001 सञ्जय उवाच 001a शल्यस्तु कर्णार्जुनयोर्विमर्दे बलानि दृष्ट्वा मृदितानि बाणैः 001c दुर्योधनं यान्तमवेक्षमाणो सन्दर्शयद्भारत युद्धभूमिम् 002a निपातितस्यन्दनवाजिनागं दृष्ट्वा बलं तद्धतसूतपुत्रम् 002c दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो मुहुर्मुहुर्न्यश्वसदार्तरूपः 003a कर्णं तु शूरं पतितं पृथिव्यां शराचितं शोणितदिग्धगात्रम् 003c यदृच्छया सूर्यमिवावनिस्थं दिदृक्षवः सम्परिवार्य तस्थुः 004a प्रहृष्टवित्रस्तविषण्णविस्मृतास्तथापरे शोकगता इवाभवन् 004c परे त्वदीयाश्च परस्परेण यथा यथैषां प्रकृतिस्तथाभवन् 005a प्रविद्धवर्माभरणाम्बरायुधं धनञ्जयेनाभिहतं हतौजसम् 005c निशम्य कर्णं कुरवः प्रदुद्रुवुर्हतर्षभा गाव इवाकुलाकुलाः 006a कृत्वा विमर्दं भृशमर्जुनेन कर्णं हतं केसरिणेव नागम् 006c दृष्ट्वा शयानं भुवि मद्रराजो; भीतोऽपसर्पत्सरथः सुशीघ्रम् 007a मद्राधिपश्चापि विमूढचेतास्तूर्णं रथेनापहृतध्वजेन 007c दुर्योधनस्यान्तिकमेत्य शीघ्रं सम्भाष्य दुःखार्तमुवाच वाक्यम् 008a विशीर्णनागाश्वरथप्रवीरं बलं त्वदियं यमराष्ट्रकल्पम् 008c अन्योन्यमासाद्य हतं महद्भिर्नराश्वनागैर्गिरिकूटकल्पैः 009a नैतादृशं भारत युद्धमासीद्यथाद्य कर्णार्जुनयोर्बभूव 009c ग्रस्तौ हि कर्णेन समेत्य कृष्णा वन्ये च सर्वे तव शत्रवो ये 010a दैवं तु यत्तत्स्ववशं प्रवृत्तं तत्पाण्डवान्पाति हिनस्ति चास्मान् 010c तवार्थसिद्ध्यर्थकरा हि सर्वे प्रसह्य वीरा निहता द्विषद्भिः 011a कुबेरवैवस्वतवासवानां तुल्यप्रभावाम्बुपतेश्च वीराः 011c वीर्येण शौर्येण बलेन चैव तैस्तैश्च युक्ता विपुलैर्गुणौघैः 012a अवध्यकल्पा निहता नरेन्द्रास्तवार्थकामा युधि पाण्डवेयैः 012c तन्मा शुचो भारत दिष्टमेतत्पर्यायसिद्धिर्न सदास्ति सिद्धिः 013a एतद्वचो मद्रपतेर्निशम्य स्वं चापनीतं मनसा निरीक्ष्य 013c दुर्योधनो दीनमना विसञ्ज्ञः पुनः पुनर्न्यश्वसदार्तरूपः 014a तं ध्यानमूकं कृपणं भृशार्तमार्तायनिर्दीनमुवाच वाक्यम् 014c पश्येदमुग्रं नरवाजिनागैरायोधनं वीरहतैः प्रपन्नम् 015a महीधराभैः पतितैर्महागजैः सकृत्प्रविद्धैः शरविद्धमर्मभिः 015c तैर्विह्वलद्भिश्च गतासुभिश्च प्रध्वस्तयन्त्रायुधवर्मयोधैः 016a वज्रापविद्धैरिव चाचलेन्द्रैर्विभिन्नपाषाणमृगद्रुमौषधैः 016c प्रविद्धघण्टाङ्कुशतोमरध्वजैः सहेममालै रुधिरौघसम्प्लुतैः 017a शरावभिन्नैः पतितैश्च वाजिभिः श्वसद्भिरन्यैः क्षतजं वमद्भिः 017c दीनैः स्तनद्भिः परिवृत्तनेत्रैर्महीं दशद्भिः कृपणं नदद्भिः 018a तथापविद्धैर्गजवाजियोधै;र्मन्दासुभिश्चैव गतासुभिश्च 018c नराश्वनागैश्च रथैश्च मर्दितैर्मही महावैतरणीव दुर्दृशा 019a गजैर्निकृत्तापरहस्तगात्रैरुद्वेपमानैः पतितैः पृथिव्याम् 019c यशस्विभिर्नागरथाश्वयोधिभिः पदातिभिश्चाभिमुखैर्हतैः परैः 019e विशीर्णवर्माभरणाम्बरायुधैर्वृता निशान्तैरिव पावकैर्मही 020a शरप्रहाराभिहतैर्महाबलैरवेक्ष्यमाणैः पतितैः सहस्रशः 020c प्रनष्टसञ्ज्ञैः पुनरुच्छ्वसद्भिर्मही बभूवानुगतैरिवाग्निभिः 020e दिवश्च्युतैर्भूरतिदीप्तिमद्भिर्नक्तं ग्रहैर्द्यौरमलेव दीप्तैः 021a शरास्तु कर्णार्जुनबाहुमुक्ता विदार्य नागाश्वमनुष्यदेहान् 021c प्राणान्निरस्याशु महीमतीयुर्महोरगा वासमिवाभितोऽस्त्रैः 022a हतैर्मनुष्याश्वगजैश्च सङ्ख्ये शरावभिन्नैश्च रथैर्बभूव 022c धनञ्जयस्याधिरथेश्च मार्गे गजैरगम्या वसुधातिदुर्गा 023a रथैर्वरेषून्मथितैश्च योधैः संस्यूतसूताश्ववरायुधध्वजैः 023c विशीर्णशस्त्रैर्विनिकृत्तबन्धुरैर्निकृत्तचक्राक्षयुगत्रिवेणुभिः 024a विमुक्तयन्त्रैर्निहतैरयस्मयैर्हतानुषङ्गैर्विनिषङ्गबन्धुरैः 024c प्रभग्ननीडैर्मणिहेममण्डितैः स्तृता मही द्यौरिव शारदैर्घनैः 025a विकृष्यमणैर्जवनैरलङ्कृतैर्हतेश्वरैराजिरथैः सुकल्पितैः 025c मनुष्यमातङ्गरथाश्वराशिभिर्द्रुतं व्रजन्तो बहुधा विचूर्णिताः 026a सहेमपट्टाः परिघाः परश्वधाः कडङ्गरायोमुसलानि पट्टिशाः 026c पेतुश्च खड्गा विमला विकोशा गदाश्च जाम्बूनदपट्टबद्धाः 027a चापानि रुक्माङ्गदभूषणानि शराश्च कार्तस्वरचित्रपुङ्खाः 027c ऋष्ट्यश्च पीता विमला विकोशाः प्रासाः सखड्गाः कनकावभासाः 028a छत्राणि वालव्यजनानि शङ्खाः स्रजश्च पुष्पोत्तमहेमचित्राः 028c कुथाः पताकाम्बरवेष्टिताश्च किरीटमाला मुकुटाश्च शुभ्राः 029a प्रकीर्णका विप्रकीर्णाः कुथाश्च प्रधानमुक्तातरलाश्च हाराः 029c आपीडकेयूरवराङ्गदानि ग्रैवेयनिष्काः ससुवर्णसूत्राः 030a मण्युत्तमा वज्रसुवर्णमुक्ता रत्नानि चोच्चावचमङ्गलानि 030c गात्राणि चात्यन्तसुखोचितानि शिरांसि चेन्दुप्रतिमाननानि 031a देहांश्च भोगांश्च परिच्छदांश्च त्यक्त्वा मनोज्ञानि सुखानि चापि 031c स्वधर्मनिष्ठां महतीमवाप्य व्याप्तांश्च लोकान्यशसा समीयुः 032a इत्येवमुक्त्वा विरराम शल्यो दुर्योधनः शोकपरीतचेताः 032c हा कर्ण हा कर्ण इति ब्रुवाण आर्तो विसञ्ज्ञो भृशमश्रुनेत्रः 033a तं द्रोणपुत्रप्रमुखा नरेन्द्राः सर्वे समाश्वास्य सह प्रयान्ति 033c निरीक्षमाणा मुहुरर्जुनस्य ध्वजं महान्तं यशसा ज्वलन्तम् 034a नराश्वमातङ्गशरीरजेन रक्तेन सिक्ता रुधिरेण भूमिः 034c रक्ताम्बरस्रक्तपनीययोगान्नारी प्रकाशा इव सर्वगम्या 035a प्रच्छन्नरूपा रुधिरेण राजन्रौद्रे मुहूर्तेऽतिविराजमानाः 035c नैवावतस्थुः कुरवः समीक्ष्य प्रव्राजिता देवलोकाश्च सर्वे 036a वधेन कर्णस्य सुदुःखितास्ते हा कर्ण हा कर्ण इति ब्रुवाणाः 036c द्रुतं प्रयाताः शिबिराणि राजन्दिवाकरं रक्तमवेक्षमाणाः 037a गाण्डीवमुक्तैस्तु सुवर्णपुङ्खैः शितैः शरैः शोणितदिग्धवाजैः 037c शरैश्चिताङ्गो भुवि भाति कर्णो हतोऽपि सन्सूर्य इवांशुमाली 038a कर्णस्य देहं रुधिरावसिक्तं भक्तानुकम्पी भगवान्विवस्वान् 038c स्पृष्ट्वा करैर्लोहितरक्तरूपः सिष्णासुरभ्येति परं समुद्रम् 039a इतीव सञ्चिन्त्य सुरर्षिसङ्घाः सम्प्रस्थिता यान्ति यथानिकेतम् 039c सञ्चिन्तयित्वा च जना विसस्रुर्यथासुखं खं च महीतलं च 040a तदद्भुतं प्राणभृतां भयङ्करं निशम्य युद्धं कुरुवीरमुख्ययोः 040c धनञ्जयस्याधिरथेश्च विस्मिताः प्रशंसमानाः प्रययुस्तदा जनाः 041a शरैः सङ्कृत्तवर्माणं वीरं विशसने हतम् 041c गतासुमपि राधेयं नैव लक्ष्मीर्व्यमुञ्चत 042a नानाभरणवान्राजन्मृष्टजाम्बूनदाङ्गदः 042c हतो वैकर्तनः शेते पादपोऽङ्कुरवानिव 043a कनकोत्तमसङ्काशः प्रदीप्त इव पावकः 043c सपुत्रः पुरुषव्याघ्रः संशान्तः पार्थतेजसा 043e प्रताप्य पाण्डवान्राजन्पाञ्चालांश्चास्त्रतेजसा 044a ददानीत्येव योऽवोचन्न नास्तीत्यर्थितोऽर्थिभिः 044c सद्भिः सदा सत्पुरुषः स हतो द्वैरथे वृषः 045a यस्य ब्राह्मणसात्सर्वमात्मार्थं न महात्मनः 045c नादेयं ब्राह्मणेष्वासीद्यस्य स्वमपि जीवितम् 046a सदा नॄणां प्रियो दाता प्रियदानो दिवं गतः 046c आदाय तव पुत्राणां जयाशां शर्म वर्म च 047a हते स्म कर्णे सरितो न स्रवन्ति जगाम चास्तं कलुषो दिवाकरः 047c ग्रहश्च तिर्यग्ज्वलितार्कवर्णो यमस्य पुत्रोऽभ्युदियाय राजन् 048a नभः पफालाथ ननाद चोर्वी ववुश्च वाताः परुषातिवेलम् 048c दिशः सधूमाश्च भृशं प्रजज्वलुर्महार्णवाश्चुक्षुभिरे च सस्वनाः 049a सकाननाः साद्रिचयाश्चकम्पुः प्रविव्यथुर्भूतगणाश्च मारिष 049c बृहस्पती रोहिणीं सम्प्रपीड्य बभूव चन्द्रार्कसमानवर्णः 050a हते कर्णे न दिशो विप्रजज्ञुस्तमोवृता द्यौर्विचचाल भूमिः 050c पपात चोल्का ज्वलनप्रकाशा निशाचराश्चाप्यभवन्प्रहृष्टाः 051a शशिप्रकाशाननमर्जुनो यदा क्षुरेण कर्णस्य शिरो न्यपातयत् 051c अथान्तरिक्षे दिवि चेह चासकृद्बभूव हाहेति जनस्य निस्वनः 052a स देवगन्धर्वमनुष्यपूजितं निहत्य कर्णं रिपुमाहवेऽर्जुनः 052c रराज पार्थः परमेण तेजसा वृत्रं निहत्येव सहस्रलोचनः 053a ततो रथेनाम्बुदवृन्दनादिना शरन्नभोमध्यगभास्करत्विषा 053c पताकिना भीमनिनादकेतुना हिमेन्दुशङ्खस्फटिकावभासिना 053e सुवर्णमुक्तामणिवज्रविद्रुमैरलङ्कृतेनाप्रतिमानरंहसा 054a नरोत्तमौ पाण्डवकेशिमर्दनावुदाहितावग्निदिवाकरोपमौ 054c रणाजिरे वीतभयौ विरेजतुः समानयानाविव विष्णुवासवौ 055a ततो धनुर्ज्यातलनेमिनिस्वनैः प्रसह्य कृत्वा च रिपून्हतप्रभान् 055c संसाधयित्वैव कुरूञ्शरौघैः कपिध्वजः पक्षिवरध्वजश्च 055e प्रसह्य शङ्खौ धमतुः सुघोषौ मनांस्यरीणामवसादयन्तौ 056a सुवर्णजालावततौ महास्वनौ हिमावदातौ परिगृह्य पाणिभिः 056c चुचुम्बतुः शङ्खवरौ नृणां वरौ वराननाभ्यां युगपच्च दध्मतुः 057a पाञ्चजन्यस्य निर्घोषो देवदत्तस्य चोभयोः 057c पृथिवीमन्तरिक्षं च द्यामपश्चाप्यपूरयत् 058a तौ शङ्खशब्देन निनादयन्तौ वनानि शैलान्सरितो दिशश्च 058c वित्रासयन्तौ तव पुत्रसेनां युधिष्ठिरं नन्दयतः स्म वीरौ 059a ततः प्रयाताः कुरवो जवेन श्रुत्वैव शङ्खस्वनमीर्यमाणम् 059c विहाय मद्राधिपतिं पतिं च दुर्योधनं भारत भारतानाम् 060a महाहवे तं बहु शोभमानं धनञ्जयं भूतगणाः समेताः 060c तदान्वमोदन्त जनार्दनं च प्रभाकरावभ्युदितौ यथैव 061a समाचितौ कर्णशरैः परन्तपावुभौ व्यभातां समरेऽच्युतार्जुनौ 061c तमो निहत्याभ्युदितौ यथामलौ शशाङ्कसूर्याविव रश्मिमालिनौ 062a विहाय तान्बाणगणानथागतौ सुहृद्वृतावप्रतिमानविक्रमौ 062c सुखं प्रविष्टौ शिबिरं स्वमीश्वरौ सदस्यहूताविव वासवाच्युतौ 063a सदेवगन्धर्वमनुष्यचारणैर्महर्षिभिर्यक्षमहोरगैरपि 063c जयाभिवृद्ध्या परयाभिपूजितौ निहत्य कर्णं परमाहवे तदा