
ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज 036a
मद्रेश्वरं समासेदुः पीडयन्तः समन्ततः 036c
नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुत्थिताम् 037a
व्यधमत्समरे राजन्महाभ्राणीव मारुतः 037c
ततः कनकपुङ्खां तां शल्यक्षिप्तां वियद्गताम् 038a
शरवृष्टिमपश्याम शलभानामिवाततिम् 038c
ते शरा मद्रराजेन प्रेषिता रणमूर्धनि 039a
सम्पतन्तः स्म दृश्यन्ते शलभानां व्रजा इव 039c
मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैः 040a
निरन्तरमिवाकाशं सम्बभूव जनाधिप 040c
न पाण्डवानां नास्माकं तत्र कश्चिद्व्यदृश्यत 041a
बाणान्धकारे महति कृते तत्र महाभये 041c
मद्रराजेन बलिना लाघवाच्छरवृष्टिभिः 042a
लोड्यमानं तथा दृष्ट्वा पाण्डवानां बलार्णवम् 042c
विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः 042e
स तु तान्सर्वतो यत्ताञ्शरैः सम्पीड्य मारिष 043a
धर्मराजमवच्छाद्य सिंहवद्व्यनदन्मुहुः 043c
ते छन्नाः समरे तेन पाण्डवानां महारथाः 044a
न शेकुस्तं तदा युद्धे प्रत्युद्यातुं महारथम् 044c
धर्मराजपुरोगास्तु भीमसेनमुखा रथाः 045a
न जहुः समरे शूरं शल्यमाहवशोभिनम् 045c