001 सञ्जय उवाच 001a तथा निपातिते कर्णे तव सैन्ये च विद्रुते 001c आश्लिष्य पार्थं दाशार्हो हर्षाद्वचनमब्रवीत् 002a हतो बलभिदा वृत्रस्त्वया कर्णो धनञ्जय 002c वधं वै कर्णवृत्राभ्यां कथयिष्यन्ति मानवाः 003a वज्रिणा निहतो वृत्रः संयुगे भूरितेजसा 003c त्वया तु निहतः कर्णो धनुषा निशितैः शरैः 004a तमिमं विक्रमं लोके प्रथितं ते यशोवहम् 004c निवेदयावः कौन्तेय धर्मराजाय धीमते 005a वधं कर्णस्य सङ्ग्रामे दीर्घकालचिकीर्षितम् 005c निवेद्य धर्मराजस्य त्वमानृण्यं गमिष्यसि 006a तथेत्युक्ते केशवस्तु पार्थेन यदुपुङ्गवः 006c पर्यवर्तयदव्यग्रो रथं रथवरस्य तम् 007a धृष्टद्युम्नं युधामन्युं माद्रीपुत्रौ वृकोदरम् 007c युयुधानं च गोविन्द इदं वचनमब्रवीत् 008a परानभिमुखा यत्तास्तिष्ठध्वं भद्रमस्तु वः 008c यावदावेद्यते राज्ञे हतः कर्णोऽर्जुनेन वै 009a स तैः शूरैरनुज्ञातो ययौ राजनिवेशनम् 009c पार्थमादाय गोविन्दो ददर्श च युधिष्ठिरम् 010a शयानं राजशार्दूलं काञ्चने शयनोत्तमे 010c अगृह्णीतां च चरणौ मुदितौ पार्थिवस्य तौ 011a तयोः प्रहर्षमालक्ष्य प्रहारांश्चातिमानुषान् 011c राधेयं निहतं मत्वा समुत्तस्थौ युधिष्ठिरः 012a ततोऽस्मै तद्यथावृत्तं वासुदेवः प्रियंवदः 012c कथयामास कर्णस्य निधनं यदुनन्दनः 013a ईषदुत्स्मयमानस्तु कृष्णो राजानमब्रवीत् 013c युधिष्ठिरं हतामित्रं कृताञ्जलिरथाच्युतः 014a दिष्ट्या गाण्डीवधन्वा च पाण्डवश्च वृकोदरः 014c त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ 015a मुक्ता वीरक्षयादस्मात्सङ्ग्रामाल्लोमहर्षणात् 015c क्षिप्रमुत्तरकालानि कुरु कार्याणि पार्थिव 016a हतो वैकर्तनः क्रूरः सूतपुत्रो महाबलः 016c दिष्ट्या जयसि राजेन्द्र दिष्ट्या वर्धसि पाण्डव 017a यः स द्यूतजितां कृष्णां प्राहसत्पुरुषाधमः 017c तस्याद्य सूतपुत्रस्य भूमिः पिबति शोणितम् 018a शेतेऽसौ शरदीर्णाङ्गः शत्रुस्ते कुरुपुङ्गव 018c तं पश्य पुरुषव्याघ्र विभिन्नं बहुधा शरैः 019a युधिष्ठिरस्तु दाशार्हं प्रहृष्टः प्रत्यपूजयत् 019c दिष्ट्या दिष्ट्येति राजेन्द्र प्रीत्या चेदमुवाच ह 020a नैतच्चित्रं महाबाहो त्वयि देवकिनन्दन 020c त्वया सारथिना पार्थो यत्कुर्यादद्य पौरुषम् 021a प्रगृह्य च कुरुश्रेष्ठः साङ्गदं दक्षिणं भुजम् 021c उवाच धर्मभृत्पार्थ उभौ तौ केशवार्जुनौ 022a नरनारायणौ देवौ कथितौ नारदेन ह 022c धर्मसंस्थापने युक्तौ पुराणौ पुरुषोत्तमौ 023a असकृच्चापि मेधावी कृष्णद्वैपायनो मम 023c कथामेतां महाबाहो दिव्यामकथयत्प्रभुः 024a तव कृष्ण प्रभावेण गाण्डीवेन धनञ्जयः 024c जयत्यभिमुखाञ्शत्रून्न चासीद्विमुखः क्वचित् 025a जयश्चैव ध्रुवोऽस्माकं न त्वस्माकं पराजयः 025c यदा त्वं युधि पार्थस्य सारथ्यमुपजग्मिवान् 026a एवमुक्त्वा महाराज तं रथं हेमभूषितम् 026c दन्तवर्णैर्हयैर्युक्तं कालवालैर्महारथः 027a आस्थाय पुरुषव्याघ्रः स्वबलेनाभिसंवृतः 027c कृष्णार्जुनाभ्यां वीराभ्यामनुमन्य ततः प्रियम् 028a आगतो बहुवृत्तान्तं द्रष्टुमायोधनं तदा 028c आभाषमाणस्तौ वीरावुभौ माधवफल्गुनौ 029a स ददर्श रणे कर्णं शयानं पुरुषर्षभम् 029c गाण्डीवमुक्तैर्विशिखैः सर्वतः शकलीकृतम् 030a सपुत्रं निहतं दृष्ट्वा कर्णं राजा युधिष्ठिरः 030c प्रशशंस नरव्याघ्रावुभौ माधवपाण्डवौ 031a अद्य राजास्मि गोविन्द पृथिव्यां भ्रातृभिः सह 031c त्वया नाथेन वीरेण विदुषा परिपालितः 032a हतं दृष्ट्वा नरव्याघ्रं राधेयमभिमानिनम् 032c निराशोऽद्य दुरात्मासौ धार्तराष्ट्रो भविष्यति 032e जीविताच्चापि राज्याच्च हते कर्णे महारथे 033a त्वत्प्रसादाद्वयं चैव कृतार्थाः पुरुषर्षभ 033c त्वं च गाण्डीवधन्वा च विजयी यदुनन्दन 033e दिष्ट्या जयसि गोविन्द दिष्ट्या कर्णो निपातितः 034a एवं स बहुशो हृष्टः प्रशशंस जनार्दनम् 034c अर्जुनं चापि राजेन्द्र धर्मराजो युधिष्ठिरः 035a ततो भीमप्रभृतिभिः सर्वैश्च भ्रातृभिर्वृतम् 035c वर्धयन्ति स्म राजानं हर्षयुक्ता महारथाः 036a नकुलः सहदेवश्च पाण्डवश्च वृकोदरः 036c सात्यकिश्च महाराज वृष्णीनां प्रवरो रथः 037a धृष्टद्युम्नः शिखण्डी च पाण्डुपाञ्चालसृञ्जयाः 037c पूजयन्ति स्म कौन्तेयं निहते सूतनन्दने 038a ते वर्धयित्वा नृपतिं पाण्डुपुत्रं युधिष्ठिरम् 038c जितकाशिनो लब्धलक्षा युद्धशौण्डाः प्रहारिणः 039a स्तुवन्तः स्तवयुक्ताभिर्वाग्भिः कृष्णौ परन्तपौ 039c जग्मुः स्वशिबिरायैव मुदा युक्ता महारथाः 040a एवमेष क्षयो वृत्तः सुमहाँल्लोमहर्षणः 040c तव दुर्मन्त्रिते राजन्नतीतं किं नु शोचसि 041 वैशम्पायन उवाच 041a श्रुत्वा तदप्रियं राजन्धृतराष्ट्रो महीपतिः 041c पपात भूमौ निश्चेष्टः कौरव्यः परमार्तिवान् 041e तथा सत्यव्रता देवी गान्धारी धर्मदर्शिनी 042a तं प्रत्यगृह्णाद्विदुरो नृपतिं सञ्जयस्तथा 042c पर्याश्वासयतश्चैवं तावुभावेव भूमिपम् 043a तथैवोत्थापयामासुर्गान्धारीं राजयोषितः 043c ताभ्यामाश्वासितो राजा तूष्णीमासीद्विचेतनः