सञ्जय उवाच 001
तत्प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान् 001a
उवाच सारथिं तूर्णं चोदयाश्वान्महाजवान् 001c
एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः 002a
छत्रेण ध्रियमाणेन पाण्डुरेण विराजता 002c
अत्र मां प्रापय क्षिप्रं पश्य मे सारथे बलम् 003a
न समर्था हि मे पार्थाः स्थातुमद्य पुरो युधि 003c
एवमुक्तस्ततः प्रायान्मद्रराजस्य सारथिः 004a
यत्र राजा सत्यसन्धो धर्मराजो युधिष्ठिरः 004c
आपतन्तं च सहसा पाण्डवानां महद्बलम् 005a
दधारैको रणे शल्यो वेलेवोद्धृतमर्णवम् 005c
पाण्डवानां बलौघस्तु शल्यमासाद्य मारिष 006a
व्यतिष्ठत तदा युद्धे सिन्धोर्वेग इवाचलम् 006c
मद्रराजं तु समरे दृष्ट्वा युद्धाय विष्ठितम् 007a
कुरवः सन्न्यवर्तन्त मृत्युं कृत्वा निवर्तनम् 007c
तेषु राजन्निवृत्तेषु व्यूढानीकेषु भागशः 008a
प्रावर्तत महारौद्रः सङ्ग्रामः शोणितोदकः 008c
समार्छच्चित्रसेनेन नकुलो युद्धदुर्मदः 008e
तौ परस्परमासाद्य चित्रकार्मुकधारिणौ 009a
मेघाविव यथोद्वृत्तौ दक्षिणोत्तरवर्षिणौ 009c
शरतोयैः सिषिचतुस्तौ परस्परमाहवे 010a
नान्तरं तत्र पश्यामि पाण्डवस्येतरस्य वा 010c
उभौ कृतास्त्रौ बलिनौ रथचर्याविशारदौ 011a
परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ 011c
चित्रसेनस्तु भल्लेन पीतेन निशितेन च 012a
नकुलस्य महाराज मुष्टिदेशेऽच्छिनद्धनुः 012c
अथैनं छिन्नधन्वानं रुक्मपुङ्खैः शिलाशितैः 013a
त्रिभिः शरैरसम्भ्रान्तो ललाटे वै समर्पयत् 013c
हयांश्चास्य शरैस्तीक्ष्णैः प्रेषयामास मृत्यवे 014a
तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातयत् 014c
स शत्रुभुजनिर्मुक्तैर्ललाटस्थैस्त्रिभिः शरैः 015a
नकुलः शुशुभे राजंस्त्रिशृङ्ग इव पर्वतः 015c
स छिन्नधन्वा विरथः खड्गमादाय चर्म च 016a
रथादवातरद्वीरः शैलाग्रादिव केसरी 016c
पद्भ्यामापततस्तस्य शरवृष्टिमवासृजत् 017a
नकुलोऽप्यग्रसत्तां वै चर्मणा लघुविक्रमः 017c
चित्रसेनरथं प्राप्य चित्रयोधी जितश्रमः 018a
आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः 018c
सकुण्डलं समुकुटं सुनसं स्वायतेक्षणम् 019a
चित्रसेनशिरः कायादपाहरत पाण्डवः 019c
स पपात रथोपस्थाद्दिवाकरसमप्रभः 019e
चित्रसेनं विशस्तं तु दृष्ट्वा तत्र महारथाः 020a
साधुवादस्वनांश्चक्रुः सिंहनादांश्च पुष्कलान् 020c
विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ 021a
सुषेणः सत्यसेनश्च मुञ्चन्तौ निशिताञ्शरान् 021c
ततोऽभ्यधावतां तूर्णं पाण्डवं रथिनां वरम् 022a
जिघांसन्तौ यथा नागं व्याघ्रौ राजन्महावने 022c
तावभ्यधावतां तीक्ष्णौ द्वावप्येनं महारथम् 023a
शरौघान्सम्यगस्यन्तौ जीमूतौ सलिलं यथा 023c
स शरैः सर्वतो विद्धः प्रहृष्ट इव पाण्डवः 024a
अन्यत्कार्मुकमादाय रथमारुह्य वीर्यवान् 024c
अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः 024e
तस्य तौ भ्रातरौ राजञ्शरैः सन्नतपर्वभिः 025a
रथं विशकलीकर्तुं समारब्धौ विशां पते 025c
ततः प्रहस्य नकुलश्चतुर्भिश्चतुरो रणे 026a
जघान निशितैस्तीक्ष्णैः सत्यसेनस्य वाजिनः 026c
ततः सन्धाय नाराचं रुक्मपुङ्खं शिलाशितम् 027a
धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः 027c
अथान्यं रथमास्थाय धनुरादाय चापरम् 028a
सत्यसेनः सुषेणश्च पाण्डवं पर्यधावताम् 028c
अविध्यत्तावसम्भ्रान्तौ माद्रीपुत्रः प्रतापवान् 029a
द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि 029c
सुषेणस्तु ततः क्रुद्धः पाण्डवस्य महद्धनुः 030a
चिच्छेद प्रहसन्युद्धे क्षुरप्रेण महारथः 030c
अथान्यद्धनुरादाय नकुलः क्रोधमूर्छितः 031a
सुषेणं पञ्चभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे 031c
सत्यसेनस्य च धनुर्हस्तावापं च मारिष 032a
चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर्जनाः 032c
अथान्यद्धनुरादाय वेगघ्नं भारसाधनम् 033a
शरैः सञ्छादयामास समन्तात्पाण्डुनन्दनम् 033c
सन्निवार्य तु तान्बाणान्नकुलः परवीरहा 034a
सत्यसेनं सुषेणं च द्वाभ्यां द्वाभ्यामविध्यत 034c
तावेनं प्रत्यविध्येतां पृथक्पृथगजिह्मगैः 035a
सारथिं चास्य राजेन्द्र शरैर्विव्यधतुः शितैः 035c
सत्यसेनो रथेषां तु नकुलस्य धनुस्तथा 036a
पृथक्शराभ्यां चिच्छेद कृतहस्तः प्रतापवान् 036c
स रथेऽतिरथस्तिष्ठन्रथशक्तिं परामृशत् 037a
स्वर्णदण्डामकुण्ठाग्रां तैलधौतां सुनिर्मलाम् 037c
लेलिहानामिव विभो नागकन्यां महाविषाम् 038a
समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे 038c
सा तस्य हृदयं सङ्ख्ये बिभेद शतधा नृप 039a
स पपात रथाद्भूमौ गतसत्त्वोऽल्पचेतनः 039c
भ्रातरं निहतं दृष्ट्वा सुषेणः क्रोधमूर्छितः 040a
अभ्यवर्षच्छरैस्तूर्णं पदातिं पाण्डुनन्दनम् 040c
नकुलं विरथं दृष्ट्वा द्रौपदेयो महाबलः 041a
सुतसोमोऽभिदुद्राव परीप्सन्पितरं रणे 041c
ततोऽधिरुह्य नकुलः सुतसोमस्य तं रथम् 042a
शुशुभे भरतश्रेष्ठो गिरिस्थ इव केसरी 042c
सोऽन्यत्कार्मुकमादाय सुषेणं समयोधयत् 042e
तावुभौ शरवर्षाभ्यां समासाद्य परस्परम् 043a
परस्परवधे यत्नं चक्रतुः सुमहारथौ 043c
सुषेणस्तु ततः क्रुद्धः पाण्डवं विशिखैस्त्रिभिः 044a
सुतसोमं च विंशत्या बाह्वोरुरसि चार्पयत् 044c
ततः क्रुद्धो महाराज नकुलः परवीरहा 045a
शरैस्तस्य दिशः सर्वाश्छादयामास वीर्यवान् 045c
ततो गृहीत्वा तीक्ष्णाग्रमर्धचन्द्रं सुतेजनम् 046a
स वेगयुक्तं चिक्षेप कर्णपुत्रस्य संयुगे 046c
तस्य तेन शिरः कायाज्जहार नृपसत्तम 047a
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत् 047c
स हतः प्रापतद्राजन्नकुलेन महात्मना 048a
नदीवेगादिवारुग्णस्तीरजः पादपो महान् 048c
कर्णपुत्रवधं दृष्ट्वा नकुलस्य च विक्रमम् 049a
प्रदुद्राव भयात्सेना तावकी भरतर्षभ 049c
तां तु सेनां महाराज मद्रराजः प्रतापवान् 050a
अपालयद्रणे शूरः सेनापतिररिन्दमः 050c
विभीस्तस्थौ महाराज व्यवस्थाप्य च वाहिनीम् 051a
सिंहनादं भृशं कृत्वा धनुःशब्दं च दारुणम् 051c
तावकाः समरे राजन्रक्षिता दृढधन्वना 052a
प्रत्युद्ययुररातींस्ते समन्ताद्विगतव्यथाः 052c
मद्रराजं महेष्वासं परिवार्य समन्ततः 053a
स्थिता राजन्महासेना योद्धुकामाः समन्ततः 053c
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ 054a
युधिष्ठिरं पुरस्कृत्य ह्रीनिषेधमरिन्दमम् 054c
परिवार्य रणे वीराः सिंहनादं प्रचक्रिरे 055a
बाणशब्दरवांश्चोग्रान्क्ष्वेडांश्च विविधान्दधुः 055c
तथैव तावकाः सर्वे मद्राधिपतिमञ्जसा 056a
परिवार्य सुसंरब्धाः पुनर्युद्धमरोचयन् 056c
ततः प्रववृते युद्धं भीरूणां भयवर्धनम् 057a
तावकानां परेषां च मृत्युं कृत्वा निवर्तनम् 057c
यथा देवासुरं युद्धं पूर्वमासीद्विशां पते 058a
अभीतानां तथा राजन्यमराष्ट्रविवर्धनम् 058c
ततः कपिध्वजो राजन्हत्वा संशप्तकान्रणे 059a
अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः 059c
तथैव पाण्डवाः शेषा धृष्टद्युम्नपुरोगमाः 060a
अभ्यधावन्त तां सेनां विसृजन्तः शिताञ्शरान् 060c
पाण्डवैरवकीर्णानां सम्मोहः समजायत 061a
न च जज्ञुरनीकानि दिशो वा प्रदिशस्तथा 061c
आपूर्यमाणा निशितैः शरैः पाण्डवचोदितैः 062a
हतप्रवीरा विध्वस्ता कीर्यमाणा समन्ततः 062c
कौरव्यवध्यत चमूः पाण्डुपुत्रैर्महारथैः 062e
तथैव पाण्डवी सेना शरै राजन्समन्ततः 063a
रणेऽहन्यत पुत्रैस्ते शतशोऽथ सहस्रशः 063c
ते सेने भृशसन्तप्ते वध्यमाने परस्परम् 064a
व्याकुले समपद्येतां वर्षासु सरिताविव 064c
आविवेश ततस्तीव्रं तावकानां महद्भयम् 065a
पाण्डवानां च राजेन्द्र तथाभूते महाहवे 065c