सञ्जय उवाच 001
तस्मिन्विलुलिते सैन्ये वध्यमाने परस्परम् 001a
द्रवमाणेषु योधेषु निनदत्सु च दन्तिषु 001c
कूजतां स्तनतां चैव पदातीनां महाहवे 002a
विद्रुतेषु महाराज हयेषु बहुधा तदा 002c
प्रक्षये दारुणे जाते संहारे सर्वदेहिनाम् 003a
नानाशस्त्रसमावापे व्यतिषक्तरथद्विपे 003c
हर्षणे युद्धशौण्डानां भीरूणां भयवर्धने 004a
गाहमानेषु योधेषु परस्परवधैषिषु 004c
प्राणादाने महाघोरे वर्तमाने दुरोदरे 005a
सङ्ग्रामे घोररूपे तु यमराष्ट्रविवर्धने 005c
पाण्डवास्तावकं सैन्यं व्यधमन्निशितैः शरैः 006a
तथैव तावका योधा जघ्नुः पाण्डवसैनिकान् 006c
तस्मिंस्तथा वर्तमाने युद्धे भीरुभयावहे 007a
पूर्वाह्णे चैव सम्प्राप्ते भास्करोदयनं प्रति 007c
लब्धलक्षाः परे राजन्रक्षिताश्च महात्मना 008a
अयोधयंस्तव बलं मृत्युं कृत्वा निवर्तनम् 008c
बलिभिः पाण्डवैर्दृप्तैर्लब्धलक्षैः प्रहारिभिः 009a
कौरव्यसीदत्पृतना मृगीवाग्निसमाकुला 009c
तां दृष्ट्वा सीदतीं सेनां पङ्के गामिव दुर्बलाम् 010a
उज्जिहीर्षुस्तदा शल्यः प्रायात्पाण्डुचमूं प्रति 010c
मद्रराजस्तु सङ्क्रुद्धो गृहीत्वा धनुरुत्तमम् 011a
अभ्यद्रवत सङ्ग्रामे पाण्डवानाततायिनः 011c
पाण्डवाश्च महाराज समरे जितकाशिनः 012a
मद्रराजं समासाद्य विव्यधुर्निशितैः शरैः 012c
ततः शरशतैस्तीक्ष्णैर्मद्रराजो महाबलः 013a
अर्दयामास तां सेनां धर्मराजस्य पश्यतः 013c
प्रादुरासंस्ततो राजन्नानारूपाण्यनेकशः 014a
चचाल शब्दं कुर्वाणा मही चापि सपर्वता 014c
सदण्डशूला दीप्ताग्राः शीर्यमाणाः समन्ततः 015a
उल्का भूमिं दिवः पेतुराहत्य रविमण्डलम् 015c
मृगाश्च माहिषाश्चापि पक्षिणश्च विशां पते 016a
अपसव्यं तदा चक्रुः सेनां ते बहुशो नृप 016c
ततस्तद्युद्धमत्युग्रमभवत्सङ्घचारिणाम् 017a
तथा सर्वाण्यनीकानि सन्निपत्य जनाधिप 017c
अभ्ययुः कौरवा राजन्पाण्डवानामनीकिनीम् 017e
शल्यस्तु शरवर्षेण वर्षन्निव सहस्रदृक् 018a
अभ्यवर्षददीनात्मा कुन्तीपुत्रं युधिष्ठिरम् 018c
भीमसेनं शरैश्चापि रुक्मपुङ्खैः शिलाशितः 019a
द्रौपदेयांस्तथा सर्वान्माद्रीपुत्रौ च पाण्डवौ 019c
धृष्टद्युम्नं च शैनेयं शिखण्डिनमथापि च 020a
एकैकं दशभिर्बाणैर्विव्याध च महाबलः 020c
ततोऽसृजद्बाणवर्षं घर्मान्ते मघवानिव 020e
ततः प्रभद्रका राजन्सोमकाश्च सहस्रशः 021a
पतिताः पात्यमानाश्च दृश्यन्ते शल्यसायकैः 021c
भ्रमराणामिव व्राताः शलभानामिव व्रजाः 022a
ह्रादिन्य इव मेघेभ्यः शल्यस्य न्यपतञ्शराः 022c
द्विरदास्तुरगाश्चार्ताः पत्तयो रथिनस्तथा 023a
शल्यस्य बाणैर्न्यपतन्बभ्रमुर्व्यनदंस्तथा 023c
आविष्ट इव मद्रेशो मन्युना पौरुषेण च 024a
प्राच्छादयदरीन्सङ्ख्ये कालसृष्ट इवान्तकः 024c
विनर्दमानो मद्रेशो मेघह्रादो महाबलः 024e
सा वध्यमाना शल्येन पाण्डवानामनीकिनी 025a
अजातशत्रुं कौन्तेयमभ्यधावद्युधिष्ठिरम् 025c
तां समर्प्य ततः सङ्ख्ये लघुहस्तः शितैः शरैः 026a
शरवर्षेण महता युधिष्ठिरमपीडयत् 026c
तमापतन्तं पत्त्यश्वैः क्रुद्धो राजा युधिष्ठिरः 027a
अवारयच्छरैस्तीक्ष्णैर्मत्तं द्विपमिवाङ्कुशैः 027c
तस्य शल्यः शरं घोरं मुमोचाशीविषोपमम् 028a
सोऽभ्यविध्यन्महात्मानं वेगेनाभ्यपतच्च गाम् 028c
