सञ्जय उवाच 001
व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा 001a
अब्रवीत्तावकान्सर्वान्सन्नह्यन्तां महारथाः 001c
राज्ञस्तु मतमाज्ञाय समनह्यत सा चमूः 002a
अयोजयन्रथांस्तूर्णं पर्यधावंस्तथापरे 002c
अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः 003a
हयानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः 003c
वादित्राणां च निनदः प्रादुरासीद्विशां पते 004a
बोधनार्थं हि योधानां सैन्यानां चाप्युदीर्यताम् 004c
ततो बलानि सर्वाणि सेनाशिष्टानि भारत 005a
सन्नद्धान्येव ददृशुर्मृत्युं कृत्वा निवर्तनम् 005c
शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः 006a
प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः 006c
ततः सर्वे समागम्य पुत्रेण तव सैनिकाः 007a
कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः 007c
अन्ये च पार्थिवाः शेषाः समयं चक्रिरे तदा 008a
न न एकेन योद्धव्यं कथञ्चिदपि पाण्डवैः 008c
यो ह्येकः पाण्डवैर्युध्येद्यो वा युध्यन्तमुत्सृजेत् 009a
स पञ्चभिर्भवेद्युक्तः पातकैः सोपपातकैः 009c
अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च नः 009e
एवं ते समयं कृत्वा सर्वे तत्र महारथाः 010a
मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन्परान् 010c
तथैव पाण्डवा राजन्व्यूह्य सैन्यं महारणे 011a
अभ्ययुः कौरवान्सर्वान्योत्स्यमानाः समन्ततः 011c
तद्बलं भरतश्रेष्ठ क्षुब्धार्णवसमस्वनम् 012a
समुद्धूतार्णवाकारमुद्धूतरथकुञ्जरम् 012c
धृतराष्ट्र उवाच 013
द्रोणस्य भीष्मस्य च वै राधेयस्य च मे श्रुतम् 013a
पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे 013c
कथं रणे हतः शल्यो धर्मराजेन सञ्जय 014a
भीमेन च महाबाहुः पुत्रो दुर्योधनो मम 014c
सञ्जय उवाच 015
क्षयं मनुष्यदेहानां रथनागाश्वसङ्क्षयम् 015a
शृणु राजन्स्थिरो भूत्वा सङ्ग्रामं शंसतो मम 015c
आशा बलवती राजन्पुत्राणां तेऽभवत्तदा 016a
हते भीष्मे च द्रोणे च सूतपुत्रे च पातिते 016c
शल्यः पार्थान्रणे सर्वान्निहनिष्यति मारिष 016e
तामाशां हृदये कृत्वा समाश्वास्य च भारत 017a
मद्रराजं च समरे समाश्रित्य महारथम् 017c
नाथवन्तमथात्मानममन्यत सुतस्तव 017e
यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे 018a
तदा राजन्धार्तराष्ट्रानाविवेश महद्भयम् 018c
तान्समाश्वास्य तु तदा मद्रराजः प्रतापवान् 019a
व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत् 019c
प्रत्युद्यातो रणे पार्थान्मद्रराजः प्रतापवान् 020a
विधुन्वन्कार्मुकं चित्रं भारघ्नं वेगवत्तरम् 020c
रथप्रवरमास्थाय सैन्धवाश्वं महारथः 021a
तस्य सीता महाराज रथस्थाशोभयद्रथम् 021c
स तेन संवृतो वीरो रथेनामित्रकर्शनः 022a
तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत् 022c
प्रयाणे मद्रराजोऽभून्मुखं व्यूहस्य दंशितः 023a
मद्रकैः सहितो वीरैः कर्णपुत्रैश्च दुर्जयैः 023c
सव्येऽभूत्कृतवर्मा च त्रिगर्तैः परिवारितः 024a
गौतमो दक्षिणे पार्श्वे शकैश्च यवनैः सह 024c
अश्वत्थामा पृष्ठतोऽभूत्काम्बोजैः परिवारितः 025a
दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुङ्गवैः 025c
हयानीकेन महता सौबलश्चापि संवृतः 026a
प्रययौ सर्वसैन्येन कैतव्यश्च महारथः 026c
पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिन्दमाः 027a
त्रिधा भूत्वा महाराज तव सैन्यमुपाद्रवन् 027c
धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः 028a
शल्यस्य वाहिनीं तूर्णमभिदुद्रुवुराहवे 028c
ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः 029a
शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभ 029c
हार्दिक्यं तु महेष्वासमर्जुनः शत्रुपूगहा 030a
संशप्तकगणांश्चैव वेगतोऽभिविदुद्रुवे 030c
गौतमं भीमसेनो वै सोमकाश्च महारथाः 031a
अभ्यद्रवन्त राजेन्द्र जिघांसन्तः परान्युधि 031c
माद्रीपुत्रौ तु शकुनिमुलूकं च महारथौ 032a
ससैन्यौ सहसेनौ तावुपतस्थतुराहवे 032c
तथैवायुतशो योधास्तावकाः पाण्डवान्रणे 033a
अभ्यद्रवन्त सङ्क्रुद्धा विविधायुधपाणयः 033c
धृतराष्ट्र उवाच 034
हते भीष्मे महेष्वासे द्रोणे कर्णे महारथे 034a
कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संयुगे 034c
सुसंरब्धेषु पार्थेषु पराक्रान्तेषु सञ्जय 035a
मामकानां परेषां च किं शिष्टमभवद्बलम् 035c
सञ्जय उवाच 036
यथा वयं परे राजन्युद्धाय समवस्थिताः 036a
यावच्चासीद्बलं शिष्टं सङ्ग्रामे तन्निबोध मे 036c
एकादश सहस्राणि रथानां भरतर्षभ 037a
दश दन्तिसहस्राणि सप्त चैव शतानि च 037c
पूर्णे शतसहस्रे द्वे हयानां भरतर्षभ 038a
नरकोट्यस्तथा तिस्रो बलमेतत्तवाभवत् 038c
रथानां षट्सहस्राणि षट्सहस्राश्च कुञ्जराः 039a
दश चाश्वसहस्राणि पत्तिकोटी च भारत 039c
एतद्बलं पाण्डवानामभवच्छेषमाहवे 040a
एत एव समाजग्मुर्युद्धाय भरतर्षभ 040c
एवं विभज्य राजेन्द्र मद्रराजमते स्थिताः 041a
पाण्डवान्प्रत्युदीयाम जयगृद्धाः प्रमन्यवः 041c
तथैव पाण्डवाः शूराः समरे जितकाशिनः 042a
उपयाता नरव्याघ्राः पाञ्चालाश्च यशस्विनः 042c
एवमेते बलौघेन परस्परवधैषिणः 043a
उपयाता नरव्याघ्राः पूर्वां सन्ध्यां प्रति प्रभो 043c
ततः प्रववृते युद्धं घोररूपं भयानकम् 044a
तावकानां परेषां च निघ्नतामितरेतरम् 044c