सञ्जय उवाच 001
पतितं प्रेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम् 001a
आदाय तरसा राजंस्तस्थौ गिरिरिवाचलः 001c
तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम् 002a
सशृङ्गमिव कैलासं सवज्रमिव वासवम् 002c
सशूलमिव हर्यक्षं वने मत्तमिव द्विपम् 003a
जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् 003c
ततः शङ्खप्रणादश्च तूर्याणां च सहस्रशः 004a
सिंहनादश्च सञ्जज्ञे शूराणां हर्षवर्धनः 004c
प्रेक्षन्तः सर्वतस्तौ हि योधा योधमहाद्विपौ 005a
तावकाश्च परे चैव साधु साध्वित्यथाब्रुवन् 005c
न हि मद्राधिपादन्यो रामाद्वा यदुनन्दनात् 006a
सोढुमुत्सहते वेगं भीमसेनस्य संयुगे 006c
तथा मद्राधिपस्यापि गदावेगं महात्मनः 007a
सोढुमुत्सहते नान्यो योधो युधि वृकोदरात् 007c
तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः 008a
आवल्गितौ गदाहस्तौ मद्रराजवृकोदरौ 008c
मण्डलावर्तमार्गेषु गदाविहरणेषु च 009a
निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः 009c
तप्तहेममयैः शुभ्रैर्बभूव भयवर्धनी 010a
अग्निज्वालैरिवाविद्धा पट्टैः शल्यस्य सा गदा 010c
तथैव चरतो मार्गान्मण्डलेषु महात्मनः 011a
विद्युदभ्रप्रतीकाशा भीमस्य शुशुभे गदा 011c
ताडिता मद्रराजेन भीमस्य गदया गदा 012a
दीप्यमानेव वै राजन्ससृजे पावकार्चिषः 012c
तथा भीमेन शल्यस्य ताडिता गदया गदा 013a
अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत् 013c
दन्तैरिव महानागौ शृङ्गैरिव महर्षभौ 014a
तोत्त्रैरिव तदान्योन्यं गदाग्राभ्यां निजघ्नतुः 014c
तौ गदानिहतैर्गात्रैः क्षणेन रुधिरोक्षितौ 015a
प्रेक्षणीयतरावास्तां पुष्पिताविव किंशुकौ 015c
गदया मद्रराजेन सव्यदक्षिणमाहतः 016a
भीमसेनो महाबाहुर्न चचालाचलो यथा 016c
तथा भीमगदावेगैस्ताड्यमानो मुहुर्मुहुः 017a
शल्यो न विव्यथे राजन्दन्तिनेवाहतो गिरिः 017c
शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः 018a
गदानिपातसंह्रादो वज्रयोरिव निस्वनः 018c
निवृत्य तु महावीर्यौ समुच्छ्रितगदावुभौ 019a
पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः 019c
अथाभ्येत्य पदान्यष्टौ सन्निपातोऽभवत्तयोः 020a
उद्यम्य लोहदण्डाभ्यामतिमानुषकर्मणोः 020c
प्रार्थयानौ तदान्योऽन्यं मण्डलानि विचेरतुः 021a
क्रियाविशेषं कृतिनौ दर्शयामासतुस्तदा 021c
अथोद्यम्य गदे घोरे सशृङ्गाविव पर्वतौ 022a
तावाजघ्नतुरन्योन्यं यथा भूमिचलेऽचलौ 022c
तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ 023a
युगपत्पेततुर्वीरावुभाविन्द्रध्वजाविव 023c
उभयोः सेनयोर्वीरास्तदा हाहाकृतोऽभवन् 024a
भृशं मर्मण्यभिहतावुभावास्तां सुविह्वलौ 024c
ततः सगदमारोप्य मद्राणामृषभं रथे 025a
अपोवाह कृपः शल्यं तूर्णमायोधनादपि 025c
क्षीबवद्विह्वलत्वात्तु निमेषात्पुनरुत्थितः 026a
भीमसेनो गदापाणिः समाह्वयत मद्रपम् 026c
ततस्तु तावकाः शूरा नानाशस्त्रसमायुताः 027a
नानावादित्रशब्देन पाण्डुसेनामयोधयन् 027c
भुजावुच्छ्रित्य शस्त्रं च शब्देन महता ततः 028a
अभ्यद्रवन्महाराज दुर्योधनपुरोगमाः 028c
तदनीकमभिप्रेक्ष्य ततस्ते पाण्डुनन्दनाः 029a
प्रययुः सिंहनादेन दुर्योधनवधेप्सया 029c
तेषामापततां तूर्णं पुत्रस्ते भरतर्षभ 030a
प्रासेन चेकितानं वै विव्याध हृदये भृशम् 030c
स पपात रथोपस्थे तव पुत्रेण ताडितः 031a
रुधिरौघपरिक्लिन्नः प्रविश्य विपुलं तमः 031c
चेकितानं हतं दृष्ट्वा पाण्डवानां महारथाः 032a