ततो वृकोदरः क्रुद्धः शल्यं विव्याध सप्तभिः 029a
पञ्चभिः सहदेवस्तु नकुलो दशभिः शरैः 029c
द्रौपदेयाश्च शत्रुघ्नं शूरमार्तायनिं शरैः 030a
अभ्यवर्षन्महाभागं मेघा इव महीधरम् 030c
ततो दृष्ट्वा तुद्यमानं शल्यं पार्थैः समन्ततः 031a
कृतवर्मा कृपश्चैव सङ्क्रुद्धावभ्यधावताम् 031c
उलूकश्च पतत्री च शकुनिश्चापि सौबलः 032a
स्मयमानश्च शनकैरश्वत्थामा महारथः 032c
तव पुत्राश्च कार्त्स्न्येन जुगुपुः शल्यमाहवे 032e
भीमसेनं त्रिभिर्विद्ध्वा कृतवर्मा शिलीमुखैः 033a
बाणवर्षेण महता क्रुद्धरूपमवारयत् 033c
धृष्टद्युम्नं कृपः क्रुद्धो बाणवर्षैरपीडयत् 034a
द्रौपदेयांश्च शकुनिर्यमौ च द्रौणिरभ्ययात् 034c
दुर्योधनो युधां श्रेष्ठावाहवे केशवार्जुनौ 035a
समभ्ययादुग्रतेजाः शरैश्चाभ्यहनद्बली 035c
एवं द्वन्द्वशतान्यासंस्त्वदीयानां परैः सह 036a
घोररूपाणि चित्राणि तत्र तत्र विशां पते 036c
ऋश्यवर्णाञ्जघानाश्वान्भोजो भीमस्य संयुगे 037a
सोऽवतीर्य रथोपस्थाद्धताश्वः पाण्डुनन्दनः 037c
कालो दण्डमिवोद्यम्य गदापाणिरयुध्यत 037e
प्रमुखे सहदेवस्य जघानाश्वांश्च मद्रराट् 038a
ततः शल्यस्य तनयं सहदेवोऽसिनावधीत् 038c
गौतमः पुनराचार्यो धृष्टद्युम्नमयोधयत् 039a
असम्भ्रान्तमसम्भ्रान्तो यत्नवान्यत्नवत्तरम् 039c
द्रौपदेयांस्तथा वीरानेकैकं दशभिः शरैः 040a
अविध्यदाचार्यसुतो नातिक्रुद्धः स्मयन्निव 040c
शल्योऽपि राजन्सङ्क्रुद्धो निघ्नन्सोमकपाण्डवान् 041a
पुनरेव शितैर्बाणैर्युधिष्ठिरमपीडयत् 041c
तस्य भीमो रणे क्रुद्धः सन्दष्टदशनच्छदः 042a
विनाशायाभिसन्धाय गदामादत्त वीर्यवान् 042c
यमदण्डप्रतीकाशां कालरात्रिमिवोद्यताम् 043a
गजवाजिमनुष्याणां प्राणान्तकरणीमपि 043c
हेमपट्टपरिक्षिप्तामुल्कां प्रज्वलितामिव 044a
शैक्यां व्यालीमिवात्युग्रां वज्रकल्पामयस्मयीम् 044c
चन्दनागुरुपङ्काक्तां प्रमदामीप्सितामिव 045a
वसामेदोसृगादिग्धां जिह्वां वैवस्वतीमिव 045c
पटुघण्टारवशतां वासवीमशनीमिव 046a
निर्मुक्ताशीविषाकारां पृक्तां गजमदैरपि 046c
त्रासनीं रिपुसैन्यानां स्वसैन्यपरिहर्षिणीम् 047a
मनुष्यलोके विख्यातां गिरिशृङ्गविदारिणीम् 047c
यया कैलासभवने महेश्वरसखं बली 048a
आह्वयामास कौन्तेयः सङ्क्रुद्धमलकाधिपम् 048c
यया मायाविनो दृप्तान्सुबहून्धनदालये 049a
जघान गुह्यकान्क्रुद्धो मन्दारार्थे महाबलः 049c
निवार्यमाणो बहुभिर्द्रौपद्याः प्रियमास्थितः 049e
तां वज्रमणिरत्नौघामष्टाश्रिं वज्रगौरवाम् 050a
समुद्यम्य महाबाहुः शल्यमभ्यद्रवद्रणे 050c
गदया युद्धकुशलस्तया दारुणनादया 051a
पोथयामास शल्यस्य चतुरोऽश्वान्महाजवान् 051c
ततः शल्यो रणे क्रुद्धः पीने वक्षसि तोमरम् 052a
निचखान नदन्वीरो वर्म भित्त्वा च सोऽभ्यगात् 052c
वृकोदरस्त्वसम्भ्रातस्तमेवोद्धृत्य तोमरम् 053a
यन्तारं मद्रराजस्य निर्बिभेद ततो हृदि 053c
स भिन्नवर्मा रुधिरं वमन्वित्रस्तमानसः 054a
पपाताभिमुखो दीनो मद्रराजस्त्वपाक्रमत् 054c
कृतप्रतिकृतं दृष्ट्वा शल्यो विस्मितमानसः 055a
गदामाश्रित्य धीरात्मा प्रत्यमित्रमवैक्षत 055c
ततः सुमनसः पार्था भीमसेनमपूजयन् 056a
तद्दृष्ट्वा कर्म सङ्ग्रामे घोरमक्लिष्टकर्मणः 056c