जनमेजय उवाच 001
एवं निपातिते कर्णे समरे सव्यसाचिना 001a
अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज 001c
उदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः 002a
पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः 002c
एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम 003a
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् 003c
वैशम्पायन उवाच 004
ततः कर्णे हते राजन्धार्तराष्ट्रः सुयोधनः 004a
भृशं शोकार्णवे मग्नो निराशः सर्वतोऽभवत् 004c
हा कर्ण हा कर्ण इति शोचमानः पुनः पुनः 005a
कृच्छ्रात्स्वशिबिरं प्रायाद्धतशेषैर्नृपैः सह 005c
स समाश्वास्यमानोऽपि हेतुभिः शास्त्रनिश्चितैः 006a
राजभिर्नालभच्छर्म सूतपुत्रवधं स्मरन् 006c
स दैवं बलवन्मत्वा भवितव्यं च पार्थिवः 007a
सङ्ग्रामे निश्चयं कृत्वा पुनर्युद्धाय निर्ययौ 007c
शल्यं सेनापतिं कृत्वा विधिवद्राजपुङ्गवः 008a
रणाय निर्ययौ राजा हतशेषैर्नृपैः सह 008c
ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः 009a
बभूव भरतश्रेष्ठ देवासुररणोपमम् 009c
ततः शल्यो महाराज कृत्वा कदनमाहवे 010a
पाण्डुसैन्यस्य मध्याह्ने धर्मराजेन पातितः 010c
ततो दुर्योधनो राजा हतबन्धू रणाजिरात् 011a
अपसृत्य ह्रदं घोरं विवेश रिपुजाद्भयात् 011c
अथापराह्णे तस्याह्नः परिवार्य महारथैः 012a
ह्रदादाहूय योगेन भीमसेनेन पातितः 012c
तस्मिन्हते महेष्वासे हतशिष्टास्त्रयो रथाः 013a
संरभान्निशि राजेन्द्र जघ्नुः पाञ्चालसैनिकान् 013c
ततः पूर्वाह्णसमये शिबिरादेत्य सञ्जयः 014a
प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः 014c
प्रविश्य च पुरं तूर्णं भुजावुच्छ्रित्य दुःखितः 015a
वेपमानस्ततो राज्ञः प्रविवेश निवेशनम् 015c
रुरोद च नरव्याघ्र हा राजन्निति दुःखितः 016a
अहो बत विविग्नाः स्म निधनेन महात्मनः 016c
अहो सुबलवान्कालो गतिश्च परमा तथा 017a
शक्रतुल्यबलाः सर्वे यत्रावध्यन्त पार्थिवाः 017c
दृष्ट्वैव च पुरो राजञ्जनः सर्वः स सञ्जयम् 018a
प्ररुरोद भृशोद्विग्नो हा राजन्निति सस्वरम् 018c
आकुमारं नरव्याघ्र तत्पुरं वै समन्ततः 019a
आर्तनादं महच्चक्रे श्रुत्वा विनिहतं नृपम् 019c
धावतश्चाप्यपश्यच्च तत्र त्रीन्पुरुषर्षभान् 020a
नष्टचित्तानिवोन्मत्ताञ्शोकेन भृशपीडितान् 020c
तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम् 021a
ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम् 021c
दृष्ट्वा चासीनमनघं समन्तात्परिवारितम् 022a
स्नुषाभिर्भरतश्रेष्ठ गान्धार्या विदुरेण च 022c
तथान्यैश्च सुहृद्भिश्च ज्ञातिभिश्च हितैषिभिः 023a
तमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति 023c
रुदन्नेवाब्रवीद्वाक्यं राजानं जनमेजय 024a
नातिहृष्टमनाः सूतो बाष्पसन्दिग्धया गिरा 024c
सञ्जयोऽहं नरव्याघ्र नमस्ते भरतर्षभ 025a
मद्राधिपो हतः शल्यः शकुनिः सौबलस्तथा 025c
उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः 025e
संशप्तका हताः सर्वे काम्बोजाश्च शकैः सह 026a
म्लेच्छाश्च पार्वतीयाश्च यवनाश्च निपातिताः 026c
प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशः 027a
उदीच्या निहताः सर्वे प्रतीच्याश्च नराधिप 027c
राजानो राजपुत्राश्च सर्वतो निहता नृप 027e
दुर्योधनो हतो राजन्यथोक्तं पाण्डवेन च 028a
भग्नसक्थो महाराज शेते पांसुषु रूषितः 028c
धृष्टद्युम्नो हतो राजञ्शिखण्डी चापराजितः 029a
उत्तमौजा युधामन्युस्तथा राजन्प्रभद्रकाः 029c
पाञ्चालाश्च नरव्याघ्राश्चेदयश्च निषूदिताः 030a
तव पुत्रा हताः सर्वे द्रौपदेयाश्च भारत 030c
कर्णपुत्रो हतः शूरो वृषसेनो महाबलः 030e
नरा विनिहताः सर्वे गजाश्च विनिपातिताः 031a
रथिनश्च नरव्याघ्र हयाश्च निहता युधि 031c
किञ्चिच्छेषं च शिबिरं तावकानां कृतं विभो 032a
पाण्डवानां च शूराणां समासाद्य परस्परम् 032c
प्रायः स्त्रीशेषमभवज्जगत्कालेन मोहितम् 033a
सप्त पाण्डवतः शेषा धार्तराष्ट्रास्तथा त्रयः 033c
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः 034a
कृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः 034c
तवाप्येते महाराज रथिनो नृपसत्तम 035a
अक्षौहिणीनां सर्वासां समेतानां जनेश्वर 035c
एते शेषा महाराज सर्वेऽन्ये निधनं गताः 035e
कालेन निहतं सर्वं जगद्वै भरतर्षभ 036a
दुर्योधनं वै पुरतः कृत्वा वैरस्य भारत 036c
एतच्छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरः 037a
निपपात महाराज गतसत्त्वो महीतले 037c
तस्मिन्निपतिते भूमौ विदुरोऽपि महायशाः 038a
निपपात महाराज राजव्यसनकर्शितः 038c
गान्धारी च नृपश्रेष्ठ सर्वाश्च कुरुयोषितः 039a
पतिताः सहसा भूमौ श्रुत्वा क्रूरं वचश्च ताः 039c
निःसञ्ज्ञं पतितं भूमौ तदासीद्राजमण्डलम् 040a
प्रलापयुक्ता महती कथा न्यस्ता पटे यथा 040c
कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः 041a
शनैरलभत प्राणान्पुत्रव्यसनकर्शितः 041c
लब्ध्वा तु स नृपः सञ्ज्ञां वेपमानः सुदुःखितः 042a
उदीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यमब्रवीत् 042c
विद्वन्क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ 043a
ममानाथस्य सुभृशं पुत्रैर्हीनस्य सर्वशः 043c
एवमुक्त्वा ततो भूयो विसञ्ज्ञो निपपात ह 043e
तं तथा पतितं दृष्ट्वा बान्धवा येऽस्य केचन 044a
शीतैस्तु सिषिचुस्तोयैर्विव्यजुर्व्यजनैरपि 044c
स तु दीर्घेण कालेन प्रत्याश्वस्तो महीपतिः 045a
तूष्णीं दध्यौ महीपालः पुत्रव्यसनकर्शितः 045c
निःश्वसञ्जिह्मग इव कुम्भक्षिप्तो विशां पते 045e
सञ्जयोऽप्यरुदत्तत्र दृष्ट्वा राजानमातुरम् 046a
तथा सर्वाः स्त्रियश्चैव गान्धारी च यशस्विनी 046c
ततो दीर्घेण कालेन विदुरं वाक्यमब्रवीत् 047a
धृतराष्ट्रो नरव्याघ्रो मुह्यमानो मुहुर्मुहुः 047c
गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी 048a
तथेमे सुहृदः सर्वे भ्रश्यते मे मनो भृशम् 048c
एवमुक्तस्ततः क्षत्ता ताः स्त्रियो भरतर्षभ 049a
विसर्जयामास शनैर्वेपमानः पुनः पुनः 049c
निश्चक्रमुस्ततः सर्वास्ताः स्त्रियो भरतर्षभ 050a
सुहृदश्च ततः सर्वे दृष्ट्वा राजानमातुरम् 050c
ततो नरपतिं तत्र लब्धसञ्ज्ञं परन्तप 051a
अवेक्ष्य सञ्जयो दीनो रोदमानं भृशातुरम् 051c
प्राञ्जलिर्निःश्वसन्तं च तं नरेन्द्रं मुहुर्मुहुः 052a
समाश्वासयत क्षत्ता वचसा मधुरेण ह 052c