सञ्जय उवाच 001
एतच्छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान् 001a
दुर्योधनं तदा राजन्वाक्यमेतदुवाच ह 001c
दुर्योधन महाबाहो शृणु वाक्यविदां वर 002a
यावेतौ मन्यसे कृष्णौ रथस्थौ रथिनां वरौ 002c
न मे तुल्यावुभावेतौ बाहुवीर्ये कथञ्चन 002e
उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम् 003a
योधयेयं रणमुखे सङ्क्रुद्धः किमु पाण्डवान् 003c
विजेष्ये च रणे पार्थान्सोमकांश्च समागतान् 003e
अहं सेनाप्रणेता ते भविष्यामि न संशयः 004a
तं च व्यूहं विधास्यामि न तरिष्यन्ति यं परे 004c
इति सत्यं ब्रवीम्येष दुर्योधन न संशयः 004e
एवमुक्तस्ततो राजा मद्राधिपतिमञ्जसा 005a
अभ्यषिञ्चत सेनाया मध्ये भरतसत्तम 005c
विधिना शास्त्रदृष्टेन हृष्टरूपो विशां पते 005e
अभिषिक्ते ततस्तस्मिन्सिंहनादो महानभूत् 006a
तव सैन्येष्ववाद्यन्त वादित्राणि च भारत 006c
हृष्टाश्चासंस्तदा योधा मद्रकाश्च महारथाः 007a
तुष्टुवुश्चैव राजानं शल्यमाहवशोभिनम् 007c
जय राजंश्चिरं जीव जहि शत्रून्समागतान् 008a
तव बाहुबलं प्राप्य धार्तराष्ट्रा महाबलाः 008c
निखिलां पृथिवीं सर्वां प्रशासन्तु हतद्विषः 008e
त्वं हि शक्तो रणे जेतुं ससुरासुरमानवान् 009a
मर्त्यधर्माण इह तु किमु सोमकसृञ्जयान् 009c
एवं संस्तूयमानस्तु मद्राणामधिपो बली 010a
हर्षं प्राप तदा वीरो दुरापमकृतात्मभिः 010c
शल्य उवाच 011
अद्यैवाहं रणे सर्वान्पाञ्चालान्सह पाण्डवैः 011a
निहनिष्यामि राजेन्द्र स्वर्गं यास्यामि वा हतः 011c
अद्य पश्यन्तु मां लोका विचरन्तमभीतवत् 012a
अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः 012c
पाञ्चालाश्चेदयश्चैव द्रौपदेयाश्च सर्वशः 013a
धृष्टद्युम्नः शिखण्डी च सर्वे चापि प्रभद्रकाः 013c
विक्रमं मम पश्यन्तु धनुषश्च महद्बलम् 014a
लाघवं चास्त्रवीर्यं च भुजयोश्च बलं युधि 014c
अद्य पश्यन्तु मे पार्थाः सिद्धाश्च सह चारणैः 015a
यादृशं मे बलं बाह्वोः सम्पदस्त्रेषु या च मे 015c
अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः 016a
प्रतीकारपरा भूत्वा चेष्टन्तां विविधाः क्रियाः 016c
अद्य सैन्यानि पाण्डूनां द्रावयिष्ये समन्ततः 017a
द्रोणभीष्मावति विभो सूतपुत्रं च संयुगे 017c
विचरिष्ये रणे युध्यन्प्रियार्थं तव कौरव 017e
सञ्जय उवाच 018
अभिषिक्ते तदा शल्ये तव सैन्येषु मानद 018a
न कर्णव्यसनं किञ्चिन्मेनिरे तत्र भारत 018c
हृष्टाः सुमनसश्चैव बभूवुस्तत्र सैनिकाः 019a
मेनिरे निहतान्पार्थान्मद्रराजवशं गतान् 019c
प्रहर्षं प्राप्य सेना तु तावकी भरतर्षभ 020a
तां रात्रिं सुखिनी सुप्ता स्वस्थचित्तेव साभवत् 020c
सैन्यस्य तव तं शब्दं श्रुत्वा राजा युधिष्ठिरः 021a
वार्ष्णेयमब्रवीद्वाक्यं सर्वक्षत्रस्य शृण्वतः 021c
मद्रराजः कृतः शल्यो धार्तराष्ट्रेण माधव 022a
सेनापतिर्महेष्वासः सर्वसैन्येषु पूजितः 022c
एतच्छ्रुत्वा यथाभूतं कुरु माधव यत्क्षमम् 023a
भवान्नेता च गोप्ता च विधत्स्व यदनन्तरम् 023c
तमब्रवीन्महाराज वासुदेवो जनाधिपम् 024a
आर्तायनिमहं जाने यथातत्त्वेन भारत 024c
वीर्यवांश्च महातेजा महात्मा च विशेषतः 025a
कृती च चित्रयोधी च संयुक्तो लाघवेन च 025c
यादृग्भीष्मस्तथा द्रोणो यादृक्कर्णश्च संयुगे 026a
तादृशस्तद्विशिष्टो वा मद्रराजो मतो मम 026c
युध्यमानस्य तस्याजौ चिन्तयन्नेव भारत 027a
योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप 027c
शिखण्ड्यर्जुनभीमानां सात्वतस्य च भारत 028a
धृष्टद्युम्नस्य च तथा बलेनाभ्यधिको रणे 028c
मद्रराजो महाराज सिंहद्विरदविक्रमः 029a
विचरिष्यत्यभीः काले कालः क्रुद्धः प्रजास्विव 029c
तस्याद्य न प्रपश्यामि प्रतियोद्धारमाहवे 030a
त्वामृते पुरुषव्याघ्र शार्दूलसमविक्रमम् 030c
सदेवलोके कृत्स्नेऽस्मिन्नान्यस्त्वत्तः पुमान्भवेत् 031a
मद्रराजं रणे क्रुद्धं यो हन्यात्कुरुनन्दन 031c
अहन्यहनि युध्यन्तं क्षोभयन्तं बलं तव 031e
तस्माज्जहि रणे शल्यं मघवानिव शम्बरम् 032a
अतिपश्चादसौ वीरो धार्तराष्ट्रेण सत्कृतः 032c
तवैव हि जयो नूनं हते मद्रेश्वरे युधि 033a
तस्मिन्हते हतं सर्वं धार्तराष्ट्रबलं महत् 033c
एतच्छ्रुत्वा महाराज वचनं मम साम्प्रतम् 034a
प्रत्युद्याहि रणे पार्थ मद्रराजं महाबलम् 034c
जहि चैनं महाबाहो वासवो नमुचिं यथा 034e
न चैवात्र दया कार्या मातुलोऽयं ममेति वै 035a
क्षत्रधर्मं पुरस्कृत्य जहि मद्रजनेश्वरम् 035c
भीष्मद्रोणार्णवं तीर्त्वा कर्णपातालसम्भवम् 036a
मा निमज्जस्व सगणः शल्यमासाद्य गोष्पदम् 036c
यच्च ते तपसो वीर्यं यच्च क्षात्रं बलं तव 037a
तद्दर्शय रणे सर्वं जहि चैनं महारथम् 037c
एतावदुक्त्वा वचनं केशवः परवीरहा 038a
जगाम शिबिरं सायं पूज्यमानोऽथ पाण्डवैः 038c
केशवे तु तदा याते धर्मराजो युधिष्ठिरः 039a
विसृज्य सर्वान्भ्रातॄंश्च पाञ्चालानथ सोमकान् 039c
सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः 039e
ते च सर्वे महेष्वासाः पाञ्चालाः पाण्डवास्तथा 040a
कर्णस्य निधने हृष्टाः सुषुपुस्तां निशां तदा 040c
गतज्वरं महेष्वासं तीर्णपारं महारथम् 041a
बभूव पाण्डवेयानां सैन्यं प्रमुदितं निशि 041c
सूतपुत्रस्य निधने जयं लब्ध्वा च मारिष 041e