सञ्जय उवाच 001
एवमुक्तस्ततो राजा गौतमेन यशस्विना 001a
निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशां पते 001c
ततो मुहूर्तं स ध्यात्वा धार्तराष्ट्रो महामनाः 002a
कृपं शारद्वतं वाक्यमित्युवाच परन्तपः 002c
यत्किञ्चित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम् 003a
कृतं च भवता सर्वं प्राणान्सन्त्यज्य युध्यता 003c
गाहमानमनीकानि युध्यमानं महारथैः 004a
पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान् 004c
सुहृदा यदिदं वाच्यं भवता श्रावितो ह्यहम् 005a
न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम् 005c
हेतुकारणसंयुक्तं हितं वचनमुत्तमम् 006a
उच्यमानं महाबाहो न मे विप्राग्र्य रोचते 006c
राज्याद्विनिकृतोऽस्माभिः कथं सोऽस्मासु विश्वसेत् 007a
अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः 007c
स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु 007e
तथा दौत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः 008a
प्रलब्धश्च हृषीकेशस्तच्च कर्म विरोधितम् 008c
स च मे वचनं ब्रह्मन्कथमेवाभिमंस्यते 008e
विललाप हि यत्कृष्णा सभामध्ये समेयुषी 009a
न तन्मर्षयते कृष्णो न राज्यहरणं तथा 009c
एकप्राणावुभौ कृष्णावन्योन्यं प्रति संहतौ 010a
पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो 010c
स्वस्रीयं च हतं श्रुत्वा दुःखं स्वपिति केशवः 011a
कृतागसो वयं तस्य स मदर्थं कथं क्षमेत् 011c
अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः 012a
स कथं मद्धिते यत्नं प्रकरिष्यति याचितः 012c
मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः 013a
प्रतिज्ञातं च तेनोग्रं स भज्येत न सन्नमेत् 013c
उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ 014a
कृतवैरावुभौ वीरौ यमावपि यमोपमौ 014c
धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह 015a
तौ कथं मद्धिते यत्नं प्रकुर्यातां द्विजोत्तम 015c
दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला 016a
परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः 016c
तथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः 017a
न निवारयितुं शक्याः सङ्ग्रामात्ते परन्तपाः 017c
यदा च द्रौपदी कृष्णा मद्विनाशाय दुःखिता 018a
उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये 018c
स्थण्डिले नित्यदा शेते यावद्वैरस्य यातना 018e
निक्षिप्य मानं दर्पं च वासुदेवसहोदरा 019a
कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा 019c
इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन 020a
अभिमन्योर्विनाशेन स सन्धेयः कथं मया 020c
कथं च नाम भुक्त्वेमां पृथिवीं सागराम्बराम् 021a
पाण्डवानां प्रसादेन भुञ्जीयां राज्यमल्पकम् 021c
उपर्युपरि राज्ञां वै ज्वलितो भास्करो यथा 022a
युधिष्ठिरं कथं पश्चादनुयास्यामि दासवत् 022c
कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान् 023a
कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम् 023c
नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया 024a
न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन 024c
सुनीतमनुपश्यामि सुयुद्धेन परन्तप 025a
नायं क्लीबयितुं कालः संयोद्धुं काल एव नः 025c
इष्टं मे बहुभिर्यज्ञैर्दत्ता विप्रेषु दक्षिणाः 026a
प्राप्ताः क्रमश्रुता वेदाः शत्रूणां मूर्ध्नि च स्थितम् 026c
भृत्या मे सुभृतास्तात दीनश्चाभ्युद्धृतो जनः 027a
यातानि परराष्ट्राणि स्वराष्ट्रमनुपालितम् 027c
भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया 028a
पितॄणां गतमानृण्यं क्षत्रधर्मस्य चोभयोः 028c
न ध्रुवं सुखमस्तीह कुतो राज्यं कुतो यशः 029a
इह कीर्तिर्विधातव्या सा च युद्धेन नान्यथा 029c
गृहे यत्क्षत्रियस्यापि निधनं तद्विगर्हितम् 030a
अधर्मः सुमहानेष यच्छय्यामरणं गृहे 030c
अरण्ये यो विमुञ्चेत सङ्ग्रामे वा तनुं नरः 031a
क्रतूनाहृत्य महतो महिमानं स गच्छति 031c
कृपणं विलपन्नार्तो जरयाभिपरिप्लुतः 032a
म्रियते रुदतां मध्ये ज्ञातीनां न स पूरुषः 032c
त्यक्त्वा तु विविधान्भोगान्प्राप्तानां परमां गतिम् 033a
अपीदानीं सुयुद्धेन गच्छेयं सत्सलोकताम् 033c
शूराणामार्यवृत्तानां सङ्ग्रामेष्वनिवर्तिनाम् 034a
धीमतां सत्यसन्धानां सर्वेषां क्रतुयाजिनाम् 034c
शस्त्रावभृथमाप्तानां ध्रुवं वासस्त्रिविष्टपे 035a
मुदा नूनं प्रपश्यन्ति शुभ्रा ह्यप्सरसां गणाः 035c
पश्यन्ति नूनं पितरः पूजिताञ्शक्रसंसदि 036a
अप्सरोभिः परिवृतान्मोदमानांस्त्रिविष्टपे 036c
पन्थानममरैर्यातं शूरैश्चैवानिवर्तिभिः 037a
अपि तैः सङ्गतं मार्गं वयमप्यारुहेमहि 037c
पितामहेन वृद्धेन तथाचार्येण धीमता 038a
जयद्रथेन कर्णेन तथा दुःशासनेन च 038c
घटमाना मदर्थेऽस्मिन्हताः शूरा जनाधिपाः 039a
शेरते लोहिताक्ताङ्गाः पृथिव्यां शरविक्षताः 039c
उत्तमास्त्रविदः शूरा यथोक्तक्रतुयाजिनः 040a
त्यक्त्वा प्राणान्यथान्यायमिन्द्रसद्मसु धिष्ठिताः 040c
तैस्त्वयं रचितः पन्था दुर्गमो हि पुनर्भवेत् 041a
सम्पतद्भिर्महावेगैरितो याद्भिश्च सद्गतिम् 041c
ये मदर्थे हताः शूरास्तेषां कृतमनुस्मरन् 042a
ऋणं तत्प्रतिमुञ्चानो न राज्ये मन आदधे 042c
पातयित्वा वयस्यांश्च भ्रातॄनथ पितामहान् 043a
जीवितं यदि रक्षेयं लोको मां गर्हयेद्ध्रुवम् 043c
कीदृशं च भवेद्राज्यं मम हीनस्य बन्धुभिः 044a
सखिभिश्च सुहृद्भिश्च प्रणिपत्य च पाण्डवम् 044c
सोऽहमेतादृशं कृत्वा जगतोऽस्य पराभवम् 045a
सुयुद्धेन ततः स्वर्गं प्राप्स्यामि न तदन्यथा 045c
एवं दुर्योधनेनोक्तं सर्वे सम्पूज्य तद्वचः 046a
साधु साध्विति राजानं क्षत्रियाः सम्बभाषिरे 046c
पराजयमशोचन्तः कृतचित्ताश्च विक्रमे 047a
सर्वे सुनिश्चिता योद्धुमुदग्रमनसोऽभवन् 047c
ततो वाहान्समाश्वास्य सर्वे युद्धाभिनन्दिनः 048a
ऊने द्वियोजने गत्वा प्रत्यतिष्ठन्त कौरवाः 048c
आकाशे विद्रुमे पुण्ये प्रस्थे हिमवतः शुभे 049a
अरुणां सरस्वतीं प्राप्य पपुः सस्नुश्च तज्जलम् 049c
तव पुत्राः कृतोत्साहाः पर्यवर्तन्त ते ततः 050a
पर्यवस्थाप्य चात्मानमन्योन्येन पुनस्तदा 050c
सर्वे राजन्न्यवर्तन्त क्षत्रियाः कालचोदिताः 050e