सञ्जय उवाच 001
शृणु राजन्नवहितो यथा वृत्तो महान्क्षयः 001a
कुरूणां पाण्डवानां च समासाद्य परस्परम् 001c
निहते सूतपुत्रे तु पाण्डवेन महात्मना 002a
विद्रुतेषु च सैन्येषु समानीतेषु चासकृत् 002c
विमुखे तव पुत्रे तु शोकोपहतचेतसि 003a
भृशोद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम् 003c
ध्यायमानेषु सैन्येषु दुःखं प्राप्तेषु भारत 004a
बलानां मथ्यमानानां श्रुत्वा निनदमुत्तमम् 004c
अभिज्ञानं नरेन्द्राणां विकृतं प्रेक्ष्य संयुगे 005a
पतितान्रथनीडांश्च रथांश्चापि महात्मनाम् 005c
रणे विनिहतान्नागान्दृष्ट्वा पत्तींश्च मारिष 006a
आयोधनं चातिघोरं रुद्रस्याक्रीडसन्निभम् 006c
अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः 007a
कृपाविष्टः कृपो राजन्वयःशीलसमन्वितः 007c
अब्रवीत्तत्र तेजस्वी सोऽभिसृत्य जनाधिपम् 008a
दुर्योधनं मन्युवशाद्वचनं वचनक्षमः 008c
दुर्योधन निबोधेदं यत्त्वा वक्ष्यामि कौरव 009a
श्रुत्वा कुरु महाराज यदि ते रोचतेऽनघ 009c
न युद्धधर्माच्छ्रेयान्वै पन्था राजेन्द्र विद्यते 010a
यं समाश्रित्य युध्यन्ते क्षत्रियाः क्षत्रियर्षभ 010c
पुत्रो भ्राता पिता चैव स्वस्रेयो मातुलस्तथा 011a
सम्बन्धिबान्धवाश्चैव योध्या वै क्षत्रजीविना 011c
वधे चैव परो धर्मस्तथाधर्मः पलायने 012a
ते स्म घोरां समापन्ना जीविकां जीवितार्थिनः 012c
तत्र त्वां प्रतिवक्ष्यामि किञ्चिदेव हितं वचः 013a
हते भीष्मे च द्रोणे च कर्णे चैव महारथे 013c
जयद्रथे च निहते तव भ्रातृषु चानघ 014a
लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे 014c
येषु भारं समासज्य राज्ये मतिमकुर्महि 015a
ते सन्त्यज्य तनूर्याताः शूरा ब्रह्मविदां गतिम् 015c
वयं त्विह विनाभूता गुणवद्भिर्महारथैः 016a
कृपणं वर्तयिष्याम पातयित्वा नृपान्बहून् 016c
सर्वैरपि च जीवद्भिर्बीभत्सुरपराजितः 017a
कृष्णनेत्रो महाबाहुर्देवैरपि दुरासदः 017c
इन्द्रकार्मुकवज्राभमिन्द्रकेतुमिवोच्छ्रितम् 018a
वानरं केतुमासाद्य सञ्चचाल महाचमूः 018c
सिंहनादेन भीमस्य पाञ्चजन्यस्वनेन च 019a
गाण्डीवस्य च निर्घोषात्संहृष्यन्ति मनांसि नः 019c
चरन्तीव महाविद्युन्मुष्णन्ती नयनप्रभाम् 020a
अलातमिव चाविद्धं गाण्डीवं समदृश्यत 020c
जाम्बूनदविचित्रं च धूयमानं महद्धनुः 021a
दृश्यते दिक्षु सर्वासु विद्युदभ्रघनेष्विव 021c
उह्यमानश्च कृष्णेन वायुनेव बलाहकः 022a
तावकं तद्बलं राजन्नर्जुनोऽस्त्रविदां वरः 022c
गहनं शिशिरे कक्षं ददाहाग्निरिवोत्थितः 022e
गाहमानमनीकानि महेन्द्रसदृशप्रभम् 023a
धनञ्जयमपश्याम चतुर्दन्तमिव द्विपम् 023c
विक्षोभयन्तं सेनां ते त्रासयन्तं च पार्थिवान् 024a
धनञ्जयमपश्याम नलिनीमिव कुञ्जरम् 024c
त्रासयन्तं तथा योधान्धनुर्घोषेण पाण्डवम् 025a
भूय एनमपश्याम सिंहं मृगगणा इव 025c
सर्वलोकमहेष्वासौ वृषभौ सर्वधन्विनाम् 026a
