सञ्जय उवाच 001
अथ हैमवते प्रस्थे स्थित्वा युद्धाभिनन्दिनः 001a
सर्व एव महाराज योधास्तत्र समागताः 001c
शल्यश्च चित्रसेनश्च शकुनिश्च महारथः 002a
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः 002c
सुषेणोऽरिष्टसेनश्च धृतसेनश्च वीर्यवान् 003a
जयत्सेनश्च राजानस्ते रात्रिमुषितास्ततः 003c
रणे कर्णे हते वीरे त्रासिता जितकाशिभिः 004a
नालभञ्शर्म ते पुत्रा हिमवन्तमृते गिरिम् 004c
तेऽब्रुवन्सहितास्तत्र राजानं सैन्यसन्निधौ 005a
कृतयत्ना रणे राजन्सम्पूज्य विधिवत्तदा 005c
कृत्वा सेनाप्रणेतारं परांस्त्वं योद्धुमर्हसि 006a
येनाभिगुप्ताः सङ्ग्रामे जयेमासुहृदो वयम् 006c
ततो दुर्योधनः स्थित्वा रथे रथवरोत्तमम् 007a
सर्वयुद्धविभागज्ञमन्तकप्रतिमं युधि 007c
स्वङ्गं प्रच्छन्नशिरसं कम्बुग्रीवं प्रियंवदम् 008a
व्याकोशपद्माभिमुखं व्याघ्रास्यं मेरुगौरवम् 008c
स्थाणोर्वृषस्य सदृशं स्कन्धनेत्रगतिस्वरैः 009a
पुष्टश्लिष्टायतभुजं सुविस्तीर्णघनोरसम् 009c
जवे बले च सदृशमरुणानुजवातयोः 010a
आदित्यस्य त्विषा तुल्यं बुद्ध्या चोशनसा समम् 010c
कान्तिरूपमुखैश्वर्यैस्त्रिभिश्चन्द्रमसोपमम् 011a
काञ्चनोपलसङ्घातैः सदृशं श्लिष्टसन्धिकम् 011c
सुवृत्तोरुकटीजङ्घं सुपादं स्वङ्गुलीनखम् 012a
स्मृत्वा स्मृत्वैव च गुणान्धात्रा यत्नाद्विनिर्मितम् 012c
सर्वलक्षणसम्पन्नं निपुणं श्रुतिसागरम् 013a
जेतारं तरसारीणामजेयं शत्रुभिर्बलात् 013c
दशाङ्गं यश्चतुष्पादमिष्वस्त्रं वेद तत्त्वतः 014a
साङ्गांश्च चतुरो वेदान्सम्यगाख्यानपञ्चमान् 014c
आराध्य त्र्यम्बकं यत्नाद्व्रतैरुग्रैर्महातपाः 015a
अयोनिजायामुत्पन्नो द्रोणेनायोनिजेन यः 015c
तमप्रतिमकर्माणं रूपेणासदृशं भुवि 016a
पारगं सर्वविद्यानां गुणार्णवमनिन्दितम् 016c
तमभ्येत्यात्मजस्तुभ्यमश्वत्थामानमब्रवीत् 016e
यं पुरस्कृत्य सहिता युधि जेष्याम पाण्डवान् 017a
गुरुपुत्रोऽद्य सर्वेषामस्माकं परमा गतिः 017c
भवांस्तस्मान्नियोगात्ते कोऽस्तु सेनापतिर्मम 017e
द्रौणिरुवाच 018
अयं कुलेन वीर्येण तेजसा यशसा श्रिया 018a
सर्वैर्गुणैः समुदितः शल्यो नोऽस्तु चमूपतिः 018c
भागिनेयान्निजांस्त्यक्त्वा कृतज्ञोऽस्मानुपागतः 019a
महासेनो महाबाहुर्महासेन इवापरः 019c
एनं सेनापतिं कृत्वा नृपतिं नृपसत्तम 020a
शक्यः प्राप्तुं जयोऽस्माभिर्देवैः स्कन्दमिवाजितम् 020c
तथोक्ते द्रोणपुत्रेण सर्व एव नराधिपाः 021a
परिवार्य स्थिताः शल्यं जयशब्दांश्च चक्रिरे 021c
युद्धाय च मतिं चक्रूरावेशं च परं ययुः 021e
ततो दुर्योधनः शल्यं भूमौ स्थित्वा रथे स्थितम् 022a
उवाच प्राञ्जलिर्भूत्वा रामभीष्मसमं रणे 022c
अयं स कालः सम्प्राप्तो मित्राणां मित्रवत्सल 023a
यत्र मित्रममित्रं वा परीक्षन्ते बुधा जनाः 023c
स भवानस्तु नः शूरः प्रणेता वाहिनीमुखे 024a
रणं च याते भवति पाण्डवा मन्दचेतसः 024c
भविष्यन्ति सहामात्याः पाञ्चालाश्च निरुद्यमाः 024e
शल्य उवाच 025
यत्तु मां मन्यसे राजन्कुरुराज करोमि तत् 025a
त्वत्प्रियार्थं हि मे सर्वं प्राणा राज्यं धनानि च 025c
दुर्योधन उवाच 026
सेनापत्येन वरये त्वामहं मातुलातुलम् 026a
सोऽस्मान्पाहि युधां श्रेष्ठ स्कन्दो देवानिवाहवे 026c
अभिषिच्यस्व राजेन्द्र देवानामिव पावकिः 027a
जहि शत्रून्रणे वीर महेन्द्रो दानवानिव 027c