प्रसक्तमभ्यवर्षन्त शरवर्षाणि भागशः 032c
तावकानामनीकेषु पाण्डवा जितकाशिनः 033a
व्यचरन्त महाराज प्रेक्षणीयाः समन्ततः 033c
कृपश्च कृतवर्मा च सौबलश्च महाबलः 034a
अयोधयन्धर्मराजं मद्रराजपुरस्कृताः 034c
भारद्वाजस्य हन्तारं भूरिवीर्यपराक्रमम् 035a
दुर्योधनो महाराज धृष्टद्युम्नमयोधयत् 035c
त्रिसाहस्रा रथा राजंस्तव पुत्रेण चोदिताः 036a
अयोधयन्त विजयं द्रोणपुत्रपुरस्कृताः 036c
विजये धृतसङ्कल्पाः समभित्यक्तजीविताः 037a
प्राविशंस्तावका राजन्हंसा इव महत्सरः 037c
ततो युद्धमभूद्घोरं परस्परवधैषिणाम् 038a
अन्योन्यवधसंयुक्तमन्योन्यप्रीतिवर्धनम् 038c
तस्मिन्प्रवृत्ते सङ्ग्रामे राजन्वीरवरक्षये 039a
अनिलेनेरितं घोरमुत्तस्थौ पार्थिवं रजः 039c
श्रवणान्नामधेयानां पाण्डवानां च कीर्तनात् 040a
परस्परं विजानीमो ये चायुध्यन्नभीतवत् 040c
तद्रजः पुरुषव्याघ्र शोणितेन प्रशामितम् 041a
दिशश्च विमला जज्ञुस्तस्मिन्रजसि शामिते 041c
तथा प्रवृत्ते सङ्ग्रामे घोररूपे भयानके 042a
तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः 042c
ब्रह्मलोकपरा भूत्वा प्रार्थयन्तो जयं युधि 043a
सुयुद्धेन पराक्रान्ता नराः स्वर्गमभीप्सवः 043c
भर्तृपिण्डविमोक्षार्थं भर्तृकार्यविनिश्चिताः 044a
स्वर्गसंसक्तमनसो योधा युयुधिरे तदा 044c
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः 045a
अन्योन्यमभिगर्जन्तः प्रहरन्तः परस्परम् 045c
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत 046a
इति स्म वाचः श्रूयन्ते तव तेषां च वै बले 046c
ततः शल्यो महाराज धर्मराजं युधिष्ठिरम् 047a
विव्याध निशितैर्बाणैर्हन्तुकामो महारथम् 047c
तस्य पार्थो महाराज नाराचान्वै चतुर्दश 048a
मर्माण्युद्दिश्य मर्मज्ञो निचखान हसन्निव 048c
तं वार्य पाण्डवं बाणैर्हन्तुकामो महायशाः 049a
विव्याध समरे क्रुद्धो बहुभिः कङ्कपत्रिभिः 049c
अथ भूयो महाराज शरेण नतपर्वणा 050a
युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः 050c
धर्मराजोऽपि सङ्क्रुद्धो मद्रराजं महायशाः 051a
विव्याध निशितैर्बाणैः कङ्कबर्हिणवाजितैः 051c
चन्द्रसेनं च सप्तत्या सूतं च नवभिः शरैः 052a
द्रुमसेनं चतुःषष्ट्या निजघान महारथः 052c
चक्ररक्षे हते शल्यः पाण्डवेन महात्मना 053a
निजघान ततो राजंश्चेदीन्वै पञ्चविंशतिम् 053c
सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः 054a
माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः 054c
एवं विचरतस्तस्य सङ्ग्रामे राजसत्तम 055a
सम्प्रेषयच्छितान्पार्थः शरानाशीविषोपमान् 055c
ध्वजाग्रं चास्य समरे कुन्तीपुत्रो युधिष्ठिरः 056a
प्रमुखे वर्तमानस्य भल्लेनापहरद्रथात् 056c
पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना 057a
निपतन्तमपश्याम गिरिशृङ्गमिवाहतम् 057c
ध्वजं निपतितं दृष्ट्वा पाण्डवं च व्यवस्थितम् 058a
सङ्क्रुद्धो मद्रराजोऽभूच्छरवर्षं मुमोच ह 058c
शल्यः सायकवर्षेण पर्जन्य इव वृष्टिमान् 059a
अभ्यवर्षदमेयात्मा क्षत्रियं क्षत्रियर्षभः 059c
सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ 060a
एकैकं पञ्चभिर्विद्ध्वा युधिष्ठिरमपीडयत् 060c
ततो बाणमयं जालं विततं पाण्डवोरसि 061a
अपश्याम महाराज मेघजालमिवोद्गतम् 061c
तस्य शल्यो रणे क्रुद्धो बाणैः सन्नतपर्वभिः 062a
दिशः प्रच्छादयामास प्रदिशश्च महारथः 062c
ततो युधिष्ठिरो राजा बाणजालेन पीडितः 063a
बभूव हृतविक्रान्तो जम्भो वृत्रहणा यथा 063c