आमुक्तकवचौ कृष्णौ लोकमध्ये विरेजतुः 026c
अद्य सप्तदशाहानि वर्तमानस्य भारत 027a
सङ्ग्रामस्यातिघोरस्य वध्यतां चाभितो युधि 027c
वायुनेव विधूतानि तवानीकानि सर्वशः 028a
शरदम्भोदजालानि व्यशीर्यन्त समन्ततः 028c
तां नावमिव पर्यस्तां भ्रान्तवातां महार्णवे 029a
तव सेनां महाराज सव्यसाची व्यकम्पयत् 029c
क्व नु ते सूतपुत्रोऽभूत्क्व नु द्रोणः सहानुगः 030a
अहं क्व च क्व चात्मा ते हार्दिक्यश्च तथा क्व नु 030c
दुःशासनश्च भ्राता ते भ्रातृभिः सहितः क्व नु 030e
बाणगोचरसम्प्राप्तं प्रेक्ष्य चैव जयद्रथम् 031a
सम्बन्धिनस्ते भ्रातॄंश्च सहायान्मातुलांस्तथा 031c
सर्वान्विक्रम्य मिषतो लोकांश्चाक्रम्य मूर्धनि 032a
जयद्रथो हतो राजन्किं नु शेषमुपास्महे 032c
को वेह स पुमानस्ति यो विजेष्यति पाण्डवम् 033a
तस्य चास्त्राणि दिव्यानि विविधानि महात्मनः 033c
गाण्डीवस्य च निर्घोषो वीर्याणि हरते हि नः 033e
नष्टचन्द्रा यथा रात्रिः सेनेयं हतनायका 034a
नागभग्नद्रुमा शुष्का नदीवाकुलतां गता 034c
ध्वजिन्यां हतनेत्रायां यथेष्टं श्वेतवाहनः 035a
चरिष्यति महाबाहुः कक्षेऽग्निरिव सञ्ज्वलन् 035c
सात्यकेश्चैव यो वेगो भीमसेनस्य चोभयोः 036a
दारयेत गिरीन्सर्वाञ्शोषयेत च सागरान् 036c
उवाच वाक्यं यद्भीमः सभामध्ये विशां पते 037a
कृतं तत्सकलं तेन भूयश्चैव करिष्यति 037c
प्रमुखस्थे तदा कर्णे बलं पाण्डवरक्षितम् 038a
दुरासदं तथा गुप्तं गूढं गाण्डीवधन्वना 038c
युष्माभिस्तानि चीर्णानि यान्यसाधूनि साधुषु 039a
अकारणकृतान्येव तेषां वः फलमागतम् 039c
आत्मनोऽर्थे त्वया लोको यत्नतः सर्व आहृतः 040a
स ते संशयितस्तात आत्मा च भरतर्षभ 040c
रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम् 041a
भिन्ने हि भाजने तात दिशो गच्छति तद्गतम् 041c
हीयमानेन वै सन्धिः पर्येष्टव्यः समेन च 042a
विग्रहो वर्धमानेन नीतिरेषा बृहस्पतेः 042c
ते वयं पाण्डुपुत्रेभ्यो हीनाः स्वबलशक्तितः 043a
अत्र ते पाण्डवैः सार्धं सन्धिं मन्ये क्षमं प्रभो 043c
न जानीते हि यः श्रेयः श्रेयसश्चावमन्यते 044a
स क्षिप्रं भ्रश्यते राज्यान्न च श्रेयोऽनुविन्दति 044c
प्रणिपत्य हि राजानं राज्यं यदि लभेमहि 045a
श्रेयः स्यान्न तु मौढ्येन राजन्गन्तुं पराभवम् 045c
वैचित्रवीर्यवचनात्कृपाशीलो युधिष्ठिरः 046a
विनियुञ्जीत राज्ये त्वां गोविन्दवचनेन च 046c
यद्ब्रूयाद्धि हृषीकेशो राजानमपराजितम् 047a
अर्जुनं भीमसेनं च सर्वं कुर्युरसंशयम् 047c
नातिक्रमिष्यते कृष्णो वचनं कौरवस्य ह 048a
धृतराष्ट्रस्य मन्येऽहं नापि कृष्णस्य पाण्डवः 048c
एतत्क्षममहं मन्ये तव पार्थैरविग्रहम् 049a
न त्वा ब्रवीमि कार्पण्यान्न प्राणपरिरक्षणात् 049c
पथ्यं राजन्ब्रवीमि त्वां तत्परासुः स्मरिष्यसि 049e
इति वृद्धो विलप्यैतत्कृपः शारद्वतो वचः 050a
दीर्घमुष्णं च निःश्वस्य शुशोच च मुमोह च 